अध्यायः 166
भीष्मेण दुर्योधनसेनायां रथातिरथसङ्ख्यानम् ॥ 1 ॥
भीष्म उवाच । 001
सुदक्षिणस्तु काम्भोजो रथ एकगुणो मतः । 001a
तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः ॥ 001c
एतस्य रथसिंहस्य तवार्थे राजसत्तम । 002a
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि ॥ 002c
एतस्य रथवंशे हि तिग्मवेगप्रहारिणः । 003a
काम्भोजानां महाराज शलभानामिवायतिः ॥ 003c
नीलो माहिष्यतीवासी नीलवर्मा रथस्तव । 004a
रथवंशेन कदनं शत्रूणां वै करिष्यति ॥ 004c
कृतवैरः पुरा चैव सहदेवेन मारिष । 005a
योत्स्यते सततं राजंस्तवार्थे कुरुनन्दन ॥ 005c
विन्दानुविन्दावावन्त्यौ सम्मतौ रथसत्तमौ । 006a
कृतिनौ समरे तात दृढवीर्यपराक्रमौ ॥ 006c
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः । 007a
गदाप्रासासिनाराचैस्तोमरैश्च करच्यतैः ॥ 007c
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ । 008a
यूथमध्ये महाराज विचरन्तौ कृतान्तवत् ॥ 008c
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम । 009a
कृतवैराश्च पार्थैस्ते विराटनगरे तदा ॥ 009c
मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् । 010a
गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनी ॥ 010c
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् । 011a
एते योत्स्यन्ति सङ्ग्रामे संस्मरन्तः पुराकृतम्॥ 011c
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह । 012a
दिशो विजयता राजञ्श्वेतवाहेन भारत ॥ 012c
ते हनिष्यन्ति पार्थानां तानासाद्य महारथान् । 013a
वरान्वरान्महेष्वासान्क्षत्रियाणां धुरन्धरान् ॥ 013c
लक्ष्मणस्तव पुत्रश्च तथा दुःशासनस्य च । 014a
उभौ तौ पुरुषव्याघ्रौ सङ्ग्रामेष्वपलायिनौ ॥ 014c
तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ । 015a
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः ॥ 015c
रथौ तौ कुरुशार्दूल मतौ मे रथसत्तमौ । 016a
क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः ॥ 016c
दण्डधारो महाराज रथ एको नरर्षभ । 017a
योत्स्यते तव सङ्ग्रामे स्वेन सैन्येन पालितः ॥ 017c
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः । 018a
रथो मम मतस्तात महावेगपराक्रमः ॥ 018c
एष योत्स्यति सङ्ग्रामे स्वान्बन्धून्सम्प्रहर्षयन् । 019a
उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः ॥ 019c
कृपः शारद्वतो रजन्रथयूथपयूथपः । 020a
प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव ॥ 020c
गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः । 021a
कार्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् ॥ 021c
एष सेनाः सुबहुला विविधायुधकार्मुकाः । 022a
अग्निवत्समरे तात चरिष्यति विनिर्दहन् ॥ ॥ 022c
इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसङ्ख्यानपर्वणि षट्षट्यधिकशततमोऽध्यायः ॥
5-166-10 समुद्धततरङ्गिणीं उच्छ्रितपताकां सेनां उच्छ्रिततरङ्गवतीं गङ्गां च ॥