अध्यायः 173

शिखण्डिनोऽसंहरणकारणप्रश्ने तत्कथनाय भीष्मेण दुर्योधनं प्रति अम्बोपाख्यानकथनारम्भः ॥ 1 ॥ तथा स्वयंवरे स्वेन अम्बादिकन्यात्रयहरणकथनम् ॥ 2 ॥ दुर्योधन उवाच KK05-10-173-001
किमर्थं भरतश्रेष्ठ नैव हन्याः शिखण्डिनम् । KK05-10-173-001a
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् ॥ KK05-10-173-001c
पूर्वमुक्त्वा महाबाहो पाञ्चालान्सह सोमकैः । KK05-10-173-002a
हनिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह ॥ KK05-10-173-002c
भीष्म उवाच KK05-10-173-003
शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः । KK05-10-173-003a
यदर्थं युधि सम्प्रेक्ष्य नाहं हन्यां शिखण्डिनम् ॥ KK05-10-173-003c
महाराजो मम पिता शान्तनुर्लोकविश्रुतः । KK05-10-173-004a
दिष्टान्तमाप धर्मात्मा समये भरतर्षभ ॥ KK05-10-173-004c
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् । KK05-10-173-005a
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम् ॥ KK05-10-173-005c
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः । KK05-10-173-006a
विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि ॥ KK05-10-173-006c
मयाऽभिषिक्तो राजेन्द्र यवीयानपि धर्मतः । KK05-10-173-007a
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत ॥ KK05-10-173-007c
तस्य दारक्रियां तात चिकीर्षुरहमप्युत । KK05-10-173-008a
अनुरूपादिव कुलादित्येव च मनो दधे ॥ KK05-10-173-008c
तथाऽश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे । KK05-10-173-009a
रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा । KK05-10-173-009c
अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामपि ॥ KK05-10-173-009e
राजानश्च समाहूताः पृथिव्यां भरतर्षभ । KK05-10-173-010a
अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा ॥ KK05-10-173-010c
अम्बालिका च राजेन्द्र राजकन्या यवीयसी । KK05-10-173-011a
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् ॥ KK05-10-173-011c
अपश्यं ता महाबाहो तिस्रः कन्याः स्वलङ्कृताः । KK05-10-173-012a
राज्ञश्चैव समाहूतान्पार्थिवान्पृथिवीपते ॥ KK05-10-173-012c
ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान् । KK05-10-173-013a
रथमारोपयाञ्चक्रे कन्यास्ता भरतर्षभ ॥ KK05-10-173-013c
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा । KK05-10-173-014a
अवोचं पार्थिवान्सर्वानहं तत्र समागतान् । KK05-10-173-014c
भीष्मः शान्तनवः कन्या हरतीति पुनःपुनः ॥ KK05-10-173-014e
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः । KK05-10-173-015a
प्रसह्य हि हराम्येष मिषतां वो नरर्षभाः ॥ KK05-10-173-015c
ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः । KK05-10-173-016a
योगो योग इति क्रुद्धाः सारथीनभ्यचोदयन् ॥ KK05-10-173-016c
ते रथैर्गसङ्काशैर्गजैश्च गजयोधिनः । KK05-10-173-017a
पुष्टैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः ॥ KK05-10-173-017c
ततस्ते मां महीपालाः सर्व एव विशाम्पते । KK05-10-173-018a
रथव्रातेन महता सर्वतः पर्यवारयन् ॥ KK05-10-173-018c
तानहं शरवर्षेण समन्तात्पर्यवारयम् । KK05-10-173-019a
सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् ॥ KK05-10-173-019c
अपातयं शरैर्दीप्तैः प्रहसन्भरतर्षभ । KK05-10-173-020a
तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान् ॥ KK05-10-173-020c
एकैकेन हि बाणेन भूमौ पातितवानहम् । KK05-10-173-021a
हयांस्तेषां गजांश्चैव सारथींश्चाप्यहं रणे ॥ KK05-10-173-021c
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम । KK05-10-173-022a
'प्रणिपेतुश्च सर्वे वै प्रशशंसुश्च पार्थिवाः ॥ KK05-10-173-022c
तत आदाय ताः कन्या नृपतींश्च विसृज्य तान् ।' KK05-10-173-023a
अथाऽहं हास्तिनपुरमायां जित्वा महीक्षितः ॥ KK05-10-173-023c
ततोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत । KK05-10-173-024a
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् ॥ ॥ KK05-10-173-024c

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः ॥

5-173-4 दिष्टान्तं मरणम् ॥