अध्यायः 176
अम्बां प्रति तापसेषु चिन्तयत्सु होत्रवाहनाम्नोऽम्बामातामहस्य तत्रागमनम् ॥ 1 ॥ तेनाम्बायाः परशुरामं प्रति शरणागतिचोदना ॥ 2 ॥ तत्र यदृच्छासमागते अकृतव्रणनाम्नि महर्षौ अम्बया स्ववृत्तान्तनिवेदनम् ॥ 3 ॥
भीष्म उवाच KK05-10-176-001
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा । KK05-10-176-001a
तां कन्यां चिन्तयन्तस्ते किङ्कार्यमिति धर्मिणः ॥ KK05-10-176-001c
केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः । KK05-10-176-002a
केचिदस्मदुपालम्भे मतिं चक्रुर्हि तापसाः ॥ KK05-10-176-002c
केचित्साल्वपतिं गत्वा नियोज्यमिति मेनिरे । KK05-10-176-003a
नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥ KK05-10-176-003c
एवं गते तु किं शक्यं भद्रे कर्तुं मनीषिभिः । KK05-10-176-004a
पुनरूचुश्च तां सर्वे तापसाः संशितव्रताः ॥ KK05-10-176-004c
अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः । KK05-10-176-005a
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥ KK05-10-176-005c
प्रतिपस्त्यति राजा स पिता ते यदनन्तरम् । KK05-10-176-006a
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ॥ KK05-10-176-006c
न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता । KK05-10-176-007a
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि । KK05-10-176-007c
गतिः पतिः समस्थाया विषमे च पिता गतिः ॥ KK05-10-176-007e
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः । KK05-10-176-008a
राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि ॥ KK05-10-176-008c
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि । KK05-10-176-009a
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे ॥ KK05-10-176-009c
ततस्त्वन्येऽब्रुवन्वाक्यं तापसास्तां तपस्विनीम् ॥ KK05-10-176-010ac
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने । KK05-10-176-011a
प्रार्थयिष्यन्ति राजानस्तस्मान्मैवं मनः कृथाः ॥ KK05-10-176-011c
अम्बोवाच KK05-10-176-012
न शक्यं काशिनगरं पुनर्गन्तुं पितुर्गृहान् । KK05-10-176-012a
अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥ KK05-10-176-012c
उषितास्मि तथा बाल्ये पितुर्वेश्मनि तापसाः । KK05-10-176-013a
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम । KK05-10-176-013c
तपस्तप्तुमभीप्सामि तापसैः परिरक्षिता ॥ KK05-10-176-013e
यथा परेऽपि मे लोके न स्यादेवं महात्ययः । KK05-10-176-014a
दौर्भाग्यं तापसश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः ॥ KK05-10-176-014c
भीष्म उवाच KK05-10-176-015
इत्येवं तेषु विप्रेषु चिन्तयत्सु यथातथम् । KK05-10-176-015a
राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः । KK05-10-176-015c
'तां तथा भाविनीं दृष्ट्वा श्रुत्वा चोद्विग्नमानसः'॥ KK05-10-176-015e
ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् । KK05-10-176-016a
पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥ KK05-10-176-016c
तस्योपविष्टस्य सतो विश्रान्तस्योपशृण्वतः । KK05-10-176-017a
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥ KK05-10-176-017c
अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत । KK05-10-176-018a
राजर्षिः स महातेजा बभूवोद्विग्नमानसः ॥ KK05-10-176-018c
तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः । KK05-10-176-019a
राजर्षिः कृपयाविष्टो महात्मा होत्रवाहनः ॥ KK05-10-176-019c
स वेपमान उत्थाय मातुस्तस्याः पिता तदा । KK05-10-176-020a
तां कन्यामङ्कमारोप्य पर्यश्वासयत प्रभो ॥ KK05-10-176-020c
स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः । KK05-10-176-021a
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥ KK05-10-176-021c
ततः स राजर्षिरभूद्दुःखशोकसमन्वितः । KK05-10-176-022a
कार्यं च प्रतिपेदे तन्मनसां सुमहातपाः ॥ KK05-10-176-022c
अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः । KK05-10-176-023a
मा गाः पितुर्गृहं भद्रे मातुस्ते जनको ह्यहम् ॥ KK05-10-176-023c
दुःखं छिन्द्यामहं ते वै मयि वर्तस्व पुत्रिके । KK05-10-176-024a
पर्याप्तं ते मनो वत्से यदेवं परिशुष्यसि ॥ KK05-10-176-024c
गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् । KK05-10-176-025a
रामस्ते सुमहद्दुःखं शोकं चैवापनेष्यति ॥ KK05-10-176-025c
हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः । KK05-10-176-026a
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् ॥ KK05-10-176-026c
प्रतिष्ठापयिता स त्वां समे पथि महातपाः । KK05-10-176-027a
ततस्तु सुस्वरं बाष्पमुत्सृजन्ती पुनः पुनः ॥ KK05-10-176-027c
अब्रवीत्पितरं मातुः मा तदा होत्रवाहनम् । KK05-10-176-028a
अभिवादयित्वा शिरसा गमिष्ये तव शासनात् ॥ KK05-10-176-028c
अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् । KK05-10-176-029a
कथं च तीव्रं दुःखं मे नाशयिष्यति भार्गवः । KK05-10-176-029c
एतदिच्छाम्यहं ज्ञातुं यथा यास्यामि तत्र वै ॥ KK05-10-176-029e
होत्रवाहन उवाच KK05-10-176-030
रामं द्रक्ष्यसि भद्रे त्वं जामदग्न्यं महावने । KK05-10-176-030a
उग्रे तपसि वर्तन्तं सत्यसन्धं महाबलम् ॥ KK05-10-176-030c
महेन्द्रं वै गिरिश्रेष्ठं रामो नित्यमुपास्ति ह । KK05-10-176-031a
ऋषयो वेदविद्वांसो गन्धर्वाप्सरसस्तथा ॥ KK05-10-176-031c
तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम । KK05-10-176-032a
अभिवाद्य च तं मूर्ध्ना तपोवृद्धं दृढव्रतम् ॥ KK05-10-176-032c
ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम् । KK05-10-176-033a
मयि सङ्कीर्तिते रामः सर्वं तत्ते करिष्यति ॥ KK05-10-176-033c
मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे । KK05-10-176-034a
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः ॥ KK05-10-176-034c
एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने । KK05-10-176-035a
अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः ॥ KK05-10-176-035c
ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः । KK05-10-176-036a
स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः ॥ KK05-10-176-036c
ततो दृष्ट्वा कृतातिथ्यमन्योन्यं ते वनौकसः । KK05-10-176-037a
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् ॥ KK05-10-176-037c
ततस्ते कथयामासुः कथास्तास्ता मनोरमाः । KK05-10-176-038a
धन्या दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः ॥ KK05-10-176-038c
ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः । KK05-10-176-039a
रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् ॥ KK05-10-176-039c
क्व सम्प्रति महाबाहो जामदग्न्यः प्रतापवान् । KK05-10-176-040a
अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वर ॥ KK05-10-176-040c
अकृतव्रण उवाच KK05-10-176-041
भवन्तमेव सततं रामः कीर्तयति प्रभो । KK05-10-176-041a
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव ॥ KK05-10-176-041c
इह रामः प्रभाते श्वो भवितेति मतिर्मम । KK05-10-176-042a
द्रष्टास्येनमिहायान्तं तव दर्शनकाङ्क्षया ॥ KK05-10-176-042c
इयं च कन्या राजर्षे किमर्थं वनमागता । KK05-10-176-043a
कस्य चेयं तव च का भवतीच्छामि वेदितुम् ॥ KK05-10-176-043c
होत्रवाहन उवाच KK05-10-176-044
दौहित्रीयं मम विभो काशिराजसुता प्रिया । KK05-10-176-044a
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानध ॥ KK05-10-176-044c
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता । KK05-10-176-045a
अम्बिकाम्बालिके कन्ये कनीयस्यौ तपोधन ॥ KK05-10-176-045c
समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत् । KK05-10-176-046a
कन्यानिमित्तं विप्रर्षे तत्रासीदुत्सवो महान् ॥ KK05-10-176-046c
ततः किल महावीर्यो भीष्मः शान्तनवो नृपान् । KK05-10-176-047a
अधिक्षिप्य महातेजास्तिस्रः कन्या जहार ताः ॥ KK05-10-176-047c
निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम् । KK05-10-176-048a
आजगाम विशुद्धात्मा कन्याभिः सह भारतः ॥ KK05-10-176-048c
सत्यवत्यै निवेद्याथ विवाहं समनन्तरम् । KK05-10-176-049a
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः ॥ KK05-10-176-049c
तं तु वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् । KK05-10-176-050a
अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ ॥ KK05-10-176-050c
मया साल्वपतिर्वीरो मनसाऽभिवृतः पतिः । KK05-10-176-051a
न ममार्हसि धर्मज्ञ दातुं भ्रात्रेऽन्यमानसाम् ॥ KK05-10-176-051c
तच्छ्रुत्वा वचनं भीष्मः सम्मन्त्र्य सह मन्त्रिभिः । KK05-10-176-052a
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः ॥ KK05-10-176-052c
अनुज्ञाता तु भीष्मेण साल्वं सौभपतिं ततः । KK05-10-176-053a
कन्येयं मुदिता तत्र काले वचनमब्रवीत् ॥ KK05-10-176-053c
विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय । KK05-10-176-054a
मनसाभिवृत्तः पूर्वं मया त्वं पार्थिवर्षभ ॥ KK05-10-176-054c
प्रत्याचख्यौ च साल्वोऽस्याश्चारित्रस्याभिशङ्कितः । KK05-10-176-055a
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् ॥ KK05-10-176-055c
मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात् । KK05-10-176-056a
अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते । KK05-10-176-056c
अम्बोवाच KK05-10-176-057
भगवन्नेवमेवेह यथाह पृथिवीपतिः । KK05-10-176-057a
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः ॥ KK05-10-176-057c
न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन । KK05-10-176-058a
अपमानभयाच्चैव व्रीडया च महामुने ॥ KK05-10-176-058c
यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम । KK05-10-176-059a
तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः ॥ ॥ KK05-10-176-059c
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः ॥
5-176-14 महात्ययः सुखनाशः । मह उद्धव उत्सव इति कोशः ॥ 5-176-56 उत्पत्तिं कारणम् ॥