अध्यायः 182

रामेण रथादधः पातितस्य भीष्मस्य दिव्यपुरुषैः समाश्वासनम् ॥ 1 ॥ भीष्मेण रामस्य रथादधः पातनम् ॥ 2 ॥ समुद्बुध्य पुनर्युयुत्सो रामस्य महर्षिभिर्युद्धात्प्रतिनिवर्तनम् ॥ 3 ॥ भीष्म उवाच KK05-10-182-001
ततः प्रभाते राजेन्द्र सूर्ये विमलतां गते । KK05-10-182-001a
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥ KK05-10-182-001c
ततोऽभ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः । KK05-10-182-002a
ववर्ष शरजालानि मयि मेघ इवाचले ॥ KK05-10-182-002c
ततः सूतो मम सुहृच्छरवर्षेण ताडितः । KK05-10-182-003a
अपयातो रथोपस्थान्मनो मम विषादयन् ॥ KK05-10-182-003c
ततः सूतो ममात्यर्थं कश्मलं प्राविशन्महत् । KK05-10-182-004a
पृथिव्यां च शराघातान्निपपात मुमोह च ॥ KK05-10-182-004c
ततः सूतो जहात्प्राणान्रामबाणप्रपीडितः । KK05-10-182-005a
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥ KK05-10-182-005c
ततः सूते हते तस्मिन्क्षिपतस्तस्य मे शरान् । KK05-10-182-006a
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसम्मितम् ॥ KK05-10-182-006c
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः । KK05-10-182-007a
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥ KK05-10-182-007c
स मे भुजान्तरे राजन्निपत्य रुधिराशनः । KK05-10-182-008a
मयैव सह राजेन्द्र जगाम वसुधातलम् ॥ KK05-10-182-008c
मत्वा तु निहतं रामस्ततो मां भरतर्षभ । KK05-10-182-009a
मेघवद्विननादोच्चैर्जहृषे च पुनः पुनः ॥ KK05-10-182-009c
तथा तु पतिते राजन्मयि रामो मुदा युतः । KK05-10-182-010a
उदक्रोशन्महानादं सह तैरनुयायिभिः ॥ KK05-10-182-010c
मम तत्राभवन्ये तु कुरवः पार्श्वतः स्थिताः । KK05-10-182-011a
आगता अपि युद्धं तज्जनास्तत्र दिदृक्षवः । KK05-10-182-011c
आर्तिं परमिकां जग्मुस्ते तदा पतिते मयि ॥ KK05-10-182-011e
ततोऽपश्यं पतितो राजसिंह द्विजानष्टौ सूर्यहुताशनाभान् । KK05-10-182-012a
ते मां समन्तात्परिवार्य तस्थुः स्वबाहुभिः परिधार्याजिमध्ये ॥ KK05-10-182-012c
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् । KK05-10-182-013a
अन्तरिक्षे धृतो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ॥ KK05-10-182-013c
श्वसन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः । KK05-10-182-014a
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् ॥ KK05-10-182-014c
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् । KK05-10-182-015a
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः । KK05-10-182-015c
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥ KK05-10-182-015e
हयाश्च मे सङ्गृहीतास्तयाऽऽसन्महानद्या संयति कौरवेन्द्र । KK05-10-182-016a
पादौ जनन्याः प्रतिगृह्य चाहं तथा पितॄणां रथमभ्यरोहम् ॥ KK05-10-182-016e
ररक्ष सा मां सरथं हयांश्चोपस्कराणि च । KK05-10-182-017a
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥ KK05-10-182-017c
ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः । KK05-10-182-018a
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥ KK05-10-182-018c
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् । KK05-10-182-019a
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥ KK05-10-182-019c
ततो जगाम वसुधां मम बाणप्रपीडितः । KK05-10-182-020a
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥ KK05-10-182-020c
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे । KK05-10-182-021a
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥ KK05-10-182-021c
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः । KK05-10-182-022a
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥ KK05-10-182-022c
ववुश्च वाताः परुषाश्चलिता च वसुन्धरा । KK05-10-182-023a
गृध्रा बलाश्च कङ्काश्च परिपेतुर्गुदा युताः ॥ KK05-10-182-023c
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् । KK05-10-182-024a
अनाहता दुन्दुभयो विनेदुर्भृशनिःस्वनाः ॥ KK05-10-182-024c
एतदौत्पातिकं सर्वं घोरमासीद्भयङ्करम् । KK05-10-182-025a
विसञ्ज्ञकल्पे धरणीं गते रामे महात्मनि ॥ KK05-10-182-025c
ततो वै सहसोत्थाय रामो मामभ्यवर्तत । KK05-10-182-026a
पुनर्युद्धाय कौरव्य विह्वलः क्रोधमूर्छितः ॥ KK05-10-182-026c
आददानो महाबाहुः कार्मुकं तालसन्निभम् । KK05-10-182-027a
ततो मय्याददानं तं राममेव न्यवारयन् ॥ KK05-10-182-027c
महर्षयः कृपायुक्ताः क्रोधाविष्टोऽपि भार्गवः । KK05-10-182-028a
समाहरदमेयात्मा शरं कालानलोपमम् ॥ KK05-10-182-028c
सतो रविर्मन्दमरीचिमण्डलो जगामास्तं पांसुपुञ्जावगूढः । KK05-10-182-029a
निशा व्यगाहत्सुखशीतमारुता ततो युद्धं प्रत्यवहारयावः ॥ KK05-10-182-029c
एवं राजन्नवहारो बभूव ततः पुनर्विमलेऽभूत्सुघोरम् । KK05-10-182-030a
कल्यङ्कल्यं विंशतिं वै दिनानि तथैव चान्यानि दिनानि त्रीणि ॥ ॥ KK05-10-182-030c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥

5-182-2 अभ्रान्ते मेघमण्डलसमीपे ॥ 5-182-12 द्विजान् ब्राह्मणरूपधरान् वसून् ॥ 5-182-21 भूरिसहस्रदे स्वर्णसहस्राणां दातरि ॥ 5-182-22 सकम्पनाः सविद्युतः ॥ 5-182-23 बलाः बलाकाः ॥ 5-182-30 कल्यङ्कल्यं प्रातःप्रातः ॥