अध्यायः 002
श्रीव्यासेन धृतराष्ट्रं प्रति युद्धदर्शनाय चक्षुर्दानकथनम् ॥ 1 ॥ धृतराष्ट्रेण युद्धश्रवणमात्रे प्रार्थिते व्यासेन सञ्जयं प्रति युद्धविषये सार्वज्ञदानपूर्वकं युद्धप्रकारकथननियोगः ॥ 2 । व्यासेन धृतराष्ट्रं प्रति दुर्निमित्तप्रादुर्भावकथनम् ॥ 3 ॥
वैशम्पायन उवाच 001
ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः । 001a
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥ 001c
भविष्यति रणे घोरे भरतानां पितामहः । 002a
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥ 002c
वैचित्रवीर्यं राजानं रहस्स्थमिदमब्रवीत् । 003a
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥ 003c
व्यास उवाच 004
राजन्परीतकालास्ते पुत्राश्चान्ये च पार्थिवाः । 004a
ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम् ॥ 004c
तेषु कालपरीतेषु विनश्यत्स्वेव भारत । 005a
कालपर्यायमाहाय मा स्म शोके मनः कृथाः ॥ 005c
यदि चेच्छसि सङ्ग्रामं द्रष्टुमेनं विशाम्पते । 006a
चक्षुर्ददानि ते पुत्र युद्धमेतन्निशामय ॥ 006c
धृतराष्ट्र उवाच 007
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम । 007a
युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा ॥ 007c
वैशम्पायन उवाच 008
तस्मिन्ननिच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति । 008a
वराणामीश्वरो व्यासः सञ्जयाय वरं ददौ ॥ 008c
व्यास उवाच 009
एष ते सञ्जयो राजन्युद्धमेतद्वदिष्यति । 009a
एतस्य सर्वं सङ्ग्रामे न परोक्षं भविष्यति ॥ 009c
चक्षुषा सञ्जयो राजन्दिव्येनैव समन्वितः । 010a
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥ 010c
प्रकाशं वाऽप्रकाशं वा दिवा वा यदि वा निशि । 011a
मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः ॥ 011c
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः । 012a
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥ 012c
अहं तु कीर्तिमेतेषां कुरूणां भरतर्षभ । 013a
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥ 013c
दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि । 014a
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥ 014c
वैशम्पायन उवाच 015
एवमुक्त्वा स भगवान्कुरूणां प्रतितामहः । 015a
पुनरेव महाभागो धृतराष्ट्रमुवाच ह ॥ 015c
इह युद्धे महाराज भविष्यति महान्क्षयः । 016a
तथेह च निमित्तानि भयदान्युपलक्षये ॥ 016c
श्येना गृध्राश्च काकाश्च काङ्काश्च सहिता बकैः । 017a
सम्पतन्ति ध्वजाग्रेषु समवायांश्च कुर्वते ॥ 017c
अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः । 018a
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥ 018c
कटाकटेति वाशन्तो भैरवा भयवेदिनः । 019a
कङ्काः क्रोशन्ति मध्याह्ने दक्षिणामभितो दिशम् ॥ 019c
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत । 020a
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥ 020c
श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः । 021a
त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ॥ 021c
ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् । 022a
अहोरात्रं मया दृष्टं तद्भयाय भविष्यति ॥ 022c
आलक्षे प्रभया हीनां पौर्णमासीं च कार्तिकीम् । 023a
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले ॥ 023c
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः । 024a
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥ 024c
अन्तरिक्षे वराहस्य पृषदंशस्य चोभयोः । 025a
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥ 025c
देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च । 026a
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ॥ 026c
अनाहता दुन्दुभयः प्रणदन्ति विशाम्पते । 027a
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥ 027c
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा । 028a
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥ 028c
गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः । 029a
अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः ॥ 029c
उभे सन्ध्ये प्रकाशन्ते दिशो दाहसमन्विते । 030a
पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत ॥ 030c
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसम्मता । 031a
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥ 031c
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः । 032a
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥ 032c
अनभ्रे च महाघोरस्तनितं श्रूयते भृशम् । 033a
वाहनानां च रुदतां निपतन्त्यश्रुबिन्दवः ॥ ॥ 033c
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि द्वितीयोऽध्यायः ॥
6-2-2 भविष्यति भाविनि ॥ 6-2-4 हिंसन्तीव नाशयिष्यन्त्येव ॥ 6-2-5 पर्यायं वैपरीत्यम् ॥ 6-2-6 निशामय पश्य ॥ 6-2-17 समवायान् सङ्घान् ॥ 6-2-18 अभ्यग्रं समीपम् । क्रव्यादा मांसभक्षकाः ॥ 6-2-19 वाशन्तः शब्दं कुर्वन्तः ॥ 6-2-21 परिघाः परिवेषाः कृष्णग्रीवाः मध्ये कृष्णाः श्वेतलोहितपर्यन्ताश्च सन्धौ सन्ध्यायाम् आवारयन्ति वेष्टयन्ति ॥ 6-2-22 निर्विशेषदिनक्षयम् इति झ. पाठे निर्विशेषदिनक्षयम् अहोरात्रम् । निश्चयेन विगतः शेषो यस्य तस्य दिनस्य तिथेः क्षयो यस्मिन् । सूर्योदयद्वयास्पर्शिनी क्षयतिथिर्यस्मिन् अहोरात्रे तन्मया दृष्टम् । तदेव विशिनष्टि ज्वलितेति । अर्केन्द्वोर्नक्षत्रममावास्यायामुभाभ्यामाक्रान्तं नक्षत्रं तदेव ज्वलितं पापग्रहाक्रान्तं यस्मिन् । दर्से क्षयतिथिः तन्नक्षत्रे च पापग्रह इत्ययं महान् दुर्योग इत्यर्थः ॥ 6-2-23 पद्मवर्णे रक्तपद्मवर्णे ॥ 6-2-27 अयुक्ताः अश्वैरयोजिता अपि प्रवर्तन्ते चलन्ति । महान्तो रथाः महारथाः । मनोरथा इति क पाठः ॥ 6-2-29 गृहीतशस्त्राः आत्तलोहाः लोहतुण्डा इति यावत् शस्त्रमायुधलोहयोरित्यमरः । चर्मिणो भृङ्गरिटिसञ्ज्ञाः कृष्णशलभविशेषाः ॥