अध्यायः 006
सञ्जयेन भारतादिनवखण्डानां तत्तत्सीमापर्वतानां मेरोश्च वर्णनम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
उक्तो द्वीपस्य सङ्क्षेपो विधिवद्बुद्धिमंस्त्वया । 001a
तत्त्वज्ञश्चासि सर्वस्य विस्तारं ब्रूहि सञ्जय ॥ 001c
यावान्भूम्यवकाशोऽयं दृश्यते शशलक्षणे । 002a
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥ 002c
वैशम्पायन उवाच 003
एवं राज्ञा स पृष्टस्तु सञ्जयो वाक्यमब्रवीत् । 003a
प्रागायता महाराज षडेते वर्षपर्वताः । 003c
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥ 003e
सञ्जय उवाच 004
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः । 004a
नीलश्च वैदूर्यमयः श्वेतश्च शशिसन्निभः ॥ 004c
सर्वधातुविचित्रश्च शृङ्गवान्नाम पर्वतः । 005a
एते वै पर्वता राजन्सिद्धचारणसेविताः ॥ 005c
एषामन्तरविष्कम्भा योजनानि सहस्रशः । 006a
तत्र पुण्या जनपदास्तानि वर्षाणि भारत ॥ 006c
वसन्ति तेषु सत्वानि नानाजातीनि सर्वशः । 007a
इदं तु भारतं वर्षं ततो हैमवतं परम् ॥ 007c
'ततः किम्पुरुषावासं वर्षं हिमवतः परम् ।' 008a
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ॥ 008c
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु । 009a
प्रागायतो महाभाग माल्यवान्नाम पर्वतः ॥ 009c
ततः परं माल्यवतः पर्वतो गन्धमादनः । 010a
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः । 010c
तरुणादित्यसङ्काशो विधूम इव पावकः ॥ 010e
योजनानां सहस्राणि षोडशाधः किल स्मृतः । 011a
ऊर्ध्वं च चतुरशीतिर्द्वात्रिंशन्मूर्ध्नि विस्तृतः । 011c
अधस्ताच्चतुरशीतिर्योजनानां महीपते ॥ 011e
ऊर्ध्वम्मधश्च तिर्यक्च मेरुरावृत्य तिष्ठति । 012a
तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता विभो ॥ 012c
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत । 013a
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ 013c
विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल । 014a
स वै विचिन्तयामास सौवर्णान्वीक्ष्य वायसान् ॥ 014c
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् । 015a
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥ 015c
तमादित्योऽनुपर्येति सततं ज्योतिषां वरः । 016a
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः ॥ 016c
सपर्वतो महाराज दिव्यपुष्पफलान्वितः । 017a
भवनैरावृतः सर्वैर्जाम्बूनदपरिष्कृतैः ॥ 017c
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः । 018a
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा ॥ 018c
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः । 019a
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥ 019c
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहाहुहूः । 020a
अभिगम्यामरश्रेष्ठांस्तुष्टुवुर्विविधैः स्तवैः ॥ 020c
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः । 021a
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥ 021c
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते । 022a
इमानि तस्य रत्नानि तस्येमे रत्नपर्वताः ॥ 022c
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते । 023a
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥ 023c
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमैश्चितम् । 024a
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥ 024c
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः । 025a
उमासहायो भगवान्रमते भूतभावनः ॥ 025c
कर्णिकारमयी मालां बिभ्रत्पादावलम्बिनीम् । 026a
त्रिभिर्नेत्रैः कृतोद्योतस्त्रिभिः सूर्यैरिवोदितैः ॥ 026c
