अध्यायः 192

स्थूणेन शिखण्डिन्यै पुनःपुंस्त्वप्रत्यर्पणप्रतिज्ञापनपूर्वकं तदीयस्त्रीत्वस्वीकारेण स्वीयपुंस्त्वसमर्पणम् ॥ 1 ॥ दाशार्णकेन उपायात् शिखण्डिनः पुंस्त्वं निर्धार्य स्वपुरगमनम् ॥ 2 ॥ अत्रान्तरे स्थूणगृहमागतेन कुबेरेण तं प्रति स्त्रीत्वधारणस्य शिखण्डिमरणावधिकत्वरूपशापदानम् ॥ 3 ॥ पुंस्त्वप्रत्यर्पणाय गतेन शिखण्डिना स्थूणात्तद्वृत्तान्तमुपलभ्य हर्षात्स्वगृहागमनम् ॥ 4 ॥ इति भीष्मेण दुर्योधनं प्रति शिखण्डिना सह स्वेन युद्धाकरणे कारणाभिधानम् ॥ 5 ॥ भीष्म उवाच KK05-10-192-001
शिखण्डिवाक्यं श्रुत्वाऽथ स यक्षो भरतर्षभ । KK05-10-192-001a
प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः ॥ KK05-10-192-001c
भवितव्यं तथा तद्धि मम दुःखाय कौरव । KK05-10-192-002a
भद्रे कामं करिष्यामि समयं तु निबोध मे ॥ KK05-10-192-002c
'स्वं ते पुंस्त्वं प्रदास्यामि स्त्रीत्वं धारयिताऽस्मि ते।' KK05-10-192-003a
किञ्चित्कालं तु ते दास्ये पुल्लिङ्गं स्वमिदं तव । KK05-10-192-003c
आगन्तव्यं त्वया काले सत्यं चैव वदस्व मे ॥ KK05-10-192-003e
प्रभुः सङ्कल्पसिद्धोऽस्मि कामचारी विहङ्गमः । KK05-10-192-004a
मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलम् ॥ KK05-10-192-004c
स्त्रीलिङ्गं धारयिष्यामि तवेदं पार्थिवात्मजे । KK05-10-192-005a
सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव ॥ KK05-10-192-005c
शिखण्ड्युवाच KK05-10-192-006
प्रतिदास्यामि भगवन्पुलिङ्गं तव सुव्रत । KK05-10-192-006a
किञ्चित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर ॥ KK05-10-192-006c
प्रतियाते दशार्णे तु पार्थिवे हेमवर्मणि । KK05-10-192-007a
कन्यैव हि भविष्यामि पुरुषस्त्वं भविष्यसि ॥ KK05-10-192-007c
भीष्म उवाच KK05-10-192-008
इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप । KK05-10-192-008a
अन्योन्यस्यानभिद्रोहे तौ सङ्क्रामयतां ततः ॥ KK05-10-192-008c
स्त्रीलिङ्गं धारयामास स्थूणो यक्षोऽथ भारत । KK05-10-192-009a
यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत ॥ KK05-10-192-009c
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव । KK05-10-192-010a
विवेश नगरं हृष्टः पितरं च समासदत् ॥ KK05-10-192-010c
यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य तत् । KK05-10-192-011a
'मातुश्च रहिते राजन्प्रसादं यक्षजं तदा ।' KK05-10-192-011c
द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम् ॥ KK05-10-192-011e
सभार्यस्तच्च सस्मार महेश्वरवचस्तदा । KK05-10-192-012a
ततः सम्प्रेषयामास दशार्णाधिपतेर्नृपः ॥ KK05-10-192-012c
पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति । KK05-10-192-013a
अथ दाशार्णको राजा सहसाभ्यागमत्तदा ॥ KK05-10-192-013c
पाञ्चालराजं द्रुपदं दुःखशोकसमन्वितः । KK05-10-192-014a
ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्ततः ॥ KK05-10-192-014c
प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम् । KK05-10-192-015a
ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम् ॥ KK05-10-192-015c
यन्मे कन्यां स्वकन्यार्थे वृतवानसि दुर्मते । KK05-10-192-016a
फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः ॥ KK05-10-192-016c
एवमुक्तश्च तेनासौ ब्राह्मणो राजसत्तम । KK05-10-192-017a
दूतः प्रयातो नगरं दाशार्णनृपचोदितः ॥ KK05-10-192-017c
तत आसादयामास पुरोधा द्रुपदं पुरे । KK05-10-192-018a
तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् ॥ KK05-10-192-018c
प्रापयामास राजेन्द्र सह तेन शिखण्डिना । KK05-10-192-019a
तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह ॥ KK05-10-192-019c
यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा । KK05-10-192-02a0
यत्तेऽहमधमाचार दुहित्राऽस्म्यभिवञ्चितः ॥ KK05-10-192-020c
तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते । KK05-10-192-021a
देहि युद्धं नरपते ममाद्य रणमूर्धनि ॥ KK05-10-192-021c
उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् । KK05-10-192-022a
तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः ॥ KK05-10-192-022c
