अध्यायः 184
रामभीष्मयोरायोधनम् ॥ 1 ॥ भीष्मस्य प्रस्वापनास्त्रप्रतिभानम् ॥ 2 ॥
भीष्म उवाच KK05-10-184-001
ततो रात्रौ व्यतीतायां प्रतिबुद्धोऽस्मि भारत । KK05-10-184-001a
ततः सञ्चिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् ॥ KK05-10-184-001c
ततः समभवद्युद्धं मम तस्य च भारत । KK05-10-184-002a
तुमुलं सर्वभूतानां रोमहर्षणमद्भुतम् ॥ KK05-10-184-002c
ततो बाणमयं वर्षं ववर्ष मयि भार्गवः । KK05-10-184-003a
न्यवारयमहं तच्च शरजालेन भारत ॥ KK05-10-184-003c
ततः परमसङ्क्रुद्धः पुनरेव महातपाः । KK05-10-184-004a
ह्यस्तनेन च कोपेन शक्तिं वै प्राहिणोन्मयि ॥ KK05-10-184-004c
इन्द्राशनिसमस्पर्शां यमदण्डसमप्रभाम् । KK05-10-184-005a
ज्वलन्तीमग्निवत्सङ्ख्ये लेलिहानां समन्ततः ॥ KK05-10-184-005c
ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा । KK05-10-184-006a
सा ममाभ्यवधीत्तूर्णं जत्रुदेशे कुरूद्वह ॥ KK05-10-184-006c
अथास्रमस्रवद्घोरं गिरेर्गैरिकधातुवत् । KK05-10-184-007a
रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण ॥ KK05-10-184-007c
ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः । KK05-10-184-008a
चिक्षेप मृत्युसङ्काशं बाणं सर्पविषोपमम् ॥ KK05-10-184-008c
स तेनाभिहतो वीरो ललाटे द्विजसत्तमः । KK05-10-184-009a
अशोभत महाराज शशृङ्ग इव पर्वतः ॥ KK05-10-184-009c
स संरब्धः समावृत्य शरं कालान्तकोपमम् । KK05-10-184-010a
सन्दधे बलवत्कृष्य घोरं शत्रुनिबर्हणम् ॥ KK05-10-184-010c
स वक्षसि पपातोग्रः शरो व्याल इव श्वसन् । KK05-10-184-011a
महीं राजंस्ततश्चाहमगमं रुधिराविलः ॥ KK05-10-184-011c
सम्प्राप्य तु पुनः सञ्ज्ञां जामदग्न्याय धीमते । KK05-10-184-012a
प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव ॥ KK05-10-184-012c
सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे । KK05-10-184-013a
विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् ॥ KK05-10-184-013c
तत एनं परिष्वज्य सखा विप्रो महातपाः । KK05-10-184-014a
अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा ॥ KK05-10-184-014c
समाश्वस्तस्ततो रामः क्रोधामर्षसमन्वितः । KK05-10-184-015a
प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः ॥ KK05-10-184-015c
ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम् । KK05-10-184-016a
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् ॥ KK05-10-184-016c
तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः । KK05-10-184-017a
असम्प्राप्यैव रामं च मां च भारतसत्तम ॥ KK05-10-184-017c
ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् । KK05-10-184-018a
भूतानि चैव सर्वाणि जग्मुरार्तिं विशाम्पते ॥ KK05-10-184-018c
ऋषयश्च सगन्धर्वा देवताश्चैव भारत । KK05-10-184-019a
सन्तापं परमं जग्मुरस्त्रतेजोभिपीडिताः ॥ KK05-10-184-019c
ततश्चचाल पृथिवी सपर्वतवनद्रुमा । KK05-10-184-020a
सन्तप्तानि च भूतानि विषादं जग्मुरुत्तमम् ॥ KK05-10-184-020c
प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश । KK05-10-184-021a
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा ॥ KK05-10-184-021c
ततो हाहाकृते लोके सदेवासुरराक्षसे । KK05-10-184-022a
इदमन्तरमित्येवं मोक्तुकामोऽस्मि भारत ॥ KK05-10-184-022c
प्रस्वापमस्त्रं त्वरितो वचनाद्ब्रह्मवादिनाम् । KK05-10-184-023a
चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा ॥ ॥ KK05-10-184-023c
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