अध्यायः 007
मेरोरुत्तरभागस्थोत्तरकुरुवर्णनम् ॥ 1 ॥ तथा मेरोः पूर्वभागस्थभद्राश्वखण्डवर्णनम् ॥ 2 ॥
धृतराष्ट्र उवाच 001
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय । 001a
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥ 001c
सञ्जय उवाच 002
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे । 002a
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥ 002c
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः । 003a
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥ 003c
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप । 004a
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥ 004c
ये क्षरन्ति सदा क्षीरं षड्रसं चामृतोपमम् । 005a
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ 005c
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । 006a
सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप । 006c
पुष्करिष्यः शुभास्तत्र सुखस्पर्शा मनोरमाः ॥ 006e
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः । 007a
शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः ॥ 007c
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः । 008a
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ॥ 008c
मिथुनं जायते काले समं तच्च प्रवर्धते । 009a
तुल्यरूपगुणोपेतं समवेषं तथैव च ॥ 009c
एवमेवानुरूपं च चक्रवाकसमं विभो । 010a
निरामयाश्च ते लोका नित्यं मुदितमानसाः ॥ 010c
दशवर्षसहस्राणि दशवर्षशतानि च । 011a
जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥ 011c
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः । 012a
तान्निर्हरन्तीह मृतान्दरीषु प्रक्षिपन्ति च ॥ 012c
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः । 013a
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥ 013c
तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशाम्पते । 014a
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥ 014c
कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः । 015a
द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः ॥ 015c
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः । 016a
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥ 016c
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः । 017a
चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः ॥ 017c
दशवर्षसहस्राणि तत्रायुर्भरतर्षभ । 018a
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥ 018c
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु । 019a
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥ 019c
सर्वकामफलः पुण्यः सिद्धचारणसेवितः । 020a
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥ 020c
योजनानां सहस्त्रं च शतं च भरतर्षभ । 021a
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ॥ 021c
अरत्नीनां सहस्रं च शतानि दश पञ्च च । 022a
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥ 022c
पतमानानि तान्युर्वीं कुर्वन्ति विपुलं स्वनम् । 023a
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम् ॥ 023c
तस्या जम्बाः फलरसो नदी भूत्वा जनाधिप । 024a
मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान्कुरून् ॥ 024c
तत्र तेषां मनःशान्तिर्न पिपासा जनाधिप । 025a
तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥ 025c
तत्र जाम्बूनदं नाम कनकं देवभूषणम् । 026a
इन्द्रगोपकसङ्काशं जायते भास्वरं तु तत् ॥ 026c
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः । 027a
तथा माल्यवतः शृङ्गे दृश्यते हव्यवाट् सदा ॥ 027c
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ । 028a
तथा माल्यवतः शृङ्गे पूर्वपूर्वानुगण्डिका ॥ 028c
योजनानां सहस्राणि पञ्चषण्माल्यवानथ । 029a
महारजतसङ्काशा जायन्ते तत्र मानवाः ॥ 029c
ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः । 030a
तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्ध्वरेतसः । 030c
रक्षणार्थं तु भूतानां प्रविश्यन्ते दिवाकरम् ॥ 030e
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च । 031a
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥ 031c
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च । 032a
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥ ॥ 032c
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि सप्तमोऽध्यायः ॥
6-7-3 मधुफलाः स्वादुफलाः ॥ 6-7-7 शुक्लाभिजनो विष्णुभक्तजनस्तेन सम्पन्नास्तत्सङ्गिनः ॥ 6-7-10 चक्रवाकौ सहचरौ पक्षिदम्पती ॥ 6-7-14 मूर्धाभिषेको मूर्धाभिषिक्तम् । मुख्यमिति यावत् ॥ 6-7-28 गण्डिका क्षुद्रपर्वतः ॥ 6-7-29 पञ्चषट् पञ्चाधिकाः षट् एकादशेत्यर्थः । महारजतं काञ्चनं तत्सङ्काशाः ॥ 6-7-30 ब्रह्मलोकेति । ये इतः कर्मणा ब्रह्मलोकं गतास्ते ततश्च्युताः सन्तो माल्यवति पर्वते जन्म लब्ध्वा भूतानां रक्षणार्थं तपस्तप्त्वा दिवाकरं प्रविशन्ते तत्समीपं प्राप्नुवन्ति ॥