अध्यायः 178

श्रीपरशुरामेण अम्बादिभिः सह कुरुक्षेत्रं गत्वा भीष्मानयनम् ॥ 1 ॥ रामेण स्वेन चोदनेपि भीष्मेण अम्बापरिग्रहानङ्गीकारे युद्धाय तस्याह्वानम् ॥ 2 ॥ भीष्म उवाच KK05-10-178-001
एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो । KK05-10-178-001a
उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः ॥ KK05-10-178-001c
काश्ये न कामं गृह्णामि शस्त्रं वै वरवर्णिनि । KK05-10-178-002a
ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते ॥ KK05-10-178-002c
वाचा भीष्मश्च साल्वश्च मम राज्ञि वशानुगौ । KK05-10-178-003a
भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः ॥ KK05-10-178-003c
न तु शस्त्रं ग्रहीष्यामि कथञ्चिदपि भामिनि । KK05-10-178-004a
ऋते नियोगाद्विप्राणामेष मे समयः कृतः ॥ KK05-10-178-004c
अम्बोवाच KK05-10-178-005
मम दुःखं भगवता व्यपनेयं यतस्ततः । KK05-10-178-005a
तच्च भीष्मप्रसूतं मे तं जहीश्वर मा चिरम् ॥ KK05-10-178-005c
राम उवाच KK05-10-178-006
काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ । KK05-10-178-006a
शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम ॥ KK05-10-178-006c
अम्बोवाच KK05-10-178-007
जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम् । KK05-10-178-007a
प्रतिश्रुतं च यदपि तत्सत्यं कर्तुमर्हसि ॥ KK05-10-178-007c
भीष्म उवाच KK05-10-178-008
तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा । KK05-10-178-008a
अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत् ॥ KK05-10-178-008c
शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि । KK05-10-178-009a
यदि भीष्मो रणे राम समाहूतस्त्वया मृधे ॥ KK05-10-178-009c
निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव । KK05-10-178-010a
कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन ॥ KK05-10-178-010c
वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो । KK05-10-178-011a
इयं चापि प्रतिज्ञा ते तदा राम महामुने ॥ KK05-10-178-011c
जित्वा वै क्षत्रियान्सर्वान्ब्राह्मणेषु प्रतिश्रुता । KK05-10-178-012a
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि ॥ KK05-10-178-012c
ब्रह्मद्विड्भविता तं वै हनिष्यामीति भार्गव । KK05-10-178-013a
शरणार्थे प्रपन्नानां भीतानां शरणार्थिनाम् ॥ KK05-10-178-013c
न शक्ष्यामि परित्यागं कर्तुं जीवन्कथञ्चन । KK05-10-178-014a
यश्च कृत्स्नं रणे क्षत्रं विजेष्यति समागतम् ॥ KK05-10-178-014c
दीप्तात्मानमहं तं च हनिष्यामीति भार्गव । KK05-10-178-015a
स एवं विजयी राम भीष्मः कुरुकुलोद्वहः । KK05-10-178-015c
तेन युध्यस्व सङ्ग्रामे समेत्य भृगुनन्दन ॥ KK05-10-178-015e
राम उवाच KK05-10-178-016
स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम । KK05-10-178-016a
तथैव च करिष्यामि यथा साम्नैव लप्स्यते ॥ KK05-10-178-016c
कार्यमेतन्महद्ब्रह्मन्काशिकन्यामनोगतम् । KK05-10-178-017a
गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः ॥ KK05-10-178-017c
यदि भीष्मो रणश्लाघी न करिष्यति मे वचः । KK05-10-178-018a
हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः ॥ KK05-10-178-018c
न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम् । KK05-10-178-019a
कायेषु विदितं तुभ्यं पुरा क्षत्रियसङ्गरे ॥ KK05-10-178-019c
भीष्म उवाच KK05-10-178-020
एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः । KK05-10-178-020a
प्रयाणाय मतिं कृत्वा समुत्तस्थौ महातपाः ॥ KK05-10-178-020c
ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः । KK05-10-178-021a
हुताग्नयो जप्तजप्याः प्रतस्थुर्मञ्जिघांसया ॥ KK05-10-178-021c
अभ्यगच्छत्ततो रामः सह तैर्ब्रह्मवादिभिः । KK05-10-178-022a
कुरुक्षेत्रं महाराज कन्यया सह भारत ॥ KK05-10-178-022c
न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम् । KK05-10-178-023a
तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः ॥ KK05-10-178-023c
