अध्यायः 190

दाशार्णकेन पुनर्दूतप्रेषणे द्रुपदेन पत्न्यासह कर्तव्यालोचनम् ॥ 1 ॥ भीष्म उवाच KK05-10-190-001
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप । KK05-10-190-001a
चोरस्येव गृहीतस्य न प्रावर्तत भारती ॥ KK05-10-190-001c
स यत्नमकरोत्तीव्रं सम्बन्धिन्यनुमानने । KK05-10-190-002a
दूतैर्मधुरसम्भाषैर्न तदस्तीति सन्दिशन् ॥ KK05-10-190-002c
स राजा भूय एवाथ ज्ञात्वा तत्त्वमथागमत् । KK05-10-190-003a
कन्येति पाञ्चालसुतां त्वरमाणो विनिर्ययौ ॥ KK05-10-190-003c
ततः सम्प्रेषयामास मित्राणाममितौजसाम् । KK05-10-190-004a
दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा ॥ KK05-10-190-004c
ततः समुदयं कृत्वा बलानां राजसत्तमः । KK05-10-190-005a
अभियाने मतिं चक्रे द्रुपदं प्रति भारत ॥ KK05-10-190-005c
ततः सम्मन्त्रयामास मन्त्रिभिः स महीपतिः । KK05-10-190-006a
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति ॥ KK05-10-190-006c
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् । KK05-10-190-007a
तथ्यं भवति चेदेतत्कन्या राजञ्शिखण्डिनी ॥ KK05-10-190-007c
बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहम् । KK05-10-190-008a
अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम् ॥ KK05-10-190-008c
घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम् ॥ KK05-10-190-009ac
स तदा द्रुतमाज्ञाय पुनर्दूतान्नराधिपः । KK05-10-190-010a
प्रास्थापयत्पार्षताय निहन्मीति स्थिरो भव ॥ KK05-10-190-010c
भीष्म उवाच KK05-10-190-011
स हि प्रकृत्या वै भीतः किल्बिषी च नराधिपः । KK05-10-190-011a
भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः ॥ KK05-10-190-011c
विसृज्य दूतान्दाशार्णे द्रुपदः शोकमूर्च्छितः । KK05-10-190-012a
समेत्य भार्यां रहिते वाक्यमाह नराधिपः ॥ KK05-10-190-012c
भयेन महताऽऽविष्टो हृदि शोकेन चाहतः । KK05-10-190-013a
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः ॥ KK05-10-190-013c
अभियास्यति मां कोपात्सम्बन्धी सुमहाबलः । KK05-10-190-014a
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् ॥ KK05-10-190-014c
किमिदानीं करिष्यावो मूढौ कन्यामिमां प्रति । KK05-10-190-015a
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः ॥ KK05-10-190-015c
इति सञ्चिन्त्य यत्नेन समित्रः सबलानुगः । KK05-10-190-016a
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति ॥ KK05-10-190-016c
किमत्र तथ्यं सुश्रोणि मिथ्या किं ब्रूहि शोभने । KK05-10-190-017a
श्रुत्वा त्वत्तः शुभं वाक्यं संविधास्याम्यहं तथा ॥ KK05-10-190-017a
अहं हि संशयप्राप्तो बाला चेयं शिखण्डिनी । KK05-10-190-018a
त्वं च राज्ञि महत्कृच्छ्रं सम्प्राप्ता वरवर्णिनि ॥ KK05-10-190-018c
सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः । KK05-10-190-019a
तथा विदध्यां सुश्रोणि कृत्यमाशु शुचिस्मिते ॥ KK05-10-190-019c
शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः । KK05-10-190-020a
कृपयाहं वरारोहे वञ्चितः पुत्रधर्मतः ॥ KK05-10-190-020c
मया दाशार्णको राजा वञ्चितः स महीपतिः । KK05-10-190-021a
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् ॥ KK05-10-190-021c
जानता हि नरेन्द्रेण ख्यापनार्थं परस्य वै । KK05-10-190-022a
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् ॥ ॥ KK05-10-190-022c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि नवत्यधिकशततमोऽध्यायः ॥

5-190-3 अगमत् ज्ञातवान् ॥ 5-190-5 समुदयं समुदायम् ॥