अध्यायः 194

युधिष्ठिरेण चारमुखात् भीष्मादिभिः स्वस्वशक्तिप्रकाशनं निशम्य अर्जुनं प्रति तच्छक्तिनिवेदनचोदने तत्कथनम् ॥ 1 ॥ वैशम्पायन उवाच KK05-10-194-001
एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे । KK05-10-194-001a
आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् ॥ KK05-10-194-001c
युधिष्ठिर उवाच KK05-10-194-002
धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम । KK05-10-194-002a
ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् ॥ KK05-10-194-002c
दुर्योधनः किलापृच्छदापगेयं महाव्रतम् । KK05-10-194-003a
केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो ॥ KK05-10-194-003c
मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः । KK05-10-194-004a
तावता चापि कालेन द्रोणोपि प्रतिजज्ञिवान् ॥ KK05-10-194-004c
गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् । KK05-10-194-005a
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् ॥ KK05-10-194-005c
तथा दिव्यास्त्रवित्कर्णः सम्पृष्टः कुरुसंसदि । KK05-10-194-006a
पञ्चभिर्दिवसैर्हन्तुं ससैन्यं प्रतिजज्ञिवान् ॥ KK05-10-194-006c
तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः । KK05-10-194-007a
कालेन कियता शत्रून्क्षपयेरिति फाल्गुन ॥ KK05-10-194-007c
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः । KK05-10-194-008a
वासुदेवं समीक्ष्येदं वचनं प्रत्यभाषत ॥ KK05-10-194-008c
सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः । KK05-10-194-009a
असंशयं महाराज हन्युरेव न संशयः ॥ KK05-10-194-009c
अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम् । KK05-10-194-010a
हन्यामेकरथेनैव वासुदेवसहायवान् ॥ KK05-10-194-010c
सामरानपि लोकांस्त्रीन्सर्वान्स्थावरजङ्गमान् । KK05-10-194-011a
भूतं भव्यं भविष्यं च निमेषादिति मे मतिः ॥ KK05-10-194-011c
'यावदिच्छेद्धरिरयं तावदस्ति न चान्यथा ।' KK05-10-194-012a
यत्तद्घोरं पशुपतिः प्रादादस्त्रं महन्मम । KK05-10-194-012c
कैराते द्वन्द्वयुद्धे तु तदिदं मयि वर्तते ॥ KK05-10-194-012e
यद्युगान्ते पशुपतिः सर्वभूतानि संहरन् । KK05-10-194-013a
प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते ॥ KK05-10-194-013c
तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः । KK05-10-194-014a
न च द्रोणसुतो राजन्कुत एव तु सूतजः ॥ KK05-10-194-014c
न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम् । KK05-10-194-015a
आर्जवेनैव युद्धेन विजेष्यामो वयं परान् ॥ KK05-10-194-015c
तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव । KK05-10-194-016a
सर्वे दिव्यास्त्रविद्वांसः सर्वे युद्धाभिकाङ्क्षिणः ॥ KK05-10-194-016c
वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः । KK05-10-194-017a
निहन्युः समरे सेनां देवानामपि पाण्डव ॥ KK05-10-194-017c
शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः । KK05-10-194-018a
भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ ॥ KK05-10-194-018c
विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि । KK05-10-194-019a
शङ्खश्चैव महाबाहुर्हैडिम्बश्च महाबलः ॥ KK05-10-194-019c
पुत्रोऽस्याञ्जनपर्वा तु महाबलपराक्रमः । KK05-10-194-020a
शैनेयश्च महाबाहुः सहायो रणकोविदः ॥ KK05-10-194-020c
अभिमन्युश्च बलवान्द्रौपद्याः पञ्च चात्मजाः । KK05-10-194-021a
स्वयं चापि समर्थोसि त्रेलोक्योत्सादनेपि च ॥ KK05-10-194-021c
क्रोधाद्यं पुरुषं पश्येस्तथा शक्रसमद्युते । KK05-10-194-022a
स क्षिप्रं नभवेद्व्यक्तमिति त्वां वेद्मि कौरव ॥ ॥ KK05-10-194-022c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यनपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥

5-194-2 व्युषितां निशां प्रभातकाले ॥