अध्यायः 193
दुर्योधनेन भीष्मादीन्प्रति युष्माभिः कियता कालेन समग्रपरसेनाक्षपणं कर्तुं शक्यमिति प्रश्ने तैः पृथक्पृथक्तदुत्तरदानम् ॥ 1 ॥
सञ्जय उवाच KK05-10-193-001
प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव । KK05-10-193-001a
मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत ॥ KK05-10-193-001c
दुर्योधन उवाच KK05-10-193-002
पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुद्यतम् । KK05-10-193-002a
प्रभूतनरनागाश्वं महारथसमाकुलम् ॥ KK05-10-193-002c
भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः । KK05-10-193-003a
लोकपालसमैर्गुप्तं धृष्टद्युम्नपुरोगमैः ॥ KK05-10-193-003c
अप्रधृष्यमनावार्यमुद्धूतमिव सागरम् । KK05-10-193-004a
सेनासागरमक्षोभ्यमपि देवैर्महाहवे ॥ KK05-10-193-004c
केन कालेन गाङ्गेय क्षपयेथा महाद्युते । KK05-10-193-005a
आचार्यो वा महेष्वासः कृपो वाऽऽशु महाबलः ॥ KK05-10-193-005c
कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः । KK05-10-193-006a
दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम ॥ KK05-10-193-006c
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे । KK05-10-193-007a
हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम ॥ KK05-10-193-007c
भीष्म उवाच KK05-10-193-008
अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते । KK05-10-193-008a
बलाबलममित्राणां तेषां यदिह पृच्छसि ॥ KK05-10-193-008c
शृणु राजन्मम रणे या शक्तिः परमा भवेत् । KK05-10-193-009a
शस्त्रवीर्ये रणे यच्च भुजयोश्च महाभुज ॥ KK05-10-193-009c
आर्जवेनैव युद्धेन योद्धव्य इतरो जनः । KK05-10-193-010a
मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः ॥ KK05-10-193-010c
हन्यामहं महाभाग पाण्डवानामनीकिनीम् । KK05-10-193-011a
दिवसे दिवसे कृत्वा भागान्भागान्निजान्मम ॥ KK05-10-193-011c
योधानां दशसाहस्रं कृत्वा भागं महाद्युते । KK05-10-193-012a
सहस्रं रथिनामेकमेष भागो मतो मम ॥ KK05-10-193-012c
अनेनाहं विधानेन सन्नद्धः सततोत्थितः । KK05-10-193-013a
क्षपयेयं महत्सैन्यं कालेनानेन भारत ॥ KK05-10-193-013c
मुञ्चेयं यदि वास्त्राणि महान्ति समरे स्थितः । KK05-10-193-014a
शतसाहस्रघातीनि हन्यां मासेन भारत ॥ KK05-10-193-014c
सञ्जय उवाच KK05-10-193-015
श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्ततः । KK05-10-193-015a
पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् ॥ KK05-10-193-015c
आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् । KK05-10-193-016a
निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव ॥ KK05-10-193-016c
स्थविरोऽस्मि महाबाहो मन्दप्राणविचेष्टितः । KK05-10-193-017a
शस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम् ॥ KK05-10-193-017c
यथा भीष्मः शान्तनवो मासेनेति मतिर्मम । KK05-10-193-018a
एषा मे परमा शक्तिरेतन्मे परमं बलम् ॥ KK05-10-193-018c
द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत् । KK05-10-193-019a
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम् । KK05-10-193-019c
कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित् ॥ KK05-10-193-019e
तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः । KK05-10-193-020a
जहास सस्वनं हासं वाक्यं चेदमुवाच ह ॥ KK05-10-193-020c
न हि यावद्रणे पार्थं बाणशङ्खधनुर्धरम् । KK05-10-193-021a
वासुदेवसमायुक्तं रथेनायान्तमाहवे ॥ KK05-10-193-021c
समागच्छसि राधेय तेनैवमभिमन्यसे । KK05-10-193-022a
शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः ॥ ॥ KK05-10-193-022c
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि त्रिनवत्यधिकशततमोऽध्यायः ॥