अध्यायः 177

अकृतव्रणेन सविमर्शं भीष्मस्य प्रतीकारनिर्धारणम् ॥ 1 ॥ अम्बया परेद्युरागतं जामदग्न्यं प्रति भीष्मवधप्रार्थना ॥ 2 ॥ अकृतव्रण उवाच KK05-10-177-001
दुःखं द्वयोरिदं भद्रे कतरस्य चिकीर्षसि । KK05-10-177-001a
प्रतिकर्तव्यमबले तत्त्वं वत्से वदस्व मे ॥ KK05-10-177-001c
यदि सौभपतिर्भद्रे नियोक्तव्यो मतस्तव । KK05-10-177-002a
नियोक्ष्यति महात्मा स रामस्त्वद्धितकाम्यया ॥ KK05-10-177-002c
अथापगेयं भीष्मं त्वं रामेणेच्छसि धीमता । KK05-10-177-003a
रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः ॥ KK05-10-177-003c
सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते । KK05-10-177-004a
यदत्र ते भृशं कार्यं तदद्यैव विचिन्त्यताम् ॥ KK05-10-177-004c
अम्बोवाच KK05-10-177-005
अपनीतास्मि भीष्मेण भगवन्नविजानता । KK05-10-177-005a
नाभिजानाति मे भीष्मो ब्रह्मन्साल्वगतं मनः ॥ KK05-10-177-005c
एतद्विचार्य मनसा भवानेतद्विनिश्चयम् । KK05-10-177-006a
विचिनोतु यथान्यायं विधानं क्रियतां तथा ॥ KK05-10-177-006c
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथवा पुनः । KK05-10-177-007a
उभयोरेव वा ब्रह्मन्युक्तं यत्तत्समाचर ॥ KK05-10-177-007c
निवेदितं मया ह्येतद्दुःखमूलं यथातथम् । KK05-10-177-008a
विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः ॥ KK05-10-177-008c
अकृतव्रण उवाच KK05-10-177-009
उपपन्नमिदं भद्रे यदेवं वरवर्णिनि । KK05-10-177-009a
धर्मं प्रतिवचो ब्रूयाः शृणु चेदं वचो मम ॥ KK05-10-177-009c
यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् । KK05-10-177-010a
साल्वस्त्वां शिरसा भीरु गृह्णीयाद्रामचोदितः ॥ KK05-10-177-010c
तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि । KK05-10-177-011a
संशयः साल्वराजस्य तेन त्वयि सुमध्यमे ॥ KK05-10-177-011c
भीष्मः पुरुषमानी च जितकाशी तथैव च । KK05-10-177-012a
तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं तव ॥ KK05-10-177-012c
अम्बोवाच KK05-10-177-013
ममाप्येष सदा ब्रह्मन्हृदि कामोऽभिवर्तते । KK05-10-177-013a
घातयेयं यदि रणे भीष्ममित्येव नित्यदा ॥ KK05-10-177-013c
भीष्मं वा साल्वराजं वा यं वा दोषेण गच्छसि । KK05-10-177-014a
प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता ॥ KK05-10-177-014c
भीष्म उवाच KK05-10-177-015
एवं कथयतामेव तेषां स दिवसो गतः । KK05-10-177-015a
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ॥ KK05-10-177-015c
ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा । KK05-10-177-016a
शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः ॥ KK05-10-177-016c
धनुष्पाणिरदीनात्मा खड्गं बिभ्रत्परश्वधी । KK05-10-177-017a
विरजा राजशार्दूल सृञ्जयं सोऽभ्ययान्नृपम् ॥ KK05-10-177-017c
ततस्तं तापसा दृष्ट्वा स च राजा महातपाः । KK05-10-177-018a
तस्थुः प्राञ्जलयो राजन्सा च कन्या तपस्विनी ॥ KK05-10-177-018c
पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् । KK05-10-177-019a
अर्चितश्च यथान्यायं निषसाद सहैव तैः ॥ KK05-10-177-019c
ततः पूर्वव्यतीतानि कथयन्तौ स्म तावुभौ । KK05-10-177-020a
आसातां जामदग्न्यश्च सृञ्जयश्चैव भारत ॥ KK05-10-177-020c
तथा कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम् । KK05-10-177-021a
उवाच मधुरं काले रामं वचनमर्थवत् ॥ KK05-10-177-021c
रामेयं मम दौहित्री काशिराजसुता प्रभो । KK05-10-177-022a
अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद ॥ KK05-10-177-022c
परमं कथ्यतां चेति तां रामः प्रत्यभाषत । KK05-10-177-023a
ततः साभ्यवदद्रामं ज्वलन्तमिव पावकम् ॥ KK05-10-177-023c
ततोऽभिवाद्य चरणौ रामस्य शिरसा शुभौ । KK05-10-177-024a
स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ॥ KK05-10-177-024c
रुरोद सा शोकवती बाष्पव्याकुललोचना । KK05-10-177-025a
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ॥ KK05-10-177-025c
राम उवाच KK05-10-177-026
यथा त्वं सृञ्जयस्यास्य तथा मे त्वं नृपात्मजे । KK05-10-177-026a
ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ॥ KK05-10-177-026c
अम्बोवाच KK05-10-177-027
भगवञ्शरणं त्वाद्य प्रपन्नाऽस्मि महाव्रतम् । KK05-10-177-027a
शोकपङ्कार्णवान्मग्नं घोरादुद्धर मां विभो ॥ KK05-10-177-027c
भीष्म उवाच KK05-10-177-028
तस्याश्च दृष्ट्वा रूपं च वपुश्चाभिनवं पुनः । KK05-10-177-028a
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ॥ KK05-10-177-028c
किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः । KK05-10-177-029a
इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ॥ KK05-10-177-029c
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता । KK05-10-177-030a
सर्वमेव यथातत्त्वं कथयामास भार्गवे ॥ KK05-10-177-030c
तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा । KK05-10-177-031a
उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ॥ KK05-10-177-031c
राम उवाच KK05-10-177-032
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि । KK05-10-177-032a
करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः ॥ KK05-10-177-032c
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः । KK05-10-177-033a
धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा ॥ KK05-10-177-033c
अथवा ते मतिस्तत्र राजपुत्रि न वर्तते । KK05-10-177-034a
यावत्साल्वपतिं वीरं योजयाम्यत्र कर्मणि ॥ KK05-10-177-034c
अम्बोवाच KK05-10-177-035
विसर्जिताऽहं भीष्मेण श्रुत्वैव भृगुनन्दन । KK05-10-177-035a
साल्वराजगतं भावं मम पूर्वं मनीषितम् ॥ KK05-10-177-035c
सौभराजमुपेत्याहमवोचं दुर्वचं वचः । KK05-10-177-036a
न च मां प्रत्यगृह्णात्स चारित्र्यपरिशङ्कितः ॥ KK05-10-177-036c
एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन । KK05-10-177-037a
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ॥ KK05-10-177-037c
मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः । KK05-10-177-038a
येनाहं वशमानीता समत्क्षिप्य बलात्तदा ॥ KK05-10-177-038c
भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् । KK05-10-177-039a
प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ॥ KK05-10-177-039c
स हि लुब्धश्च नीचश्च जितकाशी च भार्गव । KK05-10-177-040a
तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयाऽनघ ॥ KK05-10-177-040c
एष मे ह्रियमाणाया भारतेन तदा विभो । KK05-10-177-041a
अभवद्धृदि सङ्कल्पो घातयेदं महाव्रतम् ॥ KK05-10-177-041c
तस्मात्कामं ममाद्येमं राम सम्पादयानघ । KK05-10-177-042a
जहि भीष्मं महाबाहो यथा वृत्रं पुरन्दरः ॥ ॥ KK05-10-177-042c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥

5-177-1 द्वयोः सकाशादिति शेषः ॥ 5-177-2 नियोक्तव्यस्तव पाणिग्रहणार्थमिति शेषः 5-177-6 विधानं प्रतीकारम् ॥ 5-177-23 परमं तव विवक्षितं यत्तन्मेऽवश्यं वक्तव्यमित्यर्थः ॥