अध्यायः 191
शिखण्डिन्या पित्रोः शोकस्य स्वमूलकत्वचिन्तनेन दुर्गमारण्यमेत्य स्थूणनाम्नः कुबेरानुचरस्य गृहसमीपे प्रायोपवेशः ॥ 1 ॥ स्थूणचोदितया शिखण्डिन्या तं प्रति पुंस्त्ववरणम् ॥ 2 ॥
भीष्म उवाच KK05-10-191-001
ततः शिखण्डिनो माता यथातत्त्वं नराधिप । KK05-10-191-001a
आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम् ॥ KK05-10-191-001c
अपुत्रया मया राजन्सपत्नीनां भयादिदम् । KK05-10-191-002a
कन्या शिखण्डिनी जाता पुरुषो वै निवेदिता ॥ KK05-10-191-002c
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्याऽनुमोदितम् । KK05-10-191-003a
पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ ॥ KK05-10-191-003c
भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता । KK05-10-191-004a
मया च प्रत्यभिहितं देववाक्यार्थदर्शनात् । KK05-10-191-004c
कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम् ॥ KK05-10-191-004e
एतच्छ्रुत्वा द्रुपदो यज्ञसेनः सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य । KK05-10-191-005a
मन्त्रं राजा मन्त्रयामास राजन्यथायुक्तं रक्षणे वै प्रजानाम् ॥ KK05-10-191-005c
सम्बन्धकं चैव समर्थ्य तस्मिन्दाशार्णके वै नृपतौ नरेन्द्र । KK05-10-191-006a
स्वयं कृत्वा विप्रलम्भं यथावन्मन्त्र्यैकाग्रो निश्चयं वै जगाम ॥ KK05-10-191-006c
स्वभावगुप्तं नगरमापत्काले तु भारत । KK05-10-191-007a
गोपयामास राजेन्द्र सर्वतः समलङ्कृतम् ॥ KK05-10-191-007c
आर्तिं च परमां राजा जगाम सह भार्यया । KK05-10-191-008a
दशार्णपतिना सार्धं विरोधे भरतर्षभ ॥ KK05-10-191-008c
कथं सम्बन्धिना सार्धं न मे स्याद्विग्रहो महान् । KK05-10-191-009a
इति सञ्चिन्त्य मनसा देवतामर्चयत्तदा ॥ KK05-10-191-009c
तं तु दृष्ट्वा तदा राजन्देवी देवपरं तदा । KK05-10-191-010a
अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत् ॥ KK05-10-191-010c
देवानां प्रतिपत्तिश्च सत्यं साधुमता सताम् । KK05-10-191-011a
किमु दुःखार्णवं प्राप्य तस्मादर्चयतां गुरून् ॥ KK05-10-191-011c
दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणम् । KK05-10-191-012a
अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने ॥ KK05-10-191-012c
अयुद्धेन निवृत्तिं च मनसा चिन्तय प्रभो । KK05-10-191-013a
देवतानां प्रसादेन सर्वमेतद्भविष्यति ॥ KK05-10-191-013c
मन्त्रिभिर्मन्त्रितं सार्धं त्वया पृथुललोचन । KK05-10-191-014a
पुरस्यास्याविनाशाय यच्च राजंस्तथा कुरु ॥ KK05-10-191-014c
दैवं हि मानुषोपेतं भृशं सिद्ध्यति पार्थिव । KK05-10-191-015a
परम्परविरोधाद्धि सिद्धिरस्ति न चैतयोः ॥ KK05-10-191-015c
तस्माद्विधाय नगरे विधानं सचिवैः सह । KK05-10-191-016a
अर्चयस्व यथाकामं दैवतानि विशाम्पते ॥ KK05-10-191-016c
एवं सम्भाषमाणौ तु दृष्ट्वा शोकपरायणौ । KK05-10-191-017a
शिखण्डिनी तदा कन्या व्रीडितेव तपस्विनी ॥ KK05-10-191-017c
ततः सा चिन्तयामास मत्कृते दुःखितावुभौ । KK05-10-191-018a
इमाविति ततश्चक्रे मतिं प्राणविनाशने ॥ KK05-10-191-018c
एवं सा निश्चयं कृत्वा भृशं शोकपरायणा । KK05-10-191-019a
निर्जगाम गृहं त्यक्त्वा गहनं निर्जनं वनम् ॥ KK05-10-191-019c
यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम् । KK05-10-191-020a
तद्भयादेव च जनो विसर्जयति तद्वनम् ॥ KK05-10-191-020c
तत्र च स्थूणभवनं सुधामृत्तिकलेपनम् । KK05-10-191-021a
लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् ॥ KK05-10-191-021c
तत्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप । KK05-10-191-022a
अनश्नाना बहुतिथं शरीरमुदशोषयत् ॥ KK05-10-191-022c
दर्शयामास तां यक्षः स्थूणो मार्दवसंयुतः । KK05-10-191-023a
किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् ॥ KK05-10-191-023c
अशक्यमिति सा यक्षं पुनः पुनरुवाच ह । KK05-10-191-024a
करिष्यामीति वै क्षिप्रं प्रत्युवाचाथ गुह्यकः ॥ KK05-10-191-024c
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे । KK05-10-191-025a
अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम् ॥ KK05-10-191-025c
ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत् । KK05-10-191-026a
तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत ॥ KK05-10-191-026c
शिखण्ड्युवाच KK05-10-191-027
आपन्नो मे पिता यक्ष न चिरान्नाशमेष्यति । KK05-10-191-027a
अभियास्यति सक्रोधो दशार्णाधिपतिर्हि तम् ॥ KK05-10-191-027c
मन्निमित्तं महोत्साहः सहेमकवचो नृपः । KK05-10-191-028a
तस्माद्रक्षस्व मां यक्ष मातरं पितरं च मे ॥ KK05-10-191-028c
प्रतिज्ञातो हि भवता दुःखप्रतिशमो मम । KK05-10-191-029a
भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः ॥ KK05-10-191-029c
यावदेव स राजा वै नोपयाति पुरं मम । KK05-10-191-030a
तावदेव महायक्ष प्रसादं कुरु गुह्यक ॥ ॥ KK05-10-191-030c
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यनपर्वणि एकनवत्यधिकशततमोऽध्यायः ॥
5-191-11 साधुमता कल्याणवतापि देवानां सतां साधूनां च प्रतिपत्तिः पूजा नित्यं कर्तव्येति शेषः । किमु दुःखार्णवं प्राप्य कर्तव्येति । तस्मात् भवान् गुरून् देवाराधनार्थं ब्राह्मणान् अर्चयतां पूजयतु ॥ 5-191-21 लाजोल्लापिकः लाजानि उशीराणि उल्लापयति सूचयतीति लाजोल्लापिकः । उशीरपरिमलयुक्तधूमाढ्यमित्यर्थः । उशीरे लाजमुद्दिष्टमिति विश्वः । राजोपलेपधूमाढ्यम् इति. क.ड. पाठः ॥