अध्यायः 008
मेरोरुत्तरभागस्थखण्डत्रयवर्णनम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
वर्षाणां चैव नामानि पर्वतानां च सञ्जय । 001a
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥ 001c
सञ्जय उवाच 002
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु । 002a
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ 002c
शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः । 003a
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥ 003c
दशवर्षसहस्राणि शतानि दश पञ्च च । 004a
जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥ 004c
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण तु । 005a
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥ 005c
यत्र चायं महाराज पक्षिराट् पतगोत्तमः । 006a
यक्षानुगा महाराज धनिनः प्रियदर्शनाः ॥ 006c
महाबलास्तत्र जना राजन्मुदितमानसाः । 007a
एकादशसहस्राणि वर्षाणां ते जनाधिप ॥ 007c
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च । 008a
शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप ॥ 008c
एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् । 009a
सर्वरत्नमयं चैकं भवनैरुपशोभितम् । 009c
तत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली ॥ 009e
उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप । 010a
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ॥ 010c
न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः । 011a
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ॥ 011c
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः । 012a
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ 012c
अनिष्पन्दा इष्टगन्धा निराहारा जितेन्द्रियाः । 013a
देवलोकच्युताः सर्वे तथा विरजसो नृप ॥ 013c
त्रयोदशसहस्राणि वर्षाणां ते जनाधिप । 014a
आयुःप्रमाणं जीवन्ति नरा भरतसत्तम ॥ 014c
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः । 015a
हरिर्वसति वैकुण्ठः शकटे कनकोज्ज्वले ॥ 015c
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् । 016a
अग्निवर्णं महातेजो जाम्बूनदविभूषितम् ॥ 016c
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ । 017a
सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता तथा ॥ 017c
पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव । 018a
स यज्ञः सर्वभूतनामास्यं तस्य हुताशनः ॥ 018c
वैशम्पायन उवाच 019
एवमुक्तः सञ्जयेन धृतराष्ट्रो महामनाः । 019a
ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ॥ 019c
स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः । 020a
असंशयं सूतपुत्र कालः सङ्क्षिपते जगत् ॥ 020c
सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् । 021a
नरो नारायणश्चैव सर्वज्ञः सर्वभूतहृत् ॥ 021c
देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् ॥ ॥ 022ac
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि अष्टमोऽध्यायः ॥
6-8-2 यत्पूर्वं श्वेतवर्षमित्युक्तं तस्यैव रमणकमिति सञ्ज्ञान्तरम् ॥ 6-8-8 शृङ्गवतः षष्ठस्य वर्षपर्वतस्य ॥ 6-8-10 शृङ्गस्य शृङ्गवतः ॥ 6-8-13 अनिष्पन्दा अस्वेदाः । देवतुल्या इत्यर्थः ॥