अध्यायः 180
रामभीष्मसमरवर्णनम् ॥ 1 ॥
भीष्म उवाच KK05-10-180-001
आत्मनस्तु ततः सूतो हयानां च विशाम्पते । KK05-10-180-001a
मम चापनयामास शल्यान्कुशलसम्मतः ॥ KK05-10-180-001c
स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः । KK05-10-180-002a
प्रभाते चोदिते सूर्ये ततो युद्धमवर्तत ॥ KK05-10-180-002c
दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम् । KK05-10-180-003a
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ॥ KK05-10-180-003c
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् । KK05-10-180-004a
धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् ॥ KK05-10-180-004c
अभिवाद्य तथैवाहं रथमारुह्य भारत । KK05-10-180-005a
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ॥ KK05-10-180-005c
ततोऽहं शरवर्षेण महता समवाकिरम् । KK05-10-180-006a
स च मां शरवर्षेण वर्षन्तं समवाकिरत् ॥ KK05-10-180-006c
सङ्क्रुद्धो जामदग्न्यस्तु पुनरेव सुतेजितान् । KK05-10-180-007a
सम्प्रैषीन्मे शरान्घोरान्दीप्तास्यानुरगानिव ॥ KK05-10-180-007c
ततोऽहं निशितैर्भल्लैः शतशोऽथ सहस्रशः । KK05-10-180-008a
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ॥ KK05-10-180-008c
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् । KK05-10-180-009a
मयि प्रयोजयामास तान्यहं प्रत्यषेधयम् ॥ KK05-10-180-009c
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम् । KK05-10-180-010a
ततो दिवि महान्नादः प्रादुरासीत्समन्ततः ॥ KK05-10-180-010c
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान् । KK05-10-180-011a
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ॥ KK05-10-180-011c
ततोऽहमस्त्रमाग्नेयमनुमन्त्र्य प्रयुक्तवान् । KK05-10-180-012a
वारुणेनैव तद्रामो वारयामास मे विभुः ॥ KK05-10-180-012c
एवमस्त्राणि दिव्यानि रामस्याहमवारयम् । KK05-10-180-013a
रामश्च मम तेजस्वी दिव्यास्त्रविदरिन्दमः ॥ KK05-10-180-013c
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः । KK05-10-180-014a
उरस्यविध्यत्सङ्क्रुद्धो जामदग्न्यः प्रतापवान् ॥ KK05-10-180-014c
ततोऽहं भारतश्रेष्ठ सन्न्यषीदं रथोत्तमे । KK05-10-180-015a
ततो मां कश्मलाविष्टं सूतस्तूर्णमुदावहत् ॥ KK05-10-180-015c
ग्लायन्तं भरतश्रेष्ठ रामबाणप्रपीडितम् । KK05-10-180-016a
ततो मामपयातं वै भृशं विद्धमचेतसम् ॥ KK05-10-180-016c
रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा विचुक्रुशुः । KK05-10-180-017a
अकृतव्रणप्रभृतयः काशिकन्या च भारत ॥ KK05-10-180-017c
ततस्तु लब्धसञ्ज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् । KK05-10-180-018a
याहि सूत यतो रामः सज्जोऽहं गतवेदनः ॥ KK05-10-180-018c
ततो मामवहत्सूतो हयैः परमशोभितैः । KK05-10-180-019a
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ॥ KK05-10-180-019c
ततोऽहं राममासाद्य बाणवर्षैश्च कौरव । KK05-10-180-020a
अवाकिरं सुसंरब्धः संरब्धं च जिगीषया ॥ KK05-10-180-020c
तानापतत एवासौ रामो बाणानजिह्मगान् । KK05-10-180-021a
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ॥ KK05-10-180-021c
ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः । KK05-10-180-022a
रामबाणैर्द्विधा च्छिन्नाः शतशोऽथ सहस्रशः ॥ KK05-10-180-022c
ततः पुनः शरं दीप्तं सुप्रभं कालसम्मितम् । KK05-10-180-023a
असृजं जामदग्न्याय रामायाहं जिघांसया ॥ KK05-10-180-023c
तेन त्वभिहतो गाढं बाणवेगवशं गतः । KK05-10-180-024a
मुमोह समरे रामो भूमौ च निपपात ह ॥ KK05-10-180-024c
ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते । KK05-10-180-025a
जगद्भारत संविग्नं यथार्कपतने भवेत् ॥ KK05-10-180-025c
तत एनं समुद्विग्नाः सर्व एवाभिदुद्रुवुः । KK05-10-180-026a
तपोधनास्ते सहसा काश्या च कुरुनन्दन ॥ KK05-10-180-026c
तत एनं परिष्वज्य शनैराश्वासयंस्तदा । KK05-10-180-027a
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ॥ KK05-10-180-027c
ततः स विह्वलं वाक्यं राम उत्थाय चाब्रवीत् । KK05-10-180-028a
तिष्ठ भीष्म हतोऽसीति बाणं सन्धाय कार्मुके ॥ KK05-10-180-028c
स मुक्तो न्यपतत्तूर्णं सव्ये पार्श्वे महाहवे । KK05-10-180-029a
येनाहं भृशमुद्विग्नो व्याघूर्णित इव द्रुमः ॥ KK05-10-180-029c
हत्वा हयांस्ततो रामः शीघ्रास्त्रेण महाहवे । KK05-10-180-030a
अवाकिरन्मां विस्रब्धो बाणैस्तैर्लोमवाहिभिः ॥ KK05-10-180-030c
ततोऽहमपि शीघ्रास्त्रं समरप्रतिवारणम् । KK05-10-180-031a
अवासृजं महाबाहो तेन्तराधिष्ठिताः शराः ॥ KK05-10-180-031c
रामस्य मम चैवाशु व्योमावृत्य समन्ततः । KK05-10-180-032a
न स्म सूर्यः प्रतपति शरजालसमावृतः ॥ KK05-10-180-032c
मातरिश्वा ततस्तस्मिन्मेघरुद्ध इवाभवत् । KK05-10-180-033a
ततो वायोः प्रकम्पाच्च सूर्यस्य च गभस्तिभिः ॥ KK05-10-180-033c
अभिघातप्रभावाच्च पावकः समजायत । KK05-10-180-034a
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना ॥ KK05-10-180-034c
भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे । KK05-10-180-035a
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च ॥ KK05-10-180-035c
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव । KK05-10-180-036a
रामः शराणां सङ्क्रुद्धो मयि तूर्णं न्यपातयत् ॥ KK05-10-180-036c
ततोऽहं तानपि रणे शरैराशीविषोपमैः । KK05-10-180-037a
सञ्छिद्य भूमौ नृपते पातयेयं नगानिव ॥ KK05-10-180-037c
एवं तदभवद्युद्धं तदा भरतसत्तम । KK05-10-180-038a
सन्ध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ॥ ॥ KK05-10-180-038c
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि अशीत्यधिकशततमोऽध्यायः ॥