ततस्तृतीये दिवसे समे देशे व्यवस्थितः । KK05-10-178-024a
प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः ॥ KK05-10-178-024c
तमागतमहं श्रुत्वा विषयान्तं महाबलम् । KK05-10-178-025a
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् ॥ KK05-10-178-025c
गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः । KK05-10-178-026a
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः ॥ KK05-10-178-026c
स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् । KK05-10-178-027a
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् ॥ KK05-10-178-027c
राम उवाच KK05-10-178-028
भीष्म कां बुद्धिमास्थाय काशिराजसुता तदा । KK05-10-178-028a
अकामेन त्वया नीता पुनश्चैव विसर्जिता ॥ KK05-10-178-028c
विभ्रंशिता त्वया हीयं धर्मादास्ते यशस्विनी । KK05-10-178-029a
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति ॥ KK05-10-178-029c
प्रत्याख्याता हि साल्वेन त्वया नीतेति भारत । KK05-10-178-030a
तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत ॥ KK05-10-178-030c
स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम् । KK05-10-178-031a
न युक्तस्त्ववमानोऽयं राज्ञां कर्तुं त्वयाऽनघ ॥ KK05-10-178-031c
भीष्म उवाच KK05-10-178-032
ततस्तं वै विमनसमुदीक्ष्याहमथाब्रुवम् । KK05-10-178-032a
नाहमेनां पुनर्दद्यां ब्रह्मन्भ्रात्रे कथञ्चन ॥ KK05-10-178-032c
साल्वस्याहमिति प्राह पुरा मामेव भार्गव । KK05-10-178-033a
मया चैवाभ्यनुज्ञाता गतेयं नगरं प्रति ॥ KK05-10-178-033c
न भयान्नाप्यनुक्रोशान्नार्थलोभान्न काम्यया । KK05-10-178-034a
क्षात्रं धर्ममहं जह्यामिति मे व्रतमाहितम् ॥ KK05-10-178-034c
अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः । KK05-10-178-035a
न करिष्यसि चेदेतद्वाक्यं मे नरपुङ्गव ॥ KK05-10-178-035c
हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः । KK05-10-178-036a
संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः ॥ KK05-10-178-036c
तमहं गीर्भिरिष्टाभि पुनः पुनररिन्दम । KK05-10-178-037a
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः ॥ KK05-10-178-037c
प्रणम्य तमहं मूर्ध्ना भूयो ब्राह्मणसत्तमम् । KK05-10-178-038a
अब्रुवं कारणं किं तद्यत्त्वं युद्धं मयेच्छसि ॥ KK05-10-178-038c
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम् । KK05-10-178-039a
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव ॥ KK05-10-178-039c
ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः । KK05-10-178-040a
जानीषे मां गुरुं भीष्म गृह्णासीमां न चैव ह ॥ KK05-10-178-040c
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महामते । KK05-10-178-041a
न हि मे विद्यते शान्तिरन्यथा कुरुनन्दन ॥ KK05-10-178-041c
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः । KK05-10-178-042a
त्वया विभ्रंशिता हीयं भर्तारं नाधिगच्छति ॥ KK05-10-178-042c
तथा ब्रुवन्तं तमहं रामं परपुरञ्जयम् । KK05-10-178-043a
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते ॥ KK05-10-178-043c
गुरुत्वं त्वयि सम्प्रेक्ष्य जामदग्न्य पुरातनम् । KK05-10-178-044a
प्रसादये त्वां भगवंस्त्यक्तैषा तु पुरा मया ॥ KK05-10-178-044c
को जातु परभावां हि नारीं व्यालीमिव स्थिताम् । KK05-10-178-045a
वासयेत गृहे जानन्स्त्रीणां दोषो महात्ययः ॥ KK05-10-178-045c
न भयाद्वासवस्यापि धर्मं जह्यां महाव्रत । KK05-10-178-046a
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु मा चिरम् ॥ KK05-10-178-046c
अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो । KK05-10-178-047a
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना ॥ KK05-10-178-047c
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । KK05-10-178-048a
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥ KK05-10-178-048c
स त्वं गुरुरिति प्रेम्णा मया सम्मानितो भृशम् । KK05-10-178-049a
