अध्यायः 188
पुत्रार्थं तपस्यते द्रुपदाय महादेवेन स्त्री भूत्वा पुमान्भविष्यतीति वरदानम् ॥ 1 ॥ द्रुपदभार्यया स्त्र्यपत्यजननेऽपि तस्य पुंस्त्वख्यापनम् ॥ 2 ॥ द्रुपदेन तस्य स्त्रीत्वं प्रच्छाद्य पुंवज्जातकर्मादिकरणपूर्वकं शिखण्डीति नामकरणम् ॥ 3 ॥
दुर्योधन उवाच KK05-10-188-001
कथं शिखण्डी गाङ्गेय कन्यां भूत्वा पुरा तदा । KK05-10-188-001a
पुरुषोऽभूद्युधिश्रेष्ठ तन्मे ब्रूहि पितामह ॥ KK05-10-188-001c
भीष्म उवाच KK05-10-188-002
भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः । KK05-10-188-002a
महिषी दयिता ह्यासीदपुत्रा च विशाम्पते ॥ KK05-10-188-002c
एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः । KK05-10-188-003a
अपत्यार्थे महाराज तोषयामास शङ्करम् ॥ KK05-10-188-003c
अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः । KK05-10-188-004a
ऋते कन्यां महादेव पुत्रो मे स्यादिति ब्रुवन् ॥ KK05-10-188-004c
भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया । KK05-10-188-005a
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति ॥ KK05-10-188-005c
निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत् । KK05-10-188-006a
स तु गत्वा च नगरं भार्यामिदमुवाच ह ॥ KK05-10-188-006c
कृतो यत्नो महादेवस्तपसाऽऽराधितो मया । KK05-10-188-007a
कन्या भूत्वा पुमान्भावी इति चोक्तोस्मि शम्भुना ॥ KK05-10-188-007c
पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः । KK05-10-188-008a
न तदन्यच्च भविता भवितव्यं हि तत्तथा ॥ KK05-10-188-008c
ततः सा नियता भूत्वा ऋतुकाले मनस्विनी । KK05-10-188-009a
पत्नी द्रुपदराजस्य द्रुपदं प्रविवेश ह ॥ KK05-10-188-009c
लेभे गर्भं यथाकालं विधिदृष्टेन कर्मणा । KK05-10-188-010a
पार्षतस्य महीपाल यथा मां नारदोऽब्रवीत् ॥ KK05-10-188-010c
ततो दधार सा देवी गर्भं राजीवलोचना । KK05-10-188-011a
तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन ॥ KK05-10-188-011c
पुत्रस्नेहान्महाबाहुः मुखं पर्यचरत्तदा । KK05-10-188-012a
सर्वानभिप्रायकृतान्भार्याऽलभत कौरव ॥ KK05-10-188-012c
अपुत्रस्य सतो राज्ञो द्रुपदस्य महीपतेः । KK05-10-188-013a
यथाकालं तु सा देवी महिषी द्रुपदस्य ह ॥ KK05-10-188-013c
कन्यां प्रवररूपां तु प्राजायत नराधिप । KK05-10-188-014a
अपुत्रस्य तु राज्ञः सा द्रुपदस्य मनस्विनी ॥ KK05-10-188-014c
ख्यापयामास राजेन्द्र पुत्रो ह्येष ममेति वै । KK05-10-188-015a
ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप ॥ KK05-10-188-015c
पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् । KK05-10-188-016a
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा ॥ KK05-10-188-016c
चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत । KK05-10-188-017a
न च तां वेद नगरे कश्चिदन्यत्र पार्षतात् ॥ KK05-10-188-017c
श्रद्दधानो हि तद्वाक्यं देवस्याच्युततेजसः । KK05-10-188-018a
छादयामास तां कन्यां पुमानिति च सोब्रवीत् ॥ KK05-10-188-018c
जातकर्माणि सर्वाणि कारयामास पार्थिवः । KK05-10-188-019a
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः ॥ KK05-10-188-019c
अहमेकस्तु चारेण वचनान्नारदस्य च । KK05-10-188-020a
ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा ॥ ॥ KK05-10-188-020c
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि अष्टाशीत्यधिकशततमोऽध्यायः ॥