दशार्णपतिना चोक्तो मन्त्रिमध्ये पुरोधसा । KK05-10-192-023a
अभवद्भरतश्रेष्ठ द्रुपदः प्रणयानतः ॥ KK05-10-192-023c
यदाह मां भवान्ब्रह्मन्सम्बन्धिवचनाद्वचः । KK05-10-192-024a
अस्योत्तरं प्रतिवचो दूतो राज्ञे वदिष्यति ॥ KK05-10-192-024c
ततः सम्प्रेषयामास द्रुपदोऽपि महात्मने । KK05-10-192-025a
हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् ॥ KK05-10-192-025c
तमागम्य तु राजानं दशार्णाधिपतिं तदा । KK05-10-192-026a
तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह ॥ KK05-10-192-026c
आगमः क्रियतां व्यक्तः कुमारोऽयं सुतो मम । KK05-10-192-027a
मिथ्यैतदुक्तं केनापि तदश्रद्धेयमित्युत ॥ KK05-10-192-027c
ततः स राजा द्रुपदस्य श्रुत्वा विमर्शयुक्तो युवतीर्वरिष्ठाः । KK05-10-192-028a
सम्प्रेषयामास सुचारुरूपाः शिखण्डिनं स्त्रीपुमान्वेति वेत्तुम् ॥ KK05-10-192-028c
ताः प्रेषितास्तत्त्वभावं विदित्वा प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् । KK05-10-192-029a
शिखण्डिनं पुरुषं कौरवेन्द्र दाशार्णराजाय महानुभावम् ॥ KK05-10-192-029c
ततः कृत्वा तु राजा स आगमं प्रीतिमानथ । KK05-10-192-030a
सम्बन्धिना समागम्य हृष्टो वासमुवास ह ॥ KK05-10-192-030c
शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः । KK05-10-192-031a
हस्तिनोऽश्वांश्च गाश्चैव दासीर्बहुशतास्तथा । KK05-10-192-031c
पूजितश्च प्रतिययौ निर्भर्त्स्य तनयां किल ॥ KK05-10-192-031e
विनीतकिल्विषे प्रीते हेमवर्मणि पार्थिवे । KK05-10-192-032a
प्रतियाते दशार्णे तु हृष्टरूपा शिखण्डिनी ॥ KK05-10-192-032c
कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः । KK05-10-192-033a
लोकयात्रां प्रकुर्वाणः स्थूणस्यागान्निवेशनम् ॥ KK05-10-192-033c
स तद्गृहस्योपरि वतमान आलोकयामास धनाधिगोप्ता । KK05-10-192-034a
स्थूणस्य यक्षस्य विवेश वेश्म स्वलङ्कृतं माल्यगुणैर्विचित्रैः ॥ KK05-10-192-034c
लाचैश्च गन्धैश्च तथा वितानैरभ्यर्चितं धूपनधूपितं च । KK05-10-192-035a
ध्वजैः पताकाभिरलङ्कृतं च भक्ष्यान्नपेयामिषदत्तमोदम् ॥ KK05-10-192-035c
तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलङ्कृतम् । KK05-10-192-036a
मणिरत्नसुवर्णानां मालाभिः परिपूरितम् ॥ KK05-10-192-036c
नानाकुसुमगन्धाढ्यं सिक्तसम्मृष्टशोभितम् । KK05-10-192-037a
अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा ॥ KK05-10-192-037c
स्वलङ्कृतमिदं वेश्म स्थूणस्यामितविक्रमाः । KK05-10-192-038a
नोपसर्पति मां चैव कस्मादद्य स मन्दधीः ॥ KK05-10-192-038c
यस्माज्जानन्स मन्दात्मा मामसौ नोपसर्पति । KK05-10-192-039a
तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः ॥ KK05-10-192-039c
यक्षा ऊचुः KK05-10-192-040
द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी । KK05-10-192-040a
तस्या निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् ॥ KK05-10-192-040c
अग्रहील्लक्षणं स्त्रीणां स्त्रीभूता तिष्ठते गृहे । KK05-10-192-041a
नोपसर्पति तेनासौ सव्रीडः स्त्रीसरूपवान् ॥ KK05-10-192-041c
एतस्मात्कारणाद्राजन्स्थूणो न त्वाऽद्य सर्पति । KK05-10-192-042a
श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् ॥ KK05-10-192-042c
आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् । KK05-10-192-043a
कर्तास्मि निग्रहं तस्य प्रत्युवाच पुनः पुनः ॥ KK05-10-192-043c
सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते । KK05-10-192-044a
स्त्रीसरूपो महाराज तस्थौ व्रीडासमन्वितः ॥ KK05-10-192-044c
तं शशापाथ सङ्क्रुद्धो धनदः कुरुनन्दन । KK05-10-192-045a
एवमेव भवत्वद्य स्त्रीत्वं पापस्य गुह्यकाः ॥ KK05-10-192-045c
ततोऽब्रवीद्यक्षपतिर्महात्मा यस्माददास्त्ववमन्येह यक्षान् । KK05-10-192-046a
शिखण्डिनो लक्षणं पापबुद्धे स्त्रीलक्षणं चाग्रहीः पापकर्मन् ॥ KK05-10-192-046c
अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्त्वया कृतम् । KK05-10-192-047a
तस्मादद्य प्रभृत्येव स्त्री त्वं सा पुरुषस्तथा ॥ KK05-10-192-047c
ततः प्रसादयामासुर्यक्षा वैश्रवणं किल । KK05-10-192-048a