गुरुवृत्तिं न जानीषे तस्माद्योत्स्यामि वै त्वया ॥ KK05-10-178-049c
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः । KK05-10-178-050a
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव ॥ KK05-10-178-050c
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् । KK05-10-178-051a
यो हन्यात्समरे क्रुद्धं युध्यन्तमपलायिनम् ॥ KK05-10-178-051c
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः । KK05-10-178-052a
क्षत्रियाणां स्थितो धर्म क्षत्रियोऽस्मि तपोधन ॥ KK05-10-178-052c
यो यथा वर्तते यस्मिंस्तस्मिन्नेव प्रवर्तयन् । KK05-10-178-053a
नाधर्मं समवाप्नोति न चाश्रेयश्च विन्दति ॥ KK05-10-178-053c
अर्थे वा यदि वा धर्मे समर्थो देशकालवित् । KK05-10-178-054a
अर्थसंशयमापन्नः श्रोयान्निःसंशयो नरः ॥ KK05-10-178-054c
यस्मात्संशयितेऽप्यर्थेऽयथान्यायं प्रवर्तसे । KK05-10-178-055a
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे ॥ KK05-10-178-055c
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् । KK05-10-178-056a
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन ॥ KK05-10-178-056c
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह । KK05-10-178-057a
द्वन्द्वे राम यथेष्टं मे सज्जीभव महाद्युते ॥ KK05-10-178-057c
तत्र त्वं निहतो राम मया शरशतार्दितः । KK05-10-178-058a
प्राप्स्यसे निर्जिताल्ँलोकाञ्शस्त्रपूतो महारणे ॥ KK05-10-178-058c
स गच्छ विनिवर्तस्व कुरुक्षोत्रं रणप्रिय । KK05-10-178-059a
तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन ॥ KK05-10-178-059c
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः । KK05-10-178-060a
तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव ॥ KK05-10-178-060c
तत्र राम समागच्छ त्वरितं युद्धदुर्मद । KK05-10-178-061a
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव ॥ KK05-10-178-061c
यच्चापि कत्थसे राम बहुशः परिवत्सरे । KK05-10-178-062a
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छ्रृणु ॥ KK05-10-178-062c
न तदा जातवान्भीष्मः क्षत्रियो वापि मद्विधः । KK05-10-178-063a
पञ्चाञ्जातानि तेजांसि तृणेषु ज्वलितं त्वया ॥ KK05-10-178-063c
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत् । KK05-10-178-064a
सोऽहं जातो महाबाहो भीष्मः परपुरञ्जयः । KK05-10-178-064c
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः ॥ KK05-10-178-064e
ततो मामब्रवीद्रामः प्रहसन्निव भारत । KK05-10-178-065a
दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि सङ्गरे ॥ KK05-10-178-065c
अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह । KK05-10-178-066a
भाषितं ते करिष्यामि तत्रागच्छ परन्तप ॥ KK05-10-178-066c
तत्र त्वां निहतं माता मया शरशताचितम् । KK05-10-178-067a
जाह्नवी पश्यतां भीष्म गृध्रकङ्कबलाशनम् ॥ KK05-10-178-067c
कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता । KK05-10-178-068a
मया विनिहतं देवी रोदतामद्य पार्थिव ॥ KK05-10-178-068c
अतदर्हा महाभागा भगीरथसुताऽनघा । KK05-10-178-069a
या त्वामजीजनन्मन्दं युद्धकामुकमातुरम् ॥ KK05-10-178-069c
एहि गच्छ मया भीष्म युद्धकामुक दुर्मद । KK05-10-178-070a
गृहाण सर्वं कौरव्य रथादि भरतर्षभ ॥ KK05-10-178-070c
इति ब्रुवाणं तमहं रामं परपुरञ्जयम् । KK05-10-178-071a
प्रणम्य शिरसा राममेवमस्त्वित्यथाब्रुवम् ॥ KK05-10-178-071c
एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया । KK05-10-178-072a
प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम् ॥ KK05-10-178-072c
ततः कृतस्वस्त्ययनो मात्रा च प्रतिनन्दितः । KK05-10-178-073a
द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते ॥ KK05-10-178-073c
रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः । KK05-10-178-074a
सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् ॥ KK05-10-178-074c
उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् । KK05-10-178-075a
