अध्यायः 187
अम्बया तपस्तोषितान्महादेवात् जन्मान्तरे पुंस्त्वप्राप्त्या भीष्महननरूपवरमुपलभ्याग्नौ प्रवेशः ॥ 1 ॥
भीष्म उवाच KK05-10-187-001
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम् । KK05-10-187-001a
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥ KK05-10-187-001c
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा । KK05-10-187-002a
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥ KK05-10-187-002c
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः । KK05-10-187-003a
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ॥ KK05-10-187-003c
यत्कृते दुःखवसतिमिमां प्राप्ताऽस्मि शाश्वतीम् । KK05-10-187-004a
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ॥ KK05-10-187-004c
नाहत्वा युधि गाङ्गेयं निवर्तिष्ये तपोधनाः । KK05-10-187-005a
एष मे हृदि सङ्कल्पो यदिदं कथितं मया ॥ KK05-10-187-005c
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया । KK05-10-187-006a
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥ KK05-10-187-006c
तां देवो दर्शयामास शूलपाणिरुमापतिः । KK05-10-187-007a
मध्ये तेषां महर्षीणां स्वेन रूपेण तापसीम् ॥ KK05-10-187-007c
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् । KK05-10-187-008a
हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ॥ KK05-10-187-008c
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह । KK05-10-187-009a
उपपद्येत्कथं देव स्त्रिया युधि जयो मम ॥ KK05-10-187-009c
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते । KK05-10-187-010a
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ॥ KK05-10-187-010c
यथा स सत्यो भवति तथा कुरु वृषध्वज । KK05-10-187-011a
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि ॥ KK05-10-187-011c
तामुवाच महादेवः कन्यां किल वृषध्वजः । KK05-10-187-012a
न मे वागमृतं प्राह सत्यं भद्रे भविष्यति ॥ KK05-10-187-012c
हनिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे । KK05-10-187-013a
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ॥ KK05-10-187-013c
द्रुपदस्य कुले जाता भविष्यसि महारथः । KK05-10-187-014a
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसम्मतः ॥ KK05-10-187-014c
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति । KK05-10-187-015a
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ॥ KK05-10-187-015c
एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः । KK05-10-187-016a
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ॥ KK05-10-187-016c
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता । KK05-10-187-017a
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ॥ KK05-10-187-017c
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् । KK05-10-187-018a
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥ KK05-10-187-018c
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् । KK05-10-187-019a
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ॥ ॥ KK05-10-187-019c
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥
5-187-10 शान्तं शौर्यधर्मरहितम् ॥ 5-187-19 यमुनामभितः यमुनाद्वीपे इत्यर्थः ॥