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः । 027a
पश्यन्ति नहि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ॥ 027c
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर । 028a
विश्वरूपाऽपरिमिता भीमनिर्घातनिःस्वना ॥ 028c
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा । 029a
प्लवन्तीव प्रवेगेन ह्रदे चन्द्रमसः शुभे ॥ 029c
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः । 030a
तां धारयामास तदा दुर्धरां पर्वतैरपि ॥ 030c
शतं वर्षसहस्राणां शिरसैव महेश्वरः । 031a
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ॥ 031c
जम्बूखण्डे तु तत्रैव महाजनपदो नृप । 032a
आयुर्दशसहस्राणि वर्षाणां तत्र भारत ॥ 032c
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः । 033a
अनामया वीतशोका नित्यं मुदितमानसाः ॥ 033c
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः । 034a
गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः ॥ 034c
संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः । 035a
गन्धमादनपार्श्वे तु परे त्वपरगण्डिकाः ॥ 035c
एकादशसहस्राणि वर्षाणां परमायुषः । 036a
तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः । 036c
स्त्रियश्चोत्पलवर्णाभाः सर्वाः सुप्रियदर्शनाः ॥ 036e
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् । 037a
वर्षमैरावतं राजन्नानाजनपदावृतम् ॥ 037c
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे । 038a
इलावृत्तं मध्यमं तु पञ्च दीर्घाणि चैव हि ॥ 038c
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः । 039a
आयुःप्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ॥ 039c
समन्वितानि भूतानि तेषु वर्षेषु भारत । 040a
एवमेषा महाराज पर्वतैः पृथिवी चिता ॥ 040c
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः । 041a
यत्र वैश्रवणो राजन्गुह्यकैः सह मोदते ॥ 041c
तत्र देवो महादेवो नित्यमास्ते सहोमया । 042a
शीते शिलातले रम्ये देवर्षिगणपूजितः ॥' 042c
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति । 043a
हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥ 043c
तस्य पार्श्वे महद्दिव्यं शुभ्रं काञ्चनवालुकम् । 044a
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ 044c
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः । 045a
यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः ॥ 045c
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः । 046a
स्रष्टा भूतपतिर्यत्र सर्वलोकान्सनातनान् ॥ 046c
उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः । 047a
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥ 047c
तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता । 048a
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ॥ 048c
वस्वौकसारा नलिनी पावनी च सरस्वती । 049a
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ॥ 049c
अचिन्त्या दिव्यसङ्काशा प्रभोरेषैव संविधिः । 050a
उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ 050c
दृश्याऽदृश्या च भवति तत्र तत्र सरस्वती । 051a
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ॥ 051c
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः । 052a
सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ॥ 052c
देवासुराणां सर्वेषां श्वेतपर्वत उच्यते । 053a
गन्धर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा । 053c
शृङ्गवांस्तु महाराज देवानां प्रतिसञ्चरः ॥ 053e
