अध्यायः 179
भीष्मजामदग्न्ययुद्धवर्णनम् ॥ 1 ॥
भीष्म उवाच KK05-10-179-001
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् । KK05-10-179-001a
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ॥ KK05-10-179-001c
आरोह स्यन्दनं वीर कवचं च महाभुज । KK05-10-179-002a
बधान समरे राम यदि योद्धुं मयेच्छसि ॥ KK05-10-179-002c
ततो मामब्रवीद्रामः स्मयमानो रणाजिरे । KK05-10-179-003a
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ॥ KK05-10-179-003c
सूतश्च मातरिश्वा वै कवचं वेदमातरः । KK05-10-179-004a
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ॥ KK05-10-179-004c
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः । KK05-10-179-005a
शरव्रातेन महता सर्वतः प्रत्यवारयत् ॥ KK05-10-179-005c
ततोऽपश्यं जामदग्न्यं रथमध्ये व्यवस्थितम् । KK05-10-179-006a
सर्वायुधवरे श्रीमत्यद्भुतोपमदर्शने ॥ KK05-10-179-006c
मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे । KK05-10-179-007a
दिव्याश्वयुजि सन्नद्धे काञ्चनेन विभूषिते ॥ KK05-10-179-007c
कवचेन महाबाहो सोमार्ककृतलक्ष्मणा । KK05-10-179-008a
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ॥ KK05-10-179-008c
सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः । KK05-10-179-009a
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ॥ KK05-10-179-009c
आह्वयानः स मां युद्धे मनो हर्षयतीव मे । KK05-10-179-010a
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ॥ KK05-10-179-010c
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् । KK05-10-179-011a
क्षत्रियान्तकरं राममेकमेकः समासदम् ॥ KK05-10-179-011c
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै । KK05-10-179-012a
अवतीर्य धनुर्न्यस्य पदातिर्ऋषिसत्तमम् ॥ KK05-10-179-012c
अभ्यागच्छं तदा राममर्चिष्यन्द्विजसत्तमम् । KK05-10-179-013a
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ॥ KK05-10-179-013c
योत्स्ये त्वया रणे राम सदृशेनाधिकेन वा । KK05-10-179-014a
गुरुणा धर्मशीलेन जयमाशास्व मे विभो ॥ KK05-10-179-014c
राम उवाच KK05-10-179-015
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता । KK05-10-179-015a
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् ॥ KK05-10-179-015c
शपेयं त्वां नचेदेवमागच्छेथा विशाम्पते । KK05-10-179-016a
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ॥ KK05-10-179-016c
न तु ते जयमाशासे त्वां विजेतुमहं स्थितः । KK05-10-179-017a
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते ॥ KK05-10-179-017c
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः । KK05-10-179-018a
प्राध्मापयं रणे शङ्खं पुनर्हेमपरिष्कृतम् ॥ KK05-10-179-018c
ततो युद्धं समभवन्मम तस्य च भारत । KK05-10-179-019a
दिवसान्सुबहून्राजन्परस्परजिगीषया ॥ KK05-10-179-019c
स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः । KK05-10-179-020a
षष्ट्या शतैश्च नवभिः शराणां नतपर्वणाम् ॥ KK05-10-179-020c
चत्वारस्तेन मे वाहाः सूतश्चैव विशाम्पते । KK05-10-179-021a
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ॥ KK05-10-179-021c
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यो विशेषतः । KK05-10-179-022a
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ॥ KK05-10-179-022c
आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि । KK05-10-179-023a
भूयश्च शृणु मे ब्रह्मन्सम्पदं धर्मसङ्ग्रहे ॥ KK05-10-179-023c
ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत् । KK05-10-179-024a
तपश्च ते महत्तप्तं न तेभ्यः प्रहराम्यहम् ॥ KK05-10-179-024c
प्रहरे क्षत्रधर्मस्य यं त्वं राम समाश्रितः । KK05-10-179-025a
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् ॥ KK05-10-179-025c
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं मम । KK05-10-179-026a
एष ते कार्मुकं वीर छिनद्मि निशितेषुणा ॥ KK05-10-179-026c
तस्याहं निशितं भल्लं चिक्षेप भरतर्षभ । KK05-10-179-027a
तेनास्य धनुषः कोटिं छित्वा भूमावपातयम् ॥ KK05-10-179-027c
तथैव च पृषत्कानां शतानि नतपर्वणाम् । KK05-10-179-028a
चिक्षेप कङ्कपत्राणां जामदग्न्यरथं प्रति ॥ KK05-10-179-028c
काये विषक्तास्तु तदा वायुना समुदीरिताः । KK05-10-179-029a
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ॥ KK05-10-179-029c
क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं रणे । KK05-10-179-030a
बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः ॥ KK05-10-179-030c
हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः । KK05-10-179-031a
बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः ॥ KK05-10-179-031c
ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः । KK05-10-179-032a
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः ॥ KK05-10-179-032c
ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः । KK05-10-179-033a
अकम्पयन्महावेगाः सर्पानलविषोपमाः ॥ KK05-10-179-033c
तमहं समवष्टभ्य पुनरात्मानमाहवे । KK05-10-179-034a
शतसङ्ख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ॥ KK05-10-179-034c
स तैरग्न्यर्कसङ्काशैः शरैराशीविषोपमैः । KK05-10-179-035a
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ॥ KK05-10-179-035c
ततोऽहं कृपयाऽऽविष्टो विनिन्द्यात्मानमात्मना । KK05-10-179-036a
धिग्धिगित्यब्रुवं युद्धं क्षत्रधर्मं च भारत ॥ KK05-10-179-036c
असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः । KK05-10-179-037a
अहो बत कृतं पापं मयेदं क्षत्रधर्मं च भारत ॥ KK05-10-179-037c
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः । KK05-10-179-038a
ततो न प्राहरं भूयो जामदग्न्याय भारत ॥ KK05-10-179-038c
अथावताप्य पृथिवीं पूषा दिवससङ्क्षये । KK05-10-179-039a
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ॥ ॥ KK05-10-179-039c
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः ॥