तत्कुलीनेन वीरेण हयशास्त्रविदा रणे ॥ KK05-10-178-075c
यत्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा । KK05-10-178-076a
दंशितः पाण्डुरेणाहं कवचेन वपुष्मता ॥ KK05-10-178-076c
पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम । KK05-10-178-077a
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥ KK05-10-178-077c
पाण्डुरैश्चापि व्यजनैर्वीज्यमानो नराधिप । KK05-10-178-078a
शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः ॥ KK05-10-178-078c
स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात् । KK05-10-178-079a
कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ ॥ KK05-10-178-079c
ते हयाश्चोदितास्तेन सूतेन परमाहवे । KK05-10-178-080a
अवहन्मां भृशं राजन्मनोमारुतरंहसः ॥ KK05-10-178-080c
गत्वाऽहं तत्कुरुक्षेत्रं स च रामः प्रतापवान् । KK05-10-178-081a
युद्धाय सहसा राजन्पराक्रान्तौ परस्परम् ॥ KK05-10-178-081c
ततः सन्दर्शनेऽतिष्ठं रामस्यातितपस्विनः । KK05-10-178-082a
प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम् ॥ KK05-10-178-082c
ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः । KK05-10-178-083a
अपश्यन्त रणं दिव्यं देवाः सेन्द्रगणास्तदा ॥ KK05-10-178-083c
ततो दिव्यानि माल्यानि प्रादुरासंस्ततस्ततः । KK05-10-178-084a
वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह ॥ KK05-10-178-084c
ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः । KK05-10-178-085a
प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् ॥ KK05-10-178-085c
ततो मामब्रवीद्देवी सर्वभूतहितैषिणी । KK05-10-178-086a
माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम् ॥ KK05-10-178-086c
गत्वाऽहं जामदग्न्यं तु प्रयाचिष्ये कुरूद्वह । KK05-10-178-087a
भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः ॥ KK05-10-178-087c
मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव । KK05-10-178-088a
जामदग्न्येन समरे योद्धुमित्येव भर्त्सयत् ॥ KK05-10-178-088c
किं न वै क्षत्रियहणो हरतुल्यपराक्रमः । KK05-10-178-089a
विदितः पुत्र रामस्ते यतस्तं योद्धुमिच्छसि ॥ KK05-10-178-089c
ततोऽहमब्रवं देवीमभिवाद्य कृताञ्जलिः । KK05-10-178-090a
सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे ॥ KK05-10-178-090c
यथा च रामो राजेन्द्र मया पूर्वं प्रचोदितः । KK05-10-178-091a
काशिराजसुतायाश्च यथा कर्म पुरातनम् ॥ KK05-10-178-091c
ततः सा राममभ्येत्य जननी मे महानदी । KK05-10-178-092a
मदर्थं तमृषिं वीक्ष्य क्षमयामास भार्गवम् ॥ KK05-10-178-092c
भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत् । KK05-10-178-093a
स च तामाह याचन्तीं भीष्ममेव निवर्तय । KK05-10-178-093c
न च मे कुरुते काममित्यहं तमुपागमम् ॥ KK05-10-178-094a
ततो गङ्गा सुतस्नोहान्मां सा पुनरुपागमत् । KK05-10-178-094c
नास्या अकरवं वाक्यं क्रोधपर्याकुलेक्षणः ॥ KK05-10-178-094e
अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः । KK05-10-178-095a
आह्वयामास च तदा युद्धाय द्विजसत्तमः ॥ ॥ KK05-10-178-095c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः ॥

5-178-2 काश्ये काशिराजकन्ये ॥ 5-178-48 अवलिप्तस्य दृप्तस्य । प्रतिपन्नस्य कार्यं भवति शासनमिति क. ध. पाठः ॥ 5-178-53 यः पुमान् यस्मिन्नरे यथा प्रीत्या द्वेषेण वा वर्तते स नरस्तस्मिन् तथैव प्रीतिं द्वेषं वा प्रवर्तयन् ॥ 5-178-54 ननु त्वामर्थे प्रवर्तयन्नहं त्वयि प्रीतिमेव करोमीत्याशङ्क्याह अर्थेवेति । अर्थे गुरुवाक्याद्दारकरणे धर्मे पितृप्रीत्यर्थं स्वीकृते ब्रह्मचर्ये विषये देशकालानुसारेण समर्थो विवेककुशलः । तत्र धर्मलोपेन गुरुवाक्यात् प्राप्यमाणोऽर्थः श्रेयानुत नेत्यर्थे संशयवानुत गुरुवाक्यविरोधेनापि पाल्यमानो धर्मः श्रेयानुत नेति धर्मे संशयवान् । एतयोर्मध्ये अर्थे संशयमापन्नोऽर्थमननुतिष्ठन् श्रेयान् । परिशेषात् धर्मे तु निःसंशयो धर्ममेवानुतिष्ठन् श्रोयानित्यर्थः ॥ 5-178-61 पौराणं पुराकृतम् ॥ 5-178-67 बलाः काकाः तेषामशनम् अन्नभूतम् ॥