अध्यायः 005

सञ्जयेन धृतराष्ट्रं प्रति भूतपञ्चकगुणवर्णनपूर्वकं सङ्क्षेपेण जम्बूद्वीपवर्णनम् ॥ 1 । धृतराष्ट्र उवाच 001
नदीनां पर्वतानां च नामधेयानि सञ्जय । 001a
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥ 001c
प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः । 002a
निखिलेन समाचक्ष्व काननानि च सञ्जय ॥ 002c
सञ्जय उवाच 003
पञ्चेमानि महाराज महाभूतानि सङ्ग्रहात् । 003a
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ॥ 003c
भूमिरापस्तथा वायुरग्निराकाशमेव च । 004a
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥ 004c
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । 005a
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ॥ 005c
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते । 006a
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः । 006c
शब्दः स्पर्शश्च वायौ द्वौ अाकाशे शब्द एव तु ॥ 006e
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु । 007a
वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः ॥ 007c
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा ॥ 008ac
यदा तु विषमीभावमाविशन्ति परस्परम् । 009a
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥ 009c
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः । 010a
सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम् ॥ 010c
तत्रतत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः । 011a
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ 011c
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् । 012a
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ॥ 012c
सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन । 013a
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ॥ 013c
नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः । 014a
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥ 014c
वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान् । 015a
लवणेन समुद्रेण समन्तात्परिवारितः ॥ 015c
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः । 016a
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ॥ 016c
द्विरंशस्तु ततः प्लक्षो द्विरंशः शाल्मलिर्महान् । 017a
द्विरंशः पिप्पलस्तस्य द्विरंशश्च कुशो महान् । 017c
सर्वौषधिसमापन्नः पर्वतैः परिवारितः ॥ 017e
आपस्ततोऽन्या विज्ञेयाः शेषः सङ्क्षेप उच्यते । 018a
ततोऽन्य उच्यते चायमेनं सङ्क्षेपतः शृणु ॥ ॥ 018c

इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि पञ्चमोऽध्यायः ॥

6-5-13 किमस्य प्रमाणं का वा आकृतिस्तवाभिमतेत्याशङ्क्याह सुदर्शनमिति । सुदर्शनो नाम जम्बूवृक्षविशेषस्तन्नामाङ्कितोऽयं द्वीपः सुदर्शनद्वीपः तं प्रमाणत आकृतितश्च प्रकर्षेण वक्ष्यामि । तुशब्दः पक्षान्तरव्यावृत्त्यर्थः । चक्रसंस्थितः चक्रवत् संस्थितं संस्थानमाकारो यस्य सः ॥ 6-5-16 नन्वेवंविधस्य कथमतिसूक्ष्मत्वमुच्यतेऽत आह यथा हीति ॥