अध्यायः 171
भीष्मेण पाण्डवसेनायां रथातिरथसङ्ख्यानम् ॥ 1 ॥
भीष्म उवाच KK05-09-171-001
पाञ्चालराजस्य सुतो राजन्परपुरञ्जयः । KK05-09-171-001a
शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत ॥ KK05-09-171-001c
एष योत्स्यति सङ्ग्रामे नाशयन्पूर्वसंस्थितम् । KK05-09-171-002a
परं यशो विप्रथयंस्तव सेनासु भारत ॥ KK05-09-171-002c
एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः । KK05-09-171-003a
तेनासौ रथवंशेन महत्कर्म करिष्यति ॥ KK05-09-171-003c
धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत । KK05-09-171-004a
मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः ॥ KK05-09-171-004c
एष योत्स्यति सङ्ग्रामे सूदयन्वै परान्रणे । KK05-09-171-005a
भगवानिव सङ्क्रुद्धः पिनाकी युगसङ्क्षये ॥ KK05-09-171-005c
एतस्य तद्रथानीकं कथयन्ति रणप्रियाः । KK05-09-171-006a
बहुत्वात्सागरप्रख्यं देवानामिव संयुगे ॥ KK05-09-171-006c
क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप । KK05-09-171-007a
धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः ॥ KK05-09-171-007c
शिशुपालसुतो वीरश्चेदिराजो महारथः । KK05-09-171-008a
धृष्टकेतुर्महेष्वासः सम्बन्धी पाण्डवस्य ह ॥ KK05-09-171-008c
एष चेदिपतिः शूरः सह पुत्रेण भारत । KK05-09-171-009a
महारथानां सुकरं महत्कर्म करिष्यति ॥ KK05-09-171-009c
क्षत्रधर्मरतो मह्यं मतः परपुरञ्जयः । KK05-09-171-010a
क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः ॥ KK05-09-171-010c
जयन्तश्चामितौजाश्च सत्यजिच्च महारथः । KK05-09-171-011a
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः ॥ KK05-09-171-011c
योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः । KK05-09-171-012a
अजो भोजश्च विक्रान्तौ पाण्डवार्थे महारथौ ॥ KK05-09-171-012c
योत्स्येते बलिनौ शूरौ परं शक्त्या यतिष्यतः । KK05-09-171-013a
शीघ्रास्त्राश्चित्रयोद्धारः कृतिनो दृढविक्रमाः ॥ KK05-09-171-013c
केकयाः पञ्च राजेन्द्र भ्रातरो दृढविक्रमाः । KK05-09-171-014a
सर्वे चैव रथोदाराः सर्वे लोहितकध्वजाः ॥ KK05-09-171-014c
काशिकः सुकुमारश्च नीलो यश्चापरो नृप । KK05-09-171-015a
सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः ॥ KK05-09-171-015c
सर्व एव रथोदाराः सर्वे चाहवलक्षणाः । KK05-09-171-016a
सर्वास्त्रविदुषः सर्वे महात्मानो मता मम ॥ KK05-09-171-016c
वार्धक्षेमिर्महाराज मतो मम महारथः । KK05-09-171-017a
चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः ॥ KK05-09-171-017c
स हि सङ्ग्रामशोभी च भक्तश्चापि किरीटिनः । KK05-09-171-018a
चेकितानः सत्यधृतिः पाण्डवानां महारथौ । KK05-09-171-018c
द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम ॥ KK05-09-171-018e
व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत । KK05-09-171-019a
मतौ मम रथोदारौ पाण्डवानां न संशयः ॥ KK05-09-171-019c
सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः । KK05-09-171-020a
यः समो वासुदेवेन भीमसेनेन वा विभो ॥ KK05-09-171-020c
स योत्स्यति हि विक्रम्य समरे तव सैनिकैः । KK05-09-171-021a
मां च द्रोणं कृपं चैव यथा सम्मन्यते भवान् ॥ KK05-09-171-021c
तथा स समरश्लाघी मन्तव्यो रथसत्तमः । KK05-09-171-022a
काश्यः परमशीघ्रास्त्रः श्लाघनीयो नरोत्तमः ॥ KK05-09-171-022c
रथ एकगुणो मह्यं ज्ञेयः परपुरञ्जयः । KK05-09-171-023a
अयं च युधि विक्रान्तो मन्तव्योष्टगुणो रथः ॥ KK05-09-171-023c
सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा । KK05-09-171-024a
गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन सम्मितः ॥ KK05-09-171-024c
पाण्डवानां यशस्कामः परं कर्म करिष्यति । KK05-09-171-025a
अनुरक्ताश्च शूरश्च रथोऽयमपरो महान् ॥ KK05-09-171-025c
पाण्ड्यराजो महावीर्यः पाण्डवानां धुरन्धरः । KK05-09-171-026a
दृढधन्वा महेष्वासः पाण्डवानां महारथः ॥ KK05-09-171-026c
श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः । KK05-09-171-027a
उभावेतावतिरथौ मतौ परपुरञ्जयौ ॥ ॥ KK05-09-171-027c
इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसङ्ख्यानपर्वणि एकसप्तत्यधिकशततमोऽध्यायः ॥
5-171-2 नाशयन् पूर्वसंस्थितं प्राचीनं स्त्रीत्वेनावस्थानम् अदर्शयन् । पौरुषं दर्शयन्नित्यर्थः ॥ 5-171-13 शक्त्या क्षयिष्यत इति ड. झ. पाठः । क्षयिष्यतः सामर्थ्यं दर्शयिष्यतः । ऐश्वर्यार्थोयं क्षयतिः ॥ 5-171-16 विदुषः विद्वांसः ॥