इत्येतानि महाराज सप्त वर्षाणि भागशः । 054a
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥ 054c
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी । 055a
अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता ॥ 055c
यां तु पृच्छसि मां राजन्दिव्यामेतां शशाकृतिम् । 056a
पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे । 056c
कर्णौ तु शाकद्वीपश्च काश्यपद्वीप एव च ॥ 056e
ताम्रपर्णीशिरो राजञ्छ्रीमान्मलयपर्वतः । 057a
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥ ॥ 057c
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि षष्ठोऽध्यायः ॥
6-6-6 एवं दक्षिणां दिशमारभ्य यावदुत्तरसमाप्ति षट्प्राक्पश्चिमायाताः पर्वतास्तैश्च सप्तवर्षाणि । भवन्ति मध्ये मध्ये वासयोग्यानि स्थानानि भवन्ति । तेषां स्थानानां वर्षाख्यानामन्तरमाह एषामिति । विष्कम्भो विस्तारः ॥ 6-6-7 वसन्त्येषु तानि वर्षाणीति योगान्तरमाह वसन्तीति । हिमवतो दक्षिणे भारतं वर्षम् उत्तरतो हैमवतं वर्षं द्वितीयम् । अस्यैव नामान्तरं किम्पुरुषावासमिति ॥ 6-6-8 हेमकूटनिषधयोर्मध्ये हरिवर्षम् । निषधनीलयोर्मध्ये वर्षविभागमाह दक्षिणेनेति । दक्षिणेन दक्षिणतः समीप इत्यर्थः । एवमुत्तरेणेत्यादौ ज्ञेयम् ॥ 6-6-9 नीलनिषधयोर्मध्ये मेरुस्तस्य प्राक् माल्यवान् पूर्वसमुद्रावधिः । पश्चिमसमुद्रावधिर्गन्धमादन इत्यर्थः ॥ 6-6-12 तस्य पार्श्वेष्विति । पार्श्वेषु चतुर्दिक्षु । द्वीपा इव द्वीपाः नद्यन्तरत्वाद्वर्षाणि ॥ 6-6-13 भद्राश्वादिसाहचर्याज्जम्बूद्वीपशब्दोऽत्र भरतवर्षपरस्तस्य तत्सारत्वज्ञापनार्थः । तानेव स्तौति कृतपुण्यप्रतिश्रया इत्यादिना । कृता विहिताः पुण्यैः पुण्यवद्भिः प्रतिश्रया आश्रमा येषु ते ॥ 6-6-16 तं मेरुमादित्योऽनुपर्येति प्रदक्षिणीकरोति ॥ 6-6-22 काव्यः कविश्रेष्ठः शुक्रो रमत इति शेषः । तस्य काव्यस्य ॥ 6-6-23 तस्मात् काव्यात् । ततः कुबेरात् । कलांशं षोडशभागस्यापि लेशम् ॥ 6-6-28 क्षीरवत् श्वेता धारा यस्याः सा गङ्गा । विश्वरूपा विश्वो विष्णुस्तद्रूपा । तथाच स्मरन्ति- योसौ सर्वगतो विष्णुश्चित्स्वरूपी निरञ्जनः । स एव द्रवरूपेण गङ्गाम्भो नात्र संशय इति ॥ 6-6-30 तयैव प्रवेगेन मेरुप्राकारात् पतनजनितबलेन खनन्त्या स ह्रद उत्पादित इति सम्बन्धः ॥ 6-6-35 अपरगण्डिकाः अन्ये गन्धमादनस्यैवावयवभूता बुद्बुदोपमाः क्षुद्रशैलाः । गण्डो भूषणबुद्ब्रदे इति मेदिनी । स्वार्थिकः कः ॥ 6-6-36 उत्पलवर्णेन आभान्ति ताः उत्पलवर्णाभाः ॥ 6-6-37 एवं हिमवतो दक्षिणे भरतवर्षं । तदुत्तरे हैमवतं वर्षं । हेमकूटादुत्तरे हरिवर्षम् । निषधादुत्तरे नीलाच्च दक्षिणे मेरोः परित इलावृतमेकमेव चतुर्थं वर्षम् । अत्रैव केचिद्भद्राश्वकेतुमालयोर्वर्षान्तरत्वं प्रकल्प्य नववर्षाणीत्याचक्षते । ततो नीलात्पर्वतात् उत्तरतः श्वेतं पञ्चमं वर्षम् । श्वेतात्पर्वतादुत्तरतो हैरण्यकं वर्षं षष्ठम् । ततः शृङ्गवत्पर्वतात् ऐरावतं सप्तमं वर्षम् ॥ 6-6-38 धनुःसंस्थे धनुराकारे । एवमाकारं दक्षिणे भरतवर्षम् उत्तरे ऐरावतं च मध्ये पञ्चेति सप्तवर्षाणि ॥ 6-6-41 हेमेति हेमकूटएव कैलासः तस्योत्तरे मैनाकः तस्योत्तरतो हिरण्यशृङ्गः एतयोरन्तराले बिन्दुसरोऽस्तीति श्लोकत्रयार्थः ॥ 6-6-50 प्रभोरीश्वरस्य एष सप्तनद्यात्मकः संविधिः समीचीनं लोकोपकारार्थं विधानम् । एषैवेति सन्धिरार्षः ॥ 6-6-53 श्वेतपर्वतः स्थानमिति शेषः । गन्धर्वा वसन्तीति शेषः । प्रतिसञ्चरः व्यवहारस्थानम् ॥ 6-6-54 इतीति । वर्षाणि तत्र उपनिविष्टानि गतिमन्ति जङ्गमानि ध्रुवाणि स्थावराणि च सर्वाणि भूतान्येव । सर्वं दृश्यम् आश्रयाश्रितरूपं पाञ्चभौतिकमेवेत्यर्थः ॥ 6-6-55 बुभूषता श्रेयःप्राप्तुमिच्छता श्रद्धेया ॥