अध्यायः 196
युधिष्ठिरेणापि त्रेधाविभज्य स्वसेनानां प्रेषणम् ॥ 1 ॥
वैशम्पायन उवाच KK05-10-196-001
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः । KK05-10-196-001a
धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ॥ KK05-10-196-001c
चेदिकाशिकरूशानां नेतारं दृढविक्रमम् । KK05-10-196-002a
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥ KK05-10-196-002c
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् । KK05-10-196-003a
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥ KK05-10-196-003c
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः । KK05-10-196-004a
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ॥ KK05-10-196-004c
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव । KK05-10-196-005a
अथ सैन्यं यथायोगं पूजयित्वा नरर्षभः ॥ KK05-10-196-005c
दिदेश तान्यनीकानि प्रयाणाय महीपतिः । KK05-10-196-006a
तेषां युधिष्ठिरो राजा ससैन्यानां महात्मनाम् ॥ KK05-10-196-006c
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् । KK05-10-196-007a
स गजाश्वमनुष्याणां ये च शिल्पोपजीविनः ॥ KK05-10-196-007c
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः । KK05-10-196-008a
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ॥ KK05-10-196-008c
भीमं च युयुधानं च पाण्डवं च धनञ्जयम् । KK05-10-196-009a
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्टिरः ॥ KK05-10-196-009c
भाण्डं समारोपयतां चरतां सम्प्रधावताम् । KK05-10-196-010a
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पशत् ॥ KK05-10-196-010c
स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः । KK05-10-196-011a
अथापरैर्महीपालैः सह प्रायान्महीपतिः ॥ KK05-10-196-011c
भीमधन्वायती सेना धृष्टद्युम्नेन पालिता । KK05-10-196-012a
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥ KK05-10-196-012c
ततः पुनरनीकानि न्ययोजयत बुद्धिमान् । KK05-10-196-013a
मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिश्चयम् ॥ KK05-10-196-013c
द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः । KK05-10-196-014a
नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ॥ KK05-10-196-014c
दश चाश्वसहस्राणि द्विसहस्त्राणि दन्तिनाम् । KK05-10-196-015a
अयुतं च पदातीनां रथाः पञ्चशतं तथा ॥ KK05-10-196-015c
भीमसेनस्य दुर्धर्षं प्रथमं प्रादिशद्बलम् । KK05-10-196-016a
मध्यमे च विराटं च जयत्सेनं च पाण्डवः ॥ KK05-10-196-016c
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ । KK05-10-196-017a
वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ ॥ KK05-10-196-017c
अन्वयातां तदा मध्ये वासुदेवधनञ्जयौ । KK05-10-196-018a
'तौ दृष्ट्वा पृथिवीपाला नष्टमित्येव मेनिरे । KK05-10-196-018c
अन्तरिक्षगताः सर्वे देवाः सेन्द्रपुरोगमाः ॥ ' KK05-10-196-018e
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः । KK05-10-196-019a
तेषां विंशतिसाहस्रा हयाः शूरैरधिष्ठिताः । KK05-10-196-019c
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः ॥ KK05-10-196-019e
पदातयश्च ये शूराः कार्मुकासिगदाधराः । KK05-10-196-020a
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥ KK05-10-196-020c
युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे । KK05-10-196-021a
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥ KK05-10-196-021c
तत्र नागसहस्राणि हयानामयुतानि च । KK05-10-196-022a
तथा रथसहस्राणि पदातीनां च भारत ॥ KK05-10-196-022c
चेकितानः स्वसैन्येन महता पार्थिवर्षभ । KK05-10-196-023a
धृष्टकेतुश्च चेदीनां प्रणेता पार्थिवो ययौ ॥ KK05-10-196-023c
सात्यकिश्च महेष्वासो वृष्णीनां प्रवरो रथः । KK05-10-196-024a
वृतः शतसहस्रेण रथानां प्रणुदन्बली ॥ KK05-10-196-024c
क्षत्रदेवब्रह्मदेवौ रथस्थौ पुरुषर्षभौ । KK05-10-196-025a
जघनं पालयन्तौ च पृष्ठतोऽनुप्रजग्मतुः ॥ KK05-10-196-025c
शकटापणवेशाश्च यानं युग्यं च सर्वशः । KK05-10-196-026a
तत्र नागसहस्राणि हयानामयुतानि च । KK05-10-196-026c
फल्गु सर्वं कलत्रं च यत्किञ्चित्कृशदुर्बलम् ॥ KK05-10-196-026e
कोशसञ्चयवाहांश्च कोष्ठागारं तथैव च । KK05-10-196-027a
गजानीकेन सङ्गृह्य शनैः प्रायाद्युधिष्ठिरः ॥ KK05-10-196-027c
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः । KK05-10-196-028a
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य वा विभुः ॥ KK05-10-196-028c
रथा विंशतिसाहस्रा ये तेषामनुयायिनः । KK05-10-196-029a
हयानां दश कोट्यश्च महतां किङ्किणीकिनाम् ॥ KK05-10-196-029c
गजा विंशतिसाहस्रा ईषादन्ताः प्रहारिणः । KK05-10-196-030a
कुलीना भिन्नकरटा मेघा इव विसर्पिणः ॥ KK05-10-196-030c
षष्टिर्नागसहस्राणि दशान्यानि च भारत । KK05-10-196-031a
युधिष्ठिरस्य यान्यासन्युधि सेना महात्मनः ॥ KK05-10-196-031c
क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः । KK05-10-196-032a
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥ KK05-10-196-032c
एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः । KK05-10-196-033a
यदाश्रित्याथ युयुधे धार्तराष्ट्रं सुयोधनम् ॥ KK05-10-196-033c
ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः । KK05-10-196-034a
नर्दन्तः प्रययुस्तेषामनीकानि सहस्रशः ॥ KK05-10-196-034c
तत्र भेरीसहस्राणि शङ्खानामयुतानि च । KK05-10-196-035a
न्यवादयन्त संहृष्टाः सहस्रायुतशो नराः ॥ ॥ KK05-10-196-035c
इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्याम् उद्योगपर्वणि अम्बोपाख्यानपर्वणि षण्णवत्यधिकशततमोऽध्यायः ॥ ॥ समाप्तमम्बोपाख्यानपर्व ॥ उद्योगपर्व च ॥ अस्यानन्तरं भीष्मपर्व भविष्यति तस्ययमाद्य श्लोकः । जनमेजय उवाच । कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः । पार्थिवाः सुमहात्मानो नानादेशसमागताः ॥ इदम् उद्योगपर्व कुम्भघोणस्थेन टीo आर्o कृष्णाचार्येण टीo आर्o व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1828 सन 1907
5-196-12 भीमधन्वायनीति झ. पाठे भीमधन्वानः अयन्ते प्रचरन्त्यस्यामिति भीमधन्वायनी ॥ 5-196-19 कृतप्रहरणाः 'कृतयुद्धाः ' ॥ 5-196-26 शकटा भाण्डवन्ति अनांसि । आपणो वणिक्समुदायः । वेशो वेश्याजनः । यानं युद्धयोग्यं वाहनम् । युग्यं केवलं वाहनम् । फल्गु बालादिकम् । कलत्रं स्त्र्यादिकम् ॥ 5-196-27 कोशो धनम् । कोष्ठो धान्यादिसामग्री । सङ्गृह्य एकीकृत्य ॥