अध्यायः 195

दुर्योधनेन त्रेधाविभज्य सेनानां यापनम् ॥ 1 ॥ सर्वेषां शिबिरप्रवेशः ॥ 2 ॥ वैशम्पायन उवाच KK05-10-195-001
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः । KK05-10-195-001a
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ॥ KK05-10-195-001c
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः । KK05-10-195-002a
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः । KK05-10-195-002c
सर्वे ब्रह्मविदः शूराः सर्वे सुचरितव्रताः । KK05-10-195-003a
सर्वे कामकृतश्चैव सर्वे चाहवलक्षणाः ॥ KK05-10-195-003c
आहवेषु पराल्ँलोकाञ्जिगीषन्तो महाबलाः । KK05-10-195-004a
एकाग्रमनसः सर्वे श्रद्दधानाः परस्परम् ॥ KK05-10-195-004c
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह । KK05-10-195-005a
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥ KK05-10-195-005c
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः । KK05-10-195-006a
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये नृपाः ॥ KK05-10-195-006c
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः । KK05-10-195-007a
शकाः किराता यवनाः शिबयोऽथ वसातयः ॥ KK05-10-195-007c
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् । KK05-10-195-008a
एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥ KK05-10-195-008c
कृतवर्मा सहानीकस्त्रिगर्तश्च महारथः । KK05-10-195-009a
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥ KK05-10-195-009c
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्रथः । KK05-10-195-010a
एते पश्चादनुगता धार्तराष्ट्रपुरोगमाः ॥ KK05-10-195-010c
ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः । KK05-10-195-011a
कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः ॥ KK05-10-195-011c
दुर्योधनस्तु शिबिरं कारयामास भारत । KK05-10-195-012a
यथैव हास्तिनपुरं द्वितीयं समलङ्कृतम् ॥ KK05-10-195-012c
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा । KK05-10-195-013a
कुशला अपि राजेन्द्र नरा नगरवासिनः ॥ KK05-10-195-013c
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः । KK05-10-195-014a
कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥ KK05-10-195-014c
पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम् । KK05-10-195-015a
सेनानिवेशास्ते राजन्नाविशञ्छतसङ्घशः ॥ KK05-10-195-015c
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् । KK05-10-195-016a
विविशुः शिबिराण्यत्र द्रव्यवन्ति सहस्रशः ॥ KK05-10-195-016c
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् । KK05-10-195-017a
व्यादिदेश स बाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥ KK05-10-195-017c
सनागाश्वमनुष्याणां ये च शिल्पोपजीविनः । KK05-10-195-018a
ये चान्येऽनुगतास्तत्र सूतमागधवन्दिनः ॥ KK05-10-195-018c
वणिजो गणिकाश्चारा ये चैव प्रेक्षका जनाः । KK05-10-195-019a
सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत ॥ ॥ KK05-10-195-019c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः ॥