अध्यायः 169
भीष्मेण पाण्डवसेनायां रथातिरथसङ्ख्यानम् ॥ 1 ॥
भीष्म उवाच । 001
एते रथास्तवाख्यातास्तथैवातिरथा नृप । 001a
ये चाप्यर्धरथा राजन्पाण्डवानामतः श्रृणु ॥ 001c
यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप । 002a
रथसङ्ख्यां शृणुष्व त्वं सहैभिर्वसुधाधिपैः ॥ 002c
स्वयं राजा रथोदारः पाण्डवः कुन्तनन्दनः । 003a
अग्निवत्समरे तात चरिष्यति न संशयः ॥ 003c
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसम्मितः । 004a
न तस्यास्ति समो युद्धे गदया सायकैरपि ॥ 004c
नागायुतबलो मानी तेजसा न स मानुषः । 005a
माद्रीपुत्रौ च रथिनौ द्वावेव पुरुषर्षभौ ॥ 005c
अश्विनाविव रूपेण तेजसा च समन्वितौ । 006a
एते चमूमुखगताः स्मरन्तः क्लेशमुत्तमम् ॥ 006c
रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः । 007a
सर्व एव महात्मानः सालस्तम्भा इवोद्गताः ॥ 007c
प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः । 008a
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः ॥ 008c
चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः । 009a
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः ॥ 009c
जवे प्रहारे सम्मर्दे सर्व एवातिमानुषाः । 010a
सर्वैर्जिता महीपाला दिग्जये भरतर्षभ ॥ 010c
न चैषां पुरुषाः केचिदायुधानि गदाः शरान् । 011a
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव ॥ 011c
उद्यन्तुं वा गदा गुर्वीः शरान्वा क्षेप्तुमाहवे । 012a
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे ॥ 012c
बालैरपि भवन्तस्तैः सर्व एव विशेषिताः । 013a
एतत्सैन्यं समासाद्य सर्व एव बलोत्कटाः ॥ 013c
विध्वंसयिष्यन्ति रणे मा स्म तैः सह सङ्गमः । 014a
एकैकशस्त सम्मर्दे हन्युः सर्वान्महीक्षितः ॥ 014c
प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् । 015a
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः ॥ 015c
ते स्मरन्तश्च सङ्ग्रामे चरिष्यन्ति च रुद्रवत् । 016a
लोहिताक्षो गुडाकेशो नारायणसहायवान् ॥ 016c
उभयोः सेनयोर्वीरो रथो नास्तीति तादृशः । 017a
न हि देवेषु वा पूर्वं मनुष्येषूरगेषु च ॥ 017c
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु । 018a
भूतोथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः ॥ 018c
समायुक्तो महाराज रथः पार्थस्य धीमतः । 019a
वासुदेवश्च संयन्ता योद्धा चैव धनञ्जयः ॥ 019c
गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः । 020a
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी ॥ 020c
अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एवच । 021a
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः ॥ 021c
वज्रादीनि च मुख्यानि नानाप्रहरणानि च । 022a
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ॥ 022c
हतान्येकरथेनाजौ कस्तस्य सदृशो रथः । 023a
एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः ॥ 023c
तव सेनां महाबाहुः स्वां चैव परिपालयन् । 024a
अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम् ॥ 024c
न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि । 025a
य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ॥ 025c
जीमूत इव घर्मान्ते महावातसमीरितः । 026a
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् । 026c
तरुणश्च कृती चैव जीर्णावावामुभावपि ॥ 026e
वैशम्पायन उवाच । 027
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा । 027a
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ॥ 027c
मनोभिः सह संवेगैः संस्मृत्य च पुरातनम् । 028a
सामर्थ्यं पाण्डवेयानां यथा प्रत्यक्षदर्शनात् ॥ ॥ 028c
इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसङ्ख्यानपर्वणि एकोनसप्तत्यधिकशततमोऽध्यायः ॥
5-169-12 भोज्ये कौटिल्ये मर्मपीडने इतियावत् । भुज कौटिल्येऽस्य रूपम् । पांसुविकर्षणे पांसुषु विकर्षणे भूमौ मुष्टियुद्धे इत्यर्थः ॥ 5-169-24 प्रत्युदियां युद्धे सम्मुखः स्याम् ॥