अध्यायः 185
भीष्मे रामं प्रति प्रस्वापनास्त्रं प्रयोक्तुकामे नारदेन तन्निषेधनम् ॥ 1 ॥ भीष्मेण दिव्यपुरुषवचनाच्च प्रस्वापनास्त्रप्रतिसंहारे रामेण स्वस्य पराजितत्वोक्तिः ॥ 2 ॥ नारदादिवचनाद्युद्धोपरमः ॥ 3 ॥
भीष्म उवाच KK05-10-185-001
ततो हलहलाशब्दो दिवि राजन्महानभूत् । KK05-10-185-001a
प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन ॥ KK05-10-185-001c
अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने । KK05-10-185-002a
प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत् ॥ KK05-10-185-002c
एते वियति कौरव्य दिवि देवगणाः स्थिताः । KK05-10-185-003a
ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय ॥ KK05-10-185-003c
रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते । KK05-10-185-004a
तस्यावमानं कौरव्य मास्म कार्षीः कथञ्चन ॥ KK05-10-185-004c
ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः । KK05-10-185-005a
ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् ॥ KK05-10-185-005c
यथाऽऽह भरतश्रेष्ठ नारदस्तत्तथा कुरु । KK05-10-185-006a
एतद्धि परमं श्रेयो लोकानां भरतर्षभ ॥ KK05-10-185-006c
ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं महत् । KK05-10-185-007a
ब्रह्मास्त्रं दीपयाञ्चक्रे तस्मिन्युधि यथाविधि ॥ KK05-10-185-007c
ततो रामो हृषितो राजसिंह दृष्ट्वा तदस्त्रं विनिवर्तितं वै । KK05-10-185-008a
जितोऽस्मि भीष्मेण सुमन्दबुद्धिरित्येव वाक्यं सहसा व्यमुञ्चत् ॥ KK05-10-185-008c
ततोऽपश्यत्पितरं जामदग्न्यः पितुस्तथा पितरं चास्य मान्यम् । KK05-10-185-009a
ते तत्र चैनं परिवार्य तस्थुरूचुश्चैनं सान्त्वपूर्वं तदानीम् ॥ KK05-10-185-009c
पितर ऊचुः KK05-10-185-010
मा स्मैवं साहसं तात पुनः कार्षीः कथञ्चन । KK05-10-185-010a
भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः ॥ KK05-10-185-010c
क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन । KK05-10-185-011a
स्वाध्यायो व्रतचर्याऽथ ब्राह्मणानां परं धनम् ॥ KK05-10-185-011c
इदं निमित्ते कस्मिंश्चिदस्माभिः प्रागुदाहृतम् । KK05-10-185-012a
शस्त्रधारणमत्युग्रं तच्चाकार्यं कृतं त्वया ॥ KK05-10-185-012c
वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे । KK05-10-185-013a
विमर्दस्ते महाबाहो व्यपयाहि रणादितः ॥ KK05-10-185-013c
पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम् । KK05-10-185-014a
विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव ॥ KK05-10-185-014c
एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः । KK05-10-185-015a
निवर्तस्व रणादस्मादिति चैव प्रसादितः ॥ KK05-10-185-015c
रामेण सह मायोत्सीर्गुरुणेति पुनः पुनः । KK05-10-185-016a
न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह ॥ KK05-10-185-016c
मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे । KK05-10-185-017a
वयं तु गुरवस्तुभ्यं तस्मात्त्वां वारयामहे ॥ KK05-10-185-017c
भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक । KK05-10-185-018a
गाङ्गेयः शन्तनोः पुत्रो वसुरेष महायशाः ॥ KK05-10-185-018c
कथं शक्यस्त्वया जेतुं निवर्तस्वेह भार्गव । KK05-10-185-019a
अर्जुनः पाण्डवश्रेष्ठः पुरन्दरसुतो बली ॥ KK05-10-185-019c
नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः । KK05-10-185-020a
सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान् । KK05-10-185-020c
भीष्ममृत्युर्यथाकालं विहितो वै स्वयम्भुवा ॥ KK05-10-185-020e
भीष्म उवाच KK05-10-185-021
एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम् । KK05-10-185-021a
नाहं युधि निवर्तेयमिति मे व्रतमाहितम् । KK05-10-185-021c
न निवर्तितपूर्वश्च कदाचिद्रणमूर्धनि ॥ KK05-10-185-021e
निवर्त्यतामापगेयः कामं युद्धात्पितामहाः । KK05-10-185-022a
न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथञ्चन ॥ KK05-10-185-022c
ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा । KK05-10-185-023a
नारदेनैव सहिताः समागम्येदमब्रुवन् ॥ KK05-10-185-023c
निवर्तस्व रणात्तात मानयस्व द्विजोत्तमम् । KK05-10-185-024a
इत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया ॥ KK05-10-185-024c
मम व्रतमिदं लोके नाहं युद्धात्कदाचन । KK05-10-185-025a
विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः ॥ KK05-10-185-025c
नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात् । KK05-10-185-026a
त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः ॥ KK05-10-185-026c
ततस्ते मुनयः सर्वे नारदप्रमुखा नृप । KK05-10-185-027a
भागीरथी च मे माता रणमध्यं प्रपेदिरे ॥ KK05-10-185-027c
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः । KK05-10-185-028a
स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन् ॥ KK05-10-185-028c
समेत्य सहिता भूयः समरे भृगुनन्दनम् । KK05-10-185-029a
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव ॥ KK05-10-185-029c
राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम । KK05-10-185-030a
अवध्यो वै त्वया भीष्मस्त्वं च भीष्मस्य भार्गव ॥ KK05-10-185-030c
एवं ब्रुवन्तस्ते सर्वे प्रतिरुद्ध्य रणाजिरम् । KK05-10-185-031a
न्यासयाञ्चक्रिरे शस्त्रं पितरो भृगुनन्दनम् ॥ KK05-10-185-031c
ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः । KK05-10-185-032a
अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान् ॥ KK05-10-185-032c
ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम् । KK05-10-185-033a
प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु ॥ KK05-10-185-033c
दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै । KK05-10-185-034a
लोकानां च हितं कुर्वन्नहमप्याददे वचः ॥ KK05-10-185-034c
ततोऽहं राममासाद्य ववन्दे भृशविक्षतः । KK05-10-185-035a
रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः ॥ KK05-10-185-035c
त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः । KK05-10-185-036a
गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया ॥ KK05-10-185-036c
मम चैव समक्षं तां कन्यामाहूय भार्गवः । KK05-10-185-037a
उक्तवान्दीनया वाचा मध्ये तेषां महात्मनाम् ॥ ॥ KK05-10-185-037c
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः ॥