स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः ॥ KK05-10-192-048c
ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः । KK05-10-192-049a
सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया ॥ KK05-10-192-049c
शिखण्डिनि हते यक्षाः स्वं रूपं प्रतिपत्स्यते । KK05-10-192-050a
स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः ॥ KK05-10-192-050c
इत्युक्त्वा भगवान्देवो यक्षराजः सुपूजितः । KK05-10-192-051a
प्रययौ सहितः सर्वैर्निमेषान्तरचारिभिः ॥ KK05-10-192-051c
स्थूणस्तु शापं सम्प्राप्य तत्रैव न्यवसत्तदा । KK05-10-192-052a
समये चागमत्तूर्णं शिखण्डी तं क्षपाचरम् ॥ KK05-10-192-052c
सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति । KK05-10-192-053a
तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः ॥ KK05-10-192-053c
आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् । KK05-10-192-054a
सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने ॥ KK05-10-192-054c
यक्ष उवाच KK05-10-192-055
शप्तो वैश्रवणेनाहं त्वत्कृते पार्थिवात्मज । KK05-10-192-055a
गच्छेदानीं यथाकामं चर लोकान्यथासुखम् ॥ KK05-10-192-055c
दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् । KK05-10-192-056a
गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् ॥ KK05-10-192-056c
भीष्म उवाच KK05-10-192-057
एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत । KK05-10-192-057a
प्रत्याजगाम नगरं हर्षेण महतावृतः ॥ KK05-10-192-057c
पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः । KK05-10-192-058a
द्विजातीन्देवताश्चैव चैत्यानथ चतुष्पथान् ॥ KK05-10-192-058c
द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना । KK05-10-192-059a
मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः ॥ KK05-10-192-059c
शिष्यार्थं प्रददौ चाथ द्रोणाय कुरुपुङ्गव । KK05-10-192-060a
शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा ॥ KK05-10-192-060c
प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः । KK05-10-192-061a
शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः ॥ KK05-10-192-061c
मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् । KK05-10-192-062a
जडान्धबधिराकारा ये मुक्ता द्रुपदे मया ॥ KK05-10-192-062c
एवमेष महाराज स्त्री पुमान्द्रुपदात्मजः । KK05-10-192-063a
स सम्भूतः कुरुश्रेष्ठ शिखण्डी रथसत्तमः ॥ KK05-10-192-063c
ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता । KK05-10-192-064a
द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ ॥ KK05-10-192-064c
नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् । KK05-10-192-065a
मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत ॥ KK05-10-192-065c
व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम् । KK05-10-192-066a
स्त्रियां स्त्रीपूर्वके चैव स्त्रीनाम्नि स्त्रीसरूपिणि ॥ KK05-10-192-066c
न मुञ्चेयमहं बाणमिति कौरवनन्दन । KK05-10-192-067a
न हन्यामहमेतेन कारणेन शिखण्डिनम् ॥ KK05-10-192-067c
एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः । KK05-10-192-068a
ततो नैनं हनिष्यामि समरेष्वाततायिनम् ॥ KK05-10-192-068c
यदि भीष्मः स्त्रियं हन्यात्सन्तः कुर्युर्विगर्हणम् । KK05-10-192-06a9
नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् ॥ KK05-10-192-069c
वैशम्पायन उवाच KK05-10-192-070
एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा । KK05-10-192-070a
मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत ॥ ॥ KK05-10-192-070c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि द्विनवत्यधिकशततमोऽध्यायः ॥

5-192-4 विहङ्गमः आकाशगामी ॥ 5-192-8 अभिसन्देहे इति झ. पाठः । सन्देहे लिङ्गे सम्यग् दिह्यते उपचीयेते रतिकाले प्रथेते इति व्युत्पत्तेरिति तत्रार्थः ॥ 5-192-24 उत्तरम् उत्कृष्टतरम् ॥ 5-192-27 आगमः परीक्षा ॥ 5-192-61 चतुष्पादं ग्रहणधारणप्रयोगप्रतीकारैश्चतुर्भिः पादैर्युक्तम् ॥