अध्यायः 165

भीष्मेण दुर्योधनाय स्वसामर्थ्यकथनपूर्वकमभयप्रदानम् ॥ 1 ॥ तथा दुर्योधनप्रश्नेन स्वसेनायां रथातिरथसङ्ख्यानम् ॥ 2 ॥ धृतराष्ट्र उवाच । 001
प्रतिज्ञाते फाल्गुनेन वधे भीष्मस्य संयुगे । 001a
किमकुर्वत मे मन्दाः पुत्रा दुर्योधनादयः ॥ 001c
हतमेव हि पश्यामि गाङ्गेयं पितरं रणे । 002a
वासुदेवसहायेन पार्थेन दृढधन्वना ॥ 002c
स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम् । 003a
किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः ॥ 003c
सैनापत्यं च सम्प्राप्य कौरवाणां धुरन्धरः । 004a
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः ॥ 004c
वैशम्पायन उवाच । 005
ततस्तत्सञ्जयस्तस्मै सर्वमेव न्यवेदयत् । 005a
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा ॥ 005c
सञ्जय उवाच । 006
सैनापत्यमनुप्राप्य भीष्मः शान्तनवो नृप । 006a
दुर्योधनमुवाचेदं वचनं हर्षयन्निव ॥ 006c
नमस्कृत्य कुमाराय सेनान्ये शक्तिपाणये । 007a
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः ॥ 007c
सेनाकर्मण्यिज्ञोऽस्मि व्यूहेषु विविधेषु च । 008a
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा ॥ 008c
यात्रायाने च युद्धे च तथा प्रशमनेषु च । 009a
भृशं वेद महाराज यथा वेद बृहस्पतिः ॥ 009c
व्यूहानां च समारम्भान्दैवगान्धर्वमानुषान् । 010a
तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः ॥ 010c
सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् । 011a
यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः ॥ 011c
दुर्योधन उवाच । 012
विद्यते मे न गाङ्गेय भयं देवासुरेष्वपि । 012a
समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते ॥ 012c
किं पुनस्त्वयि दुर्धर्षे सैनापत्ये व्यवस्थिते । 013a
द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि ॥ 013c
भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम । ||| 014a
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् ॥ 014c
रथसङ्ख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा । 015a
तथैवातिरथानां च वेत्तुमिच्छामि कौरव ॥ 015c
तपितामहो हि कुशलः परेषामात्मनस्तथा । 016a
तश्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः ॥ 016c
भीष्म उवाच । 017
तगान्धारे श्रृणु राजेन्द्र रथसङ्ख्यां स्वके बले । 017a
तये रथाः पृथिवीपाल तथैवातिरथाश्च ये ॥ 