अध्यायः 181

रामभीष्मसमरवर्णनम् ॥ 1 ॥ भीष्म उवाच KK05-10-181-001
समागतस्य रामेण पुनरेवातिदारुणम् । KK05-10-181-001a
अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम ॥ KK05-10-181-001c
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशः । KK05-10-181-002a
अयोजयत्स धर्मात्मा दिवसे दिवसे विभुः ॥ KK05-10-181-002c
तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत । KK05-10-181-003a
व्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥ KK05-10-181-003c
अस्त्रैरस्त्रेषु बहुधा हतेष्वेव च भारत । KK05-10-181-004a
अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे ॥ KK05-10-181-004c
ततः शक्तिं प्राहिणोद्घोररूपामस्त्रे रुद्धे जामदग्न्यो महात्मा । KK05-10-181-005a
कालोत्सृष्टां प्रज्वलितामिवोल्कां सन्दीप्ताग्रां तेजसा व्याप्य लोकम् ॥ KK05-10-181-005c
ततोऽहं तामिषुभिर्दीप्यमानां समायान्तीमन्तकालार्कदीप्ताम् । KK05-10-181-006a
छित्त्वा त्रिधा पातयामास भूमौ ततो ववौ पवनः पुण्यगन्धिः ॥ KK05-10-181-006c
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः शक्तीर्घोराः प्राहिणोद्द्वादशान्याः । KK05-10-181-007a
तासां रूपं भारत नोत शक्यं तेजस्वित्वाल्लाघवाच्चैव वक्तुम् ॥ KK05-10-181-007c
किन्त्वेवाहं विह्वलः सम्प्रदृश्य दिग्भ्यः सर्वास्ता महोत्का इवाग्नेः । KK05-10-181-008a
नानारूपास्तेजसोग्रेण दीप्ता यथाऽऽदित्या द्वादश लोकसङ्क्षये ॥ KK05-10-181-008c
ततो जालं बाणमयं विवृत्तं सन्दृश्य भित्त्वा शरजालेन राजन् । KK05-10-181-009a
द्वादशेषून्प्राहिणवं रणेऽहं ततः शक्तीरप्यधमं घोररूपाः ॥ KK05-10-181-009c
ततो राजञ्जामदग्न्यो महात्मा शक्तीर्घोरा व्याक्षिपद्धेमदण्डाः । KK05-10-181-010a
विचित्रिताः काञ्चनपट्टनद्धा यथा महोल्का ज्वलितास्तथा ताः ॥ KK05-10-181-010c
ताश्चाप्युग्राश्चर्मणा वारयित्वा खड्गेनाजौ पातयित्वा नरेन्द्र । KK05-10-181-011a
बाणैर्दिव्यैर्जामदग्न्यस्य सङ्ख्ये दिव्यानश्वानभ्यवर्षं ससूतान् ॥ KK05-10-181-011c
निर्मुक्तानां पन्नगानां सरूपा दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः । KK05-10-181-012a
प्रादुश्चक्रे दिव्यमस्त्रं महात्मा क्रोधाविष्टो हैहयेशप्रमाथी ॥ KK05-10-181-012c
ततः श्रेण्यः शलभानामिवोग्राः समापेतुर्विशिखानां प्रदीप्ताः । KK05-10-181-013a
समाचिनोच्चापि भृशं शरीरं हयान्सूतं सरथं चैव मह्यम् ॥ KK05-10-181-013c
रथः शरैर्मे निचितः सर्वतोऽभूत्तथा वाहाः सारथिश्चैव राजन् । KK05-10-181-014a
युगं रथेषां च तथैव चक्रे तथैवाक्षः शरकृत्तोऽथ भग्नः ॥ KK05-10-181-014c
ततस्तस्मिन्बाणवर्षे व्यतीते शरौघेण प्रत्यवर्षं गुरुं तम् । KK05-10-181-015a
स विक्षतो मार्गणैर्ब्रह्मराशिर्देहादसक्तं मुमुचे भूरि रक्तम् ॥ KK05-10-181-015c
यथा रामो बाणजालाभितप्तस्तथैवाहं सुभृशं गाढविद्धः । KK05-10-181-016a
ततो युद्धं व्यरमच्चापराह्णे भानावस्तं प्रतियाते महीध्रम् ॥ ॥ KK05-10-181-016c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