भीष्मपर्व अध्यायः 001

कुरुक्षेत्रे कुरुपाण्डवसेनयोः परस्परसमागमः ॥ 1 ॥ उभयपक्षीयैः परस्परं समयकरणम् ॥ 2 ॥ श्रीवेदव्यासाय नमः नारायणं नमस्कृत्य नरं नरोत्तमम् । 001
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ 001
जनमेजय उवाच 001
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः । 001a
पार्थिवाश्च महात्मानो नानादेशसमागताः ॥ 001c
वैशम्पायन उवाच 002
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः । 002a
कुरुक्षेत्रे तपःक्षेत्रे शृणु त्वं पृथिवीपते ॥ 002c
तेऽवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः । 003a
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ॥ 003c
वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः । 004a
आशंसन्तो जयं युद्धे बलेनाभिमुखा रणे ॥ 004c
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् । 005a
प्राङ्मुखाः पश्चिमे भागे न्यवशन्त ससैनिकाः ॥ 005c
स्यमन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः । 006a
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥ 006c
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता । 007a
निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता ॥ 007c
यावत्तपति सूर्यो हि जम्बुद्वीपस्य मण्डलम् । 008a
तावदेव समावृत्तं बलं पार्थिवसत्तम ॥ 008c
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् । 009a
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥ 009c
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ । 010a
व्यादिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥ 010c
सञ्ज्ञाश्च विविधास्तात तेषां चक्रे युधिष्ठिरः । 011a
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥ 011c
अभिज्ञानानि सर्वेषां सञ्ज्ञाश्चाभरणानि च । 012a
योजयामास कौरव्यो युद्धकाल उपस्थिते ॥ 012c
दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महामनाः । 013a
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवम् ॥ 013c
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । 014a
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितः ॥ 014c
दृष्ट्वा दुर्योधनं हृष्टाः पाञ्चाला युद्धनन्दिनः । 015a
दध्मुः प्रीता महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥ 015c
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः । 016a
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥ 016c
स्वयोधान्हर्षयन्तौ च वासुदेवधनञ्जयौ । 017a
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥ 017c
पाञ्चजन्यस्य शङ्खस्य देवदत्तस्य चोभयोः । 018a
श्रुत्वा तु निनदं योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥ 018c
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः । 019a
त्रसेयुर्निनदं श्रुत्वा तथाऽसीदत तद्बलम् ॥ 019c
उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन । 020a
अस्तं गत इवादित्यः सैन्येन रजसा वृतः ॥ 020c
ववर्ष तत्र पर्जन्यो मांसशोणितवृष्टिमान् । 021a
व्युक्षन्सर्वाणि सैन्यानि तदद्भुतमिवाभवत् ॥ 021c
वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः । 022a
विनिघ्नंस्तान्यनीकानि शतशोऽथ सहस्रशः ॥ 022c
उभे सैन्ये च राजेन्द्र युद्धाय मुदिते भृशम् । 023a
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥ 023c
तयोस्तु सेनयोरासीदद्भुतः स तु सङ्गमः । 024a
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥ 024c
शून्याऽऽसीत्पृथिवी सर्वा वृद्धबालावशेषिता । 025a
निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता । 025c
तेन सेनासमूहेन समानीतेन कौरवैः ॥ 025e
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः । 026a
धर्मान्संस्थापयामासुर्युद्धानां भरतर्षभ ॥ 026c
निवृत्ते विहिते युद्धे स्यात्प्रीतिर्नः परस्परम् । 027a
यथापरं यथायोगं न च स्यात्कस्यचित्पुनः ॥ 027c
वाचा युद्धे प्रवृत्तानां वाचैव प्रतियोधनम् । 028a
निष्क्रान्ताः पृतनामध्यान्न हन्तव्याः कदाचन ॥ 028c
रथी च रथिना योध्यो गजेन गजधूर्गतः । 029a
अश्वेनाश्वी पदातिश्च पादातेनैव भारत ॥ 029c
यथायोगं यथाकामं यथोत्साहं यथाबलम् । 030a
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥ 030c
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा । 031a
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कदाचन ॥ 031c
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु । 032a
न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन ॥ 032c
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः । 033a
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥ 033c
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः । 034a
हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ॥ ॥ 034c

इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि प्रथमोऽध्यायः ॥

6-1-5 6-1-6 6-1-11 अभियाय अभ्येत्य न्यविशन्त । पाण्डवीया इति शेषः॥ बाह्यं बहिः ॥ शय्याश्च विविधास्तात - एवंवेदी वेदितव्यः इति झ. पाठः तत्पाठे एवमिति । एवंवेदी विद्वान् इति अन्यैः पाण्डवेयो ज्ञातव्य इत्येतदर्थमित्यर्थः ॥ 6-1-19 असीदत अवसन्नमभूत् ॥ 6-1-23 सागरक्षुभितोपमे क्षुभितसागरोपमे ॥ 6-1-27 धर्मसंस्थापनमेवाह यथापरमिति । यथायोगं तुल्ययोर्योगस्यानतिक्रमणाम् । यथा येन प्रकारेण अपरम् अनुत्कृष्टम् अन्याय्यमित्यर्थः । तथा न कस्यचित्तुल्ययोगातिक्रमः स्यादिति भावः ॥ 6-1-29 गजधूर्गतः गजस्कन्धगतः ॥