अध्यायः 186

राममामन्त्र्य गतया अम्बया पुण्याश्रमादिषु दुष्करतपश्चरणम् ॥ 1 ॥ राम उवाच KK05-10-186-001
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि । KK05-10-186-001a
यथाशक्त्या मया युद्धं कृतं वै पौरुषं परम् ॥ KK05-10-186-001c
न चैवमपि शक्नोमि भीष्मं शस्त्रभृतां वरम् । KK05-10-186-002a
विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन् ॥ KK05-10-186-002c
एषा मे परमा शक्तिरेतन्मे परमं बलम् । KK05-10-186-003a
यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते ॥ KK05-10-186-003c
भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः । KK05-10-186-004a
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता ॥ KK05-10-186-004c
एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः । KK05-10-186-005a
तूष्मीमासीत्ततः कन्या प्रोवाच भृगुनन्दनम् ॥ KK05-10-186-005c
भगवन्नेवमेवैतद्यथाऽऽह भगवांस्तथा । KK05-10-186-006a
अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः ॥ KK05-10-186-006c
यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया । KK05-10-186-007a
अनिवार्यं रणे वीर्यमस्त्राणि विविधानि च ॥ KK05-10-186-007c
ने चैव शक्यते युद्धे विशेषयितुमन्ततः । KK05-10-186-008a
न चाहमेनं यास्यामि पुनर्भीष्मं कथञ्चन ॥ KK05-10-186-008c
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन । KK05-10-186-009a
समरे पातयिष्यामि स्वयमेव भृगूद्वह ॥ KK05-10-186-009c
एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना । KK05-10-186-010a
तापस्ये धृतसङ्कल्पा सा मे चिन्तयती वधम् ॥ KK05-10-186-010c
ततो महेन्द्रं सहितैर्मुनिभिर्भृगुसत्तमः । KK05-10-186-011a
यथाऽऽगतं तथा सोऽगान्मामुपामन्त्र्य भारत ॥ KK05-10-186-011c
ततो रथं समारुह्य स्तूयमानो द्विजातिभिः । KK05-10-186-012a
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् ॥ KK05-10-186-012c
यथावृत्तं महाराज सा च मां प्रत्यनन्दत । KK05-10-186-013a
पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि ॥ KK05-10-186-013c
दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम् । KK05-10-186-014a
प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते सदा ॥ KK05-10-186-014c
यदैव हि वनं प्रायात्सा कन्या तपसे धृता । KK05-10-186-015a
तदैव व्यथितो दीनो गतचेता इवाभवम् ॥ KK05-10-186-015c
न हि मां क्षत्रियः कश्चिद्वीर्येण व्यजयद्युधि । KK05-10-186-016a
ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् ॥ KK05-10-186-016c
अपि चैतन्मया राजन्नारदेऽपि निवेदितम् । KK05-10-186-017a
व्यासे चैव तथा कार्यं तौ चोभौ मामवोचताम् ॥ KK05-10-186-017c
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति । KK05-10-186-018a
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ॥ KK05-10-186-018c
सा कन्या तु महाराज प्रविश्याश्रममण्डलम् । KK05-10-186-019a
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् ॥ KK05-10-186-019c
निराहारा कृशा रूक्षा जटिला मलपङ्किनी । KK05-10-186-020a
षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना ॥ KK05-10-186-020c
यमुनाजलमाश्रित्य संवत्सरमथाऽपरम् । KK05-10-186-021a
उदवासं निराहारा पारयामास भामिनी ॥ KK05-10-186-021c
शीर्णपर्णेन चैकेन पारयामास सा परम् । KK05-10-186-022a
संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता ॥ KK05-10-186-022c
एवं द्वादश वर्षाणि तापयामास रोदसी । KK05-10-186-023a
निवर्त्यमानापि च सा ज्ञातिभिर्नैव शक्यते ॥ KK05-10-186-023c
ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम् । KK05-10-186-024a
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ॥ KK05-10-186-024c
तत्र पुण्येषु तीर्थेषु साऽऽप्लुताङ्गी दिवानिशम् । KK05-10-186-025a
व्यचरत्काशिकन्या सा यथाकामविचारिणी ॥ KK05-10-186-025c
नन्दाश्रमे महाराज तथोलूकाश्रमे शुभे । KK05-10-186-026a
च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च ॥ KK05-10-186-026c
प्रयागे देवयजने देवारण्येषु चैव ह । KK05-10-186-027a
भोगवत्यां महाराज कौशिकस्याश्रमे तथा ॥ KK05-10-186-027c
माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा । KK05-10-186-028a
रामह्रदे च कौरव्य पैलगर्गस्य चाश्रमे ॥ KK05-10-186-028c
एतेषु तीर्थेषु तदा काशिकन्या विशाम्पते । KK05-10-186-029a
आप्लावयत गात्राणि व्रतमास्थाय दुष्करम् ॥ KK05-10-186-029c
तामब्रवीच्च कौरव्य मम माता जले स्थिता । KK05-10-186-030a
किमर्थं क्लिश्यसे भद्रे तथ्यमेव वदस्व मे ॥ KK05-10-186-030c
सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता । KK05-10-186-031a
भीष्मेण समरे रामो निर्जितश्चारुलोचनि ॥ KK05-10-186-031c
कोऽन्यस्तमुत्सहेञ्जेतुमुद्यतेषुं महीपतिः । KK05-10-186-032a
साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् ॥ KK05-10-186-032c
विचरामि महीं देवि यथा हन्यामहं नृपम् । KK05-10-186-033a
एतद्व्रतफलं देवि परमस्मिन्यथा हि मे ॥ KK05-10-186-033c
ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि । KK05-10-186-034a
नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाऽबले ॥ KK05-10-186-034c
यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम् । KK05-10-186-035a
व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि ॥ KK05-10-186-035c
नदी भविष्यसि शुभे कुटिला वार्षिकोदका । KK05-10-186-036a
दुस्तीर्था न तु विज्ञेया वार्षिकी नाष्टमासिकी ॥ KK05-10-186-036c
भीमग्राहवती घोरा सर्वभूतभयङ्करी । KK05-10-186-037a
एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत ॥ KK05-10-186-037c
माता मम महाभागा स्मयमानेव भामिनी । KK05-10-186-038a
कदाचिदष्टमे मासि कदाचिद्दशमे तथा । KK05-10-186-038c
न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी ॥ KK05-10-186-038e
सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः । KK05-10-186-039a
पतिता परिधावन्ती पुनः काशिपतेः सुता ॥ KK05-10-186-039c
सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत । KK05-10-186-040a
वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा ॥ KK05-10-186-040c
सा कन्या तपसा तेन देहार्धेन व्यजायत । KK05-10-186-041a
नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा ॥ ॥ KK05-10-186-041c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि षडशीत्यधिकशततमोऽध्याय ॥

5-186-36 वार्षिकी वर्षास्वेव वहतीति वार्षिकी ॥