अध्यायः 175
भीष्मानुज्ञया साल्वं गताया अम्बायास्तेन परित्यागः ॥ 1 ॥ अम्बया भीष्मस्य प्रतिचिकीर्षया तापसाश्रममेत्य तेषु स्ववृत्तान्तनिवेदनम् ॥ 2 ॥
भीष्म उवाच KK05-10-175-001
ततोऽहं समनुज्ञाप्य कालीं गन्धवतीं तदा । KK05-10-175-001a
मन्त्रिणश्चर्त्विजश्चैव तथैव च पुरोहितान् । KK05-10-175-001c
समनुज्ञासिषं कन्यामम्बां ज्येष्ठां नराधिप ॥ KK05-10-175-001e
अनुज्ञाता ययौ सा तु कन्या साल्वपतेः पुरम् । KK05-10-175-002a
वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा ॥ KK05-10-175-002c
अतीत्य च तमध्वानमासमाद नराधिपम् । KK05-10-175-003a
सा तमासाद्य राजानं साल्वं वचनमब्रवीत् ॥ KK05-10-175-003c
आगताहं महाबाहो त्वामुद्दिश्य महामते । KK05-10-175-004a
'अभिनन्दस्व मां राजन्सदा प्रियहिते रताम् ॥ KK05-10-175-004c
प्रतिपादय मां राजन्धर्मादींश्चर धर्मतः । KK05-10-175-005a
त्वं हि मे मनसा ध्यातस्त्वया चाप्युपमन्त्रिता ॥ KK05-10-175-005c
भीष्म उवाच ' KK05-10-175-006
तामब्रवीत्साल्वपतिः स्मयन्निव विशाम्पते । KK05-10-175-006a
त्वयाऽन्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ॥ KK05-10-175-006c
गच्छ भद्रे पुनस्तत्र सकाशं भीष्मकस्य वै । KK05-10-175-007a
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै ॥ KK05-10-175-007c
त्वं हि भीष्मेण निर्जित्य नीता प्रीतिमती तदा । KK05-10-175-008a
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् ॥ KK05-10-175-008c
नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि । KK05-10-175-009a
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत् ॥ KK05-10-175-009c
नारीं विदितविज्ञानः परेषां धर्ममादिशन् । KK05-10-175-010a
यथेष्टं गम्यतां भद्रे मा त्वां कालोऽत्यगादयम् ॥ KK05-10-175-010c
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता । KK05-10-175-011a
नैवं वद महीपाल नैतदेवं कथञ्चन ॥ KK05-10-175-011c
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन । KK05-10-175-012a
बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् ॥ KK05-10-175-012c
भजस्व मां साल्वपते भक्तां बालामनागसम् । KK05-10-175-013a
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते ॥ KK05-10-175-013c
साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम् । KK05-10-175-014a
अनुज्ञाता च तेनैव ततोऽहं भृशमागता ॥ KK05-10-175-014c
न स भीष्मो महाबाहुर्मामिच्छति विशाम्पते । KK05-10-175-015a
भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया ॥ KK05-10-175-015c
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप । KK05-10-175-016a
प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे ॥ KK05-10-175-016c
यथा साल्वपते नान्यं वरं यामि कथञ्चन । KK05-10-175-017a
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे ॥ KK05-10-175-017c
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता । KK05-10-175-018a
सत्यं ब्रवीमि साल्वैतत्सत्येनात्मानमालभे ॥ KK05-10-175-018c
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम् । KK05-10-175-019a
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् ॥ KK05-10-175-019c
तामेवं भाषमाणां तु साल्वः काशिपतेः सुताम् । KK05-10-175-020a
अत्यजद्भरतश्रेष्ठ जीर्णां त्वचमिवोरगः ॥ KK05-10-175-020c
एवं बहुविधैर्वाक्यैर्याच्यमानस्तया नृपः । KK05-10-175-021a
नाश्रद्दधत्साल्वपतिः कन्यायां भरतर्षभ ॥ KK05-10-175-021c
ततः सा मन्युनाऽऽविष्टा ज्येष्ठा काशिपतेः सुता । KK05-10-175-022a
अब्रवीत्साश्रुनयना बाष्पविप्लुतया गिरा ॥ KK05-10-175-022c
त्वया त्यक्ता गमिष्यामि यत्र तत्र विशाम्पते । KK05-10-175-023a
तत्र मे गतयः सन्तु सन्तः सत्यं यथा ध्रुवम् ॥ KK05-10-175-023c
एवं तां भाषमाणां तु कन्यां साल्वपतिस्तदा । KK05-10-175-024a
परितत्याज कौरव्य करुणं परिदेवतीम् ॥ KK05-10-175-024c
गच्छ गच्छेति तां साल्वः पुनः पुनरभाषत । KK05-10-175-025a
बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः ॥ KK05-10-175-025c
एवमुक्ता तु सा तेन साल्वेनादीर्घदर्शिना । KK05-10-175-026a
निश्चक्राम पुराद्दीना रुदती कुररी यथा ॥ KK05-10-175-026c
भीष्म उवाच KK05-10-175-027
निष्क्रामन्ती तु नगराच्चिन्तयामास दुःखिता । KK05-10-175-027a
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया ॥ KK05-10-175-027c
बन्धुर्भिर्विप्रहीणास्मि साल्वेन च निराकृता । KK05-10-175-028a
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् ॥ KK05-10-175-028c
अनुज्ञाता तु भीष्मेण साल्वमुद्दिश्य कारणम् । KK05-10-175-029a
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् ॥ KK05-10-175-029c
अथवा पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् । KK05-10-175-030a
मयाऽयं स्वकृतो दोषो याऽहं भीष्मरथात्तदा ॥ KK05-10-175-030c
प्रवृत्ते दारुणे युद्धे साल्वार्थं नापतं पुरा । KK05-10-175-031a
तस्येयं फलनिर्वृत्तिर्यदापन्नाऽस्मि मूढवत् ॥ KK05-10-175-031c
धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम् । KK05-10-175-032a
येनाहं वीर्यशुल्केन पण्यस्त्रीव प्रचोदिता ॥ KK05-10-175-032c
धिङ्मां धिक्साल्वराजानं धिग्धातारमथापि वा । KK05-10-175-033a
येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् ॥ KK05-10-175-033c
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः । KK05-10-175-034a
अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम ॥ KK05-10-175-034c
सा भीष्मे प्रतिकर्तव्यमहं पश्यामि साम्प्रतम् । KK05-10-175-035a
तपसा वा युधा वापि दुःखहेतुः स मे मतः ॥ KK05-10-175-035c
को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः । KK05-10-175-036a
एवं सा परिनिश्चित्य जगाम नगराद्बहिः ॥ KK05-10-175-036c
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् । KK05-10-175-037a
ततस्तामवसद्रात्रिं तापसैः परिवारिता ॥ KK05-10-175-037c
आचख्यौ च यथावृत्तं सर्वमात्मनि भारत । KK05-10-175-038a
विस्तरेण महाबाहो निखिलेन शुचिस्मिता । KK05-10-175-038c
हरणं च विसर्गं च साल्वेन च विसर्जनम् ॥ KK05-10-175-038e
ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः । KK05-10-175-039a
शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः ॥ KK05-10-175-039c
आर्तां तामाह स मुनिः शैखावत्यो महातपाः । KK05-10-175-040a
निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ॥ KK05-10-175-040c
एवं गते तु किं भद्रे शक्यं कर्तुं तपस्विभिः । KK05-10-175-041a
आश्रमस्थैर्महाभागे तपोयुक्तैर्महात्मभिः ॥ KK05-10-175-041c
सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः । KK05-10-175-042a
प्राव्राज्यमहमिच्छामि तपस्तप्स्यामि दुश्चरम् ॥ KK05-10-175-042c
मयैव यानि कर्माणि पूर्वदेहे तु मूढया । KK05-10-175-043a
कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् ॥ KK05-10-175-043c
नोत्सहे तु पुनर्गन्तुं स्वजनं प्रति तापसाः । KK05-10-175-044a
प्रत्याख्याता निरानन्दा साल्वेन च निराकृता ॥ KK05-10-175-044c
उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः । KK05-10-175-045a
युष्माभिर्देवसङ्काशैः कृपा भवतु वो मयि ॥ KK05-10-175-045c
स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः । KK05-10-175-046a
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ॥ ॥ KK05-10-175-046c
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः ॥
5-175-39 शैखावत्यः शिखावान् वह्निस्तत्साध्यानि श्रौतस्मार्तकर्माणि शैखावतानि तेषु साधुः शैखावत्यः । आरण्यके उपनिषदि गुरुः ब्रह्मविदित्यर्थः ॥ 5-175-46 दृष्टान्तो लौकिकोदाहरणम् । आगमो वेदः । हेतुर्युक्तिः ॥