अध्यायः 168

भीष्मेण कर्णस्यार्धरथत्वे कथिते तेन भीष्मोपालम्भनपूर्वकं तज्जीवितावधि स्वेन युद्धाकरणप्रतिज्ञा ॥ 1 ॥ भीष्मेण कर्णगर्हणे दुर्योधनेन भीष्मम्प्रति सान्त्वनपूर्वकं परसेनायां रथातिरथसङ्ख्यानप्रार्थना ॥ 2 ॥ भीष्म उवाच । 001
अचलो वृषकश्चैव सहितौ भ्रातरावुभौ । 001a
रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः ॥ 001c
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ । 002a
गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ॥ 002c
सखा ते दयितो नित्यं य एष रणकर्कशः । 003a
उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह ॥ 003c
परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव । 004a
मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ॥ 004c
एष नैव रथः पूर्णो न चाप्यतिरथो रणे । 005a
वियुक्तः कवचेनैष सहजेन विचेतनः ॥ 005c
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी । 006a
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् ॥ 006c
करणानां वियोगाच्च तेन मेऽर्धरथो मतः । 007a
नैष फाल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते ॥ 007c
ततोऽब्रवीत्पुनर्द्रोणः सर्वशस्त्रभृतां वरः । 008a
एवमेतद्यथाऽऽत्थ त्वं न मिथ्यास्ति कदाचन ॥ 008c
रणेरणेऽभिमानी च विमुखश्चापि दृश्यते । 009a
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ॥ 009c
सञ्जय उवाच । 010
एतच्छ्रुत्वा तु राधेयः क्रोधादुल्फाल्य लोचने । 010a
उवाच भीष्मं राधेयस्तुदन्वाग्भिः प्रतोदवत् ॥ 010c
पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि । 011a
अनागसं सदा द्वेषादेवमेव पदेपदे ॥ 011c
मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै । 012a
त्वं तुं मां मान्यसे मन्दं यथा कापुरुषं तथा ॥ 012c
भवानर्धरथो मह्यं मतो वै नात्र संशयः । 013a
सर्वस्य जगतश्चैव गाङ्गेयो न मृषा वदेत् ॥ 013c
कुरूणामहितो नित्यं न च राजाऽवबुध्यते । 014a
को हि नाम समानेषु राजसूदारकर्मसु ॥ 014c
तेजोवधमिमं कुर्याद्विभेदयिषुराहवे । 015a
यथा त्वं गुणविद्वेषादपरागं चिकीर्षसि ॥ 015c
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः । 016a
महारथत्वं सङ्ख्यातुं शक्यं क्षत्रस्य कौरव ॥ 016c
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः । 017a
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाऽधिकाः ॥ 017c
यथेच्छकं स्वयं ब्रूया रथानतिरथांस्तथा । 018a
कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् ॥ 018c
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम् । 019a
त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव ॥ 019c
भिन्ना हि सेना नृपते दुःसन्धेया भवत्युत । 020a
मौला हि पुरुषव्याघ्र किमु नानासमुत्थिताः ॥ 020c
एषां द्वैधं समुत्पन्नं योधानां युधि भारत । 021a
तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः ॥ 021c
रथानां क्वच विज्ञानं क्वच भीष्मोऽल्पचेतनः । 022a
अहमावारयिष्यामि पाण्डवानामनीकिनीम् ॥ 022c
आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश । 023a
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ॥ 023c
क्वच युद्धं विमर्दो वा मन्त्रे सुव्याहृतानि च । 024a
क्वचभीष्मो गतवयामन्दात्मा कालचोदितः ॥ 024c
एकाकी स्पर्धते नित्यं सर्वेण रमता सह । 025a
न चान्यं पुरुषं कञ्चिन्मन्यते मोघदर्शनः ॥ 025c
श्रोतव्यं खलु वृद्धानमिति शास्त्रनिदर्शनम् । 026a
न त्वेव ह्यतिवृद्धानां पुनर्बालाहि ते मताः ॥ 026c
अहमेको हनिष्यामि पाण्डवानामनीकिनीम् । 027a
सुयुद्धे राज्यशार्दूल यशो भीष्मं गमिष्यति ॥ 027c
कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप । 028a
सेनापतौ यशो गन्ता न तु योधान्कथञ्चन ॥ 028c
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन । 029a
हते भीष्मे तु योद्धाऽस्मि सर्वैरेव महारथैः ॥ 029c
भीष्म उवाच । 030
समुद्यतोयं भारो मे सुमहान्सागरोपमः । 030a
धार्तराष्ट्रस्य सङ्ग्रामे वर्षपूगाभिचिन्तितः ॥ 030c
तस्मिन्नभ्यागते काले प्रतप्ते रोमहर्षणे । 031a
मिथो भेदो न मे कार्यस्तेन जीवसि सूतज ॥ 031c
न ह्यहं त्वद्य विक्रम्य स्थविरोऽपि शिशोस्तव । 032a
युद्धश्रद्धामहं छिन्द्यां जीवितस्य च सूतज ॥ 032c
जामदग्न्येन रामेण महास्त्राणि विमुञ्चता । 033a
न मे व्यथा कृता काचित्त्वं तु मे कि करिष्यसि ॥ 033c
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् । 034a
वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन ॥ 034c
समेतं पार्थिवं क्षत्रं काशिराजस्वयंवरे । 035a
निर्जित्यैकरथेनैव याः कन्यास्तरसाहृताः ॥ 035c
ईदृशानां सहस्राणि विशिष्टानामथो पुनः । 036a
मयैकेन निरस्तानि ससैन्यानि रणाजिरे ॥ 036c
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान् । 037a
उपस्थितो विनाशाय यतस्व पुरुषो भव ॥ 037c
युध्यस्व समरे पार्थं येन विस्पर्धसे सह । 038a
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ॥ 038c
तमुवाच ततो राजा धार्तराष्ट्रः प्रतापवान् । 039a
मां समीक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ॥ 039c
चिन्त्यतामिदमेकाग्रं मम निःश्रेयसं परम् । 040a
उभावपि भवन्तौ मे महत्कर्म करिष्यतः ॥ 040c
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् । 041a
ये चैवातिरथास्तत्र ये चैव रथयूथपाः ॥ 041c
बलाबलममित्राणां श्रोतुमिच्छामि कौरव । 042a
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति ॥ ॥ 042c

इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसङ्ख्यानपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥

5-168-5 विचेतनः मूर्खः ॥ 5-168-6 घृणी निन्दकः ॥ 5-168-7 करणानां सहजकवचादीनाम् ॥ 5-168-13 भवान् कर्णोऽर्धरथो मह्यं मम मत इति गाङ्गेयो वदेत्तन्न मृषेति सर्वस्य जगतो मत इति सम्बन्धः । त्वद्वाक्यात्सर्वेपि मामवमंस्यन्त इति भावः । गाङ्गेय न मृषावदे इति खo घo पाठः ॥ 5-168-15 अपरागं द्वेषम् ॥ 5-168-18 प्रकुरुते प्रकारं भेदं कुरुते । प्रकारस्तुल्यभेदयोरिति विश्वः ॥ 5-168-20 मौलाः पारम्पर्यागताः तेपि भिन्नाः सन्तो दुःसधेया भवन्ति किमु नाना पृथक्भूताः सन्त एककार्यार्थं समुत्थिता इति ॥