अध्यायः 167
भीष्मेण दुर्योधनसैन्यस्य रथातिरथसङ्ख्यानम् ॥ 1 ॥
भीष्म उवाच । 001
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप । 001a
प्रयुज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ॥ 001c
एतस्य सेना दुर्धर्षा समरे प्रतियायिनः । 002a
विकृतायुधभूयिष्ठा वायुवेगसमा जवे ॥ 002c
द्रोणपुत्रो महेष्वासः सर्वानेवातिधन्विनः । 003a
समरे चित्रयोधी च दृढास्त्रश्च महारथः ॥ 003c
एतस्य हि महाराज यथा गाण्डीवधन्वनः । 004a
शरासनविनिर्मुक्ताः संसक्ता यान्ति सायकाः ॥ 004c
नैष शक्यो मया वीरः सङ्ख्यातुं रथसत्तमः । 005a
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महारथः ॥ 005c
क्रोधस्तेजश्च तपसा सम्भृतोश्रमवासिनाम् । 006a
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ॥ 006c
दोषस्त्वस्य महानेको येनैव भरतर्षभ । 007a
न मे रथो नातिरथो मतः पार्थिवसत्तम ॥ 007a
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः । 008a
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ॥ 008c
हन्यादेकरथेनैव देवानामपि वाहिनीम् । 009a
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ॥ 009c
असङ्ख्येयगुणो वीरः प्रहन्ता दारुणद्युतिः । 010a
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ॥ 010c
युगान्ताग्निसमः क्रोधात्सिंहग्रीवो महाद्युतिः । 011a
एष भारत युद्धस्य पृष्ठं संशमयिष्यति ॥ 011c
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः । 012a
रणे कर्म महत्कर्ता अत्र मे नास्ति संशयः ॥ 012c
अस्त्रवेगानिलोद्भूतः सेनाकक्षेन्धनोत्थितः । 013a
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति रणे धृतः ॥ 013c
रथयूथपयूथानां यूथपोऽय नरर्षभः । 014a
भरद्वाजात्मजः कर्ता कर्म तीव्रं हितं तव ॥ 014c
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः । 015a
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः ॥ 015c
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् । 016a
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ॥ 016c
श्लाघते यं सदा वीर पार्थस्य गुणविस्तरैः । 017a
पुत्रादभ्यधिकं चैनं भारद्वाजोऽनुपश्यति ॥ 017c
हन्यादेकरथेनैव देवगन्धर्वमानुषान् । 018a
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ॥ 018c
पौरवो राजशार्दूलस्तव राजन्महारथः । 019a
मतो मम रथोदारः परवीररथारुजः ॥ 019c
स्वेन सैन्येन महता प्रतपञ्शत्रुवाहिनीम् । 020a
प्रधक्ष्यति स पाञ्चालान्कक्षमग्निगतिर्यथा ॥ 020c
सत्यश्रवा रथस्त्वेको राजपुत्रो बृहद्बलः । 021a
तव राजन्रिपुबले कालवत्प्रचरिष्यति ॥ 021c
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः । 022a
विचरिष्यन्ति सङ्ग्रामे निघ्नन्तः शास्त्रवांस्तव ॥ 022c
वृषसेनो रथस्तेऽग्र्यः कर्णपुत्रो महारथः । 023a
प्रधक्ष्यति रिपूणां ते बलं तु बलिनां वरः ॥ 023a
जलसन्धो महातेजा राजन्रथवरस्तव । 023a
त्यक्ष्यते समरे प्राणान्माधवः परवीरहा ॥ 024a
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः । 024c
रथेन वा माहबाहुः क्षपयञ्शत्रुवाहिनीम् ॥ 025c
रथ एष महाराज मतो मे राजसत्तम । 026a
त्वदर्थे त्यक्ष्यते प्राणान्सहसैन्यो महारणे ॥ 026c
एष विक्रान्तयोधी च चित्रयोधी च सङ्गरे । 027a
वीतभीश्चापि ते राजञ्शत्रुभिः सह योत्स्यते ॥ 027c
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तनः । 028a
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ॥ 028c
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन । 029a
यथा सततगो राजन्स हि हन्यात्परान्रणे ॥ 029c
सेनापतिर्महाराज सत्यवांस्ते महारथः । 030a
रणेष्वद्भुतकर्मा च रथी पररथारुजः ॥ 030c
एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन । 031a
उत्स्मयन्नुत्पतत्येष परान्रथपथे स्थितान् ॥ 031c
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् । 032a
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ॥ 032c
अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा महारथः । 033a
हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ॥ 033c
एष राक्षससैन्यानं सर्वेषां रथसत्तमः । 034a
मायावी दृढवैरश्च समरे विचरिष्यति ॥ 034c
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् । 035a
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ॥ 035c
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः । 036a
दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ॥ 036c
ततः सखायं गान्धारे मानयन्पाकशासनम् । 037a
अकरोत्संविदं तेन पाण्डवेन महात्मना ॥ 037c
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः । 038a
ऐरावतगतो राजा देवानामिव वासवः ॥ ॥ 038c
इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसङ्ख्यानपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥
5-167-6 आश्रमवासिनामृषीणां क्रोधस्तेजश्च तयोः समुदायरूप इत्यर्थः ॥ 5-167-11 पृष्ठं शेषम् ॥ 5-167-31 उत्स्मयन् हृष्यन् ॥ 5-167-37 संविदं मैत्रीम् ॥