अध्यायः 170
भीष्मेण पाण्डवसेनायां रथातिरथसङ्ख्यानम् ॥ 1 ॥
भीष्ण उवाच । 001
द्रौपदेया महाराज सर्वे पञ्च महारथाः । 001a
वैराटिरुत्तरश्चैव रथोदारो मतो मम ॥ 001c
अभिमन्युर्महाबाहू रथयूथपयूथपः । 002a
समः पार्थेन समरे वासुदेवेन चारिहा ॥ 002c
लघ्वस्त्रश्चित्रयोधी च मनस्वी च दृढव्रतः । 003a
संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति ॥ 003c
सात्यकिर्माधवः शूरो रथयूथपयूथपः । 004a
एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः ॥ 004c
उत्तमौजास्तथा राजन्रथोदारो मतो मम । 005a
युधामन्युश्च विक्रान्तो रथोदारो मतो मम ॥ 005c
एतेषां बहुसाहस्रा रथा नागा हयास्तथा । 006a
योत्स्यन्ते ते तनूस्त्यक्त्वा कुन्तीपुत्रप्रियेप्सया ॥ 006c
पाण्डवैः सह राजेन्द्र तव सेनासु भारत । 007a
अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् ॥ 007c
अजेयौ समरे वृद्धौ विराटद्रुपदौ तथा । 008a
महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ ॥ 008c
वयोवृद्धावपि हि तौ क्षत्रधर्मपरायणौ । 009a
यतिष्येते परं शक्त्या स्थितौ वीरगते पथि ॥ 009c
सम्बन्धिकेन राजेन्द्र तौ तु वीर्यबलान्वयात् । 010a
आर्यवृत्तौ महेष्वासौ स्नेहवीर्यसितावुभौ ॥ 010c
कारणं प्राप्य तु नराः सर्व एव महाभुजाः । 011a
शूरा वा कातरा वापि भवन्ति कुरुपुङ्गव ॥ 011c
एकायनगतावेतौ पार्थिवौ दृढधन्विनौ । 012a
प्राणांस्त्यक्त्वा परं शक्त्या घट्टितारौ परन्तप ॥ 012c
पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ । 013a
सम्बन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः ॥ 013c
लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत । 014a
प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः ॥ ॥ 014c
इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसङ्ख्यानपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥
5-170-9 वीरगते वीरैरनुसृते ॥ 5-170-10 सितौ बद्धौ ॥