अध्यायः 004
व्यासे गते सञ्जयेन धृतराष्ट्रं प्रति भूमिगुणानुवर्णनम् ॥ 1 ॥
वैशम्पायन उवाच 001
एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते । 001a
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत ॥ 001c
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः । 002a
सञ्जयं संशितात्मानमपृच्छद्भरतर्षभ ॥ 002c
सञ्जयेमे महीपालाः शूरा युद्धाभिनन्दिनः । 003a
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह ॥ 003c
पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम् । 004a
न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम् ॥ 004c
भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् । 005a
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व सञ्जय ॥ 005c
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च । 006a
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ॥ 006c
देशानां च परीमाणं नगराणां च सञ्जय । 007a
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ॥ 007c
दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा । 008a
प्रभावात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ॥ 008c
सञ्जय उवाच 009
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् । 009a
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ॥ 009c
द्विविधानीह भूतानि चराणि स्थावराणि च । 010a
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ॥ 010c
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः । 011a
जरायुजानां प्रवरा मानवाः पशवश्च ये ॥ 011c
नानारूपधरा राजंस्तेषां भेदाश्चतुर्दश । 012a
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥ 012c
ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम् । 013a
सर्वेषामेव भूतानामन्योन्येनोपजीवनम् ॥ 013c
उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः । 014a
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥ 014c
तेषां विंशतिरेकोना महाभूतेषु पञ्चसु । 015a
चतुर्विंशतिरुद्दिष्टा गायत्री लोकसम्मता ॥ 015c
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् । 016a
तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति ॥ 016c
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः । 017a
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा ॥ 017c
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप । 018a
गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः ॥ 018c
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः । 019a
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश ॥ 019c
भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति । 020a
भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम् ॥ 020c
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् । 021a
तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ॥ ॥ 021c
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि चतुर्थोऽध्यायः ॥
6-4-4 नवा नैव । यमक्षयं यमलोकम् ॥ 6-4-10 त्रसानां जङ्गमानां योनिरुत्पत्तिस्थानम् ॥