अध्यायः 183
सप्रमाणं देवतादिप्रार्थनापूर्वकं शायितस्य भीष्मस्य दिव्यपुरुषैः स्वप्ने समाश्वासनपूर्वकं ज्ञातपूर्वप्रस्वापनास्त्रानुस्मारणम् ॥ 1 ॥
भीष्म उवाच KK05-10-183-001
ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा । KK05-10-183-001a
ब्राह्मणानां पितॄणां च देवतानां च सर्वशः ॥ KK05-10-183-001c
नक्तञ्चराणां भूतानां राजन्यानां विशाम्पते । KK05-10-183-002a
शयनं प्राप्य रहिते मनसा समचिन्तयम् ॥ KK05-10-183-002c
जामदग्न्येन मे युद्धमिदं परमदारुणम् । KK05-10-183-003a
अहानि च बहून्यद्य वर्तते सुमहात्ययम् ॥ KK05-10-183-003c
न च रामं महावीर्यं शक्नोमि रणमूर्धनि । KK05-10-183-004a
विजेतुं समरे विप्रं जामदग्न्यं महाबलम् ॥ KK05-10-183-004c
यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान् । KK05-10-183-005a
दैवतानि प्रसन्नानि दर्शयन्तु निशां मम ॥ KK05-10-183-005c
ततो निशि च राजेन्द्र प्रसुप्तः शरविक्षतः । KK05-10-183-006a
दक्षिणेनेह पार्श्वेन प्रभातसमये तदा ॥ KK05-10-183-006c
ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात् । KK05-10-183-007a
उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः ॥ KK05-10-183-007c
त एव मां महाराज स्वप्ने दर्शनमेत्य वै । KK05-10-183-008a
परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह ॥ KK05-10-183-008c
उत्तिष्ठ मा भैर्गाङ्गेय न भयं तेऽस्ति किञ्चन । KK05-10-183-009a
रक्षामहे त्वां कौरव्य स्वशरीरं हि नो भवान् ॥ KK05-10-183-009c
न त्वां रामो रणे जेता जामदग्न्यः कथञ्चन । KK05-10-183-010a
त्वमेव समरे रामं विजेता भरतर्षभ ॥ KK05-10-183-010c
इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान् । KK05-10-183-011a
विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे ॥ KK05-10-183-011c
प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत । KK05-10-183-012a
न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित् ॥ KK05-10-183-012c
तत्स्मरस्व महाबाहो भृशं संयोजयस्व च । KK05-10-183-013a
उपस्थास्यति राजेन्द्र स्वयमेव तवानघ ॥ KK05-10-183-013c
येन सर्वान्महावीर्यान्प्रशासिष्यसि कौरव । KK05-10-183-014a
न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप ॥ KK05-10-183-014c
एनसा न तु संयोगं प्राप्स्यसे जातु मानद । KK05-10-183-015a
स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः ॥ KK05-10-183-015c
ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि । KK05-10-183-016a
अस्त्रेण दयितेनाजौ भीष्म सम्बोधनेन वै ॥ KK05-10-183-016c
एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः । KK05-10-183-017a
प्रसुप्तं वा मृतं वेति तुल्यं मन्यामहे वयम् ॥ KK05-10-183-017c
न च रामेण मर्तव्यं कदाचिदपि पार्थिव । KK05-10-183-018a
ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति ॥ KK05-10-183-018c
इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः । KK05-10-183-019a
अष्टौ सदृशरूपास्ते सर्वे भासुरमूर्तयः ॥ ॥ KK05-10-183-019c
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः ॥
5-183-5 निशां निशि । दर्शयन्तु आत्मानं प्रकाशयन्तु ॥