अध्यायः 174

भीष्मेण विचित्रवीर्यस्य कन्यात्रयेण विवाहप्रयतने अम्बया स्वस्य साल्वकामत्वकथनपूर्वकं तत्समीपगमने भीष्मं प्रत्यनुज्ञायाचनम् ॥ 1 ॥ भीष्म उवाच KK05-10-174-001
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम् । KK05-10-174-001a
अभिगम्योपसङ्गृह्य दाशेयीमिदमब्रुवम् ॥ KK05-10-174-001c
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् । KK05-10-174-002a
विचित्रवीर्यस्य कृते वीर्यशुल्का हृता इति ॥ KK05-10-174-002c
ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप । KK05-10-174-003a
आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया ॥ KK05-10-174-003c
सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते । KK05-10-174-004a
उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता ॥ KK05-10-174-004c
भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः । KK05-10-174-005a
श्रुत्वा च वचनं धर्म्यं मह्यं कर्तुमिहार्हसि ॥ KK05-10-174-005c
मया साल्वपतिः पूर्वं मनसाऽभिवृतो वरः । KK05-10-174-006a
तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः ॥ KK05-10-174-006c
कथं मामन्यकामां त्वं राजधर्ममतीत्य वै । KK05-10-174-007a
वासयेथा गृहे भीष्म कौरवः सन्विशेषतः ॥ KK05-10-174-007c
एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ । KK05-10-174-008a
यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि ॥ KK05-10-174-008c
स मां प्रतीक्षते व्यक्तं साल्वराजो विशाम्पते । KK05-10-174-009a
तस्मान्मां त्वं कुरुश्रेष्ठ समनुज्ञातुमर्हसि ॥ KK05-10-174-009c
कृपां कुरु महाबाहो मयि धर्मभृतां वर । KK05-10-174-010a
त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम् ॥ ॥ KK05-10-174-010c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः ॥

5-174-1 उपसङ्गृह्य पादयोः पतित्वा ॥ 5-175-5 मह्यं मम ॥