अध्यायः 172
भीष्मेण दुर्योधनं प्रति शिखण्डिनः स्त्रीपूर्वत्वमभिधाय तेन सह युद्धाकरणप्रतिज्ञा ॥ 1 ॥
भीष्म उवाच KK05-09-172-001
रोचमानो महाराज पाण्डवानां महारथः । KK05-09-172-001a
योत्स्यतेऽमरवत्सङ्ख्ये परसैन्येषु भारत ॥ KK05-09-172-001c
पुरुजित्कुन्तिभोजश्च महेष्वासो महाबलः । KK05-09-172-002a
मातुलो भीमसेनस्य स च मेऽतिरथो मतः ॥ KK05-09-172-002c
एष वीरो महेष्वासः कृती च निपुणश्च ह । KK05-09-172-003a
चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः ॥ KK05-09-172-003c
स योत्स्यति हि विक्रम्य मघवानिव दानवैः । KK05-09-172-004a
योधा ये चास्य विख्याताः सर्वे युद्धविशारदाः ॥ KK05-09-172-004c
भागिनेयकृते वीरः स करिष्यति सङ्गरे । KK05-09-172-005a
सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते रतः ॥ KK05-09-172-005c
भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः । KK05-09-172-006a
मतो मे बहुमायावी रथयूथपयूथपः ॥ KK05-09-172-006c
योत्स्यते समरे तात मायावी समरप्रियः । KK05-09-172-007a
ये चास्य राक्षसा वीराः सचिवा वशवर्तिनः ॥ KK05-09-172-007c
एते चान्ये च बहवो नानाजनपदेश्वराः । KK05-09-172-008a
समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः ॥ KK05-09-172-008c
एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः । KK05-09-172-009a
रथाश्चातिरथाश्चैव ये चान्येऽर्धरथा नृप ॥ KK05-09-172-009c
नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप । KK05-09-172-010a
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना ॥ KK05-09-172-010c
तैरहं समरे वीर मायाविद्भिर्जयैषिभिः । KK05-09-172-011a
योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे ॥ KK05-09-172-011c
वासुदेवं च पार्थं च चक्रगाण्डीवधारिणौ । KK05-09-172-012a
सन्ध्यागताविवार्केन्दू समेष्येते रथोत्तमौ ॥ KK05-09-172-012c
यं चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः । KK05-09-172-013a
सह सैन्यानहं तांश्च प्रतीयां रणमूर्धनि ॥ KK05-09-172-013c
एते रथाश्चातिरथाश्च तुभ्यं यथाप्रधानं नृप कीर्तिता मया । KK05-09-172-014a
तथा परे येऽर्धरथाश्च केचित्तथैव तेषामपि कौरवेन्द्र ॥ KK05-09-172-014c
अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः । KK05-09-172-015a
सर्वांस्तान्वारयिष्यामि यावद्द्रक्ष्यामि भारत ॥ KK05-09-172-015c
पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् । KK05-09-172-016a
उद्यतेषुमथो दृष्ट्वा प्रतियुध्यन्तमाहवे ॥ KK05-09-172-016c
लोकस्तं वेद यदहं पितुः प्रियचिकीर्षया । KK05-09-172-017a
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्यव्रते स्थितः ॥ KK05-09-172-017c
चित्राङ्गदं कौरवाणामाधिपत्येऽभ्यषेचयम् । KK05-09-172-018a
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम् ॥ KK05-09-172-018c
देवव्रतत्वं विज्ञाप्य पृथिवीं सर्वराजसु । KK05-09-172-019a
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कदाचन ॥ KK05-09-172-019c
स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः । KK05-09-172-020a
कन्या भूत्वा पुमाञ्जातो न योत्स्ये तेन भारत ॥ KK05-09-172-020c
सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ । KK05-09-172-021a
यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप ॥ ॥ KK05-09-172-021c
इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसङ्ख्यानपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥ ॥ समाप्तं च रथातिरथसङ्ख्यानपर्व ॥
5-172-19 देवव्रतत्वं ब्रह्मचारिव्रतवत्त्वम् ॥