अध्यायः 189

पुंवेषगूहितया शिखण्डिन्या द्रोणाद्धनुर्विद्याभ्यसनम् ॥ 1 ॥ द्रुपदेन शिखण्डिन्याः दशार्णाधिपतिकन्यया विवाहकरणम् ॥ 2 ॥ दाशार्णकसुतया धात्रीद्वारा स्वपित्रे शिखण्डिन्याः स्त्रीत्वज्ञापनम् ॥ 3 ॥ दाशार्णकेन दूतमुखेन द्रुपदं प्रति स्वविप्रलम्भफलतया सबन्धोस्तस्य समुच्छेदनिवेदनम् ॥ 4 ॥ भीष्म उवाच KK05-10-189-001
चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु । KK05-10-189-001a
ततो लेख्यादिषु तथा शिल्पेषु च परन्तप ॥ KK05-10-189-001c
इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह । KK05-10-189-002a
तस्य माता महाराज राजानं वरवर्णिनी ॥ KK05-10-189-002c
चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा । KK05-10-189-003a
ततस्तां पार्षतो दृष्ट्वा कन्यां सम्प्राप्तयौवनाम् । KK05-10-189-003c
स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया ॥ KK05-10-189-003e
द्रुपद उवाच KK05-10-189-004
कन्या ममेयं सम्प्राप्ता यौवनं शोकवर्धिनी । KK05-10-189-004a
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः ॥ KK05-10-189-004c
भार्योवाच KK05-10-189-005
न तन्मिथ्या महाराज भविष्यति कथञ्चन । KK05-10-189-005a
त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति ॥ KK05-10-189-005c
यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः । KK05-10-189-006a
श्रुत्वेदानीं प्रपद्येथाः स्वां मतिं पृषतात्मज ॥ KK05-10-189-006c
क्रियतामस्य यत्नेन विधिवद्दारसङ्ग्रहः । KK05-10-189-007a
भविता तद्वचः सत्यमिति मे निश्चिता मतिः ॥ KK05-10-189-007c
ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती । KK05-10-189-008a
वरयाञ्चक्रतुः कन्यां दशार्णाधिपतेः सुताम् ॥ KK05-10-189-008c
ततो राजा द्रुपदो राजसिंहः सर्वान्राज्ञः कुलतः सन्निशाम्य । KK05-10-189-009a
दाशार्णकस्य नृपतेस्तनूजां शिखण्डिने वरयामास दारान् ॥ KK05-10-189-009c
हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः । KK05-10-189-010a
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ॥ KK05-10-189-010c
स च राजा दशार्णेषु महानासीत्सुदुर्जयः । KK05-10-189-011a
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः ॥ KK05-10-189-011c
कृते विवाहे तु तदा सा कन्या राजसत्तम । KK05-10-189-012a
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ॥ KK05-10-189-012c
कृतदारः शिखण्डी च काम्पिल्यं पुनरागमत् । KK05-10-189-013a
न च सा वेद तां कन्यां कञ्चित्कालं स्त्रियं किल । KK05-10-189-013c
यदा त्वेनामजानात्सा स्त्रियमेव नृपात्मजा ॥ KK05-10-189-013e
धात्रीणां च सखीनां च व्रीडयाना न्यवेदयत् । KK05-10-189-014a
कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम् ॥ KK05-10-189-014c
ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा । KK05-10-189-015a
जग्मुरार्तिं परां प्रेष्याः प्रेषयामासुरेव च ॥ KK05-10-189-015c
ततो दशार्णाधिपतेः प्रेष्याः सर्वा न्यवेदयन् । KK05-10-189-016a
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ॥ KK05-10-189-016c
शिखण्ड्यपि महाराज पुंवद्राजकुले तदा । KK05-10-189-017a
विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ॥ KK05-10-189-017c
ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ । KK05-10-189-018a
हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह ॥ KK05-10-189-018c
ततो दाशार्णको राजा तीव्रकोपसमन्वितः । KK05-10-189-019a
दूतं प्रस्थापयामास द्रुपदस्य निवेशनम् ॥ KK05-10-189-019c
ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः । KK05-10-189-020a
एक एकान्तमुत्सार्य रहो वचनमब्रवीत् ॥ KK05-10-189-020c
दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् । KK05-10-189-021a
अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयाऽनघ ॥ KK05-10-189-021c
अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव । KK05-10-189-022a
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि ॥ KK05-10-189-022c
तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते । KK05-10-189-023a
एष त्वां सजनामात्यमुद्धरामि स्थिरो भव ॥ KK05-10-189-023c
अवमत्य च वीर्यं मे कुलं चारित्रमेव च । KK05-10-189-024a
विप्रलम्भस्त्वयापूर्वो मनुष्येषु प्रवर्तितः ॥ KK05-10-189-024c
कुरु सर्वाणि कार्याणि भुङ्क्ष्व भोगाननुत्तमान् । KK05-10-189-025a
अभियास्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवम् ॥ ॥ KK05-10-189-025c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥

5-189-4 शूलयुक्तः पाणिः शूलपाणिः सोऽस्यास्तीति शूलपाणी तस्य ॥ 5-189-20 उत्सार्य नीत्वा ॥ 5-189-21 अभिषङ्गात्पराभवात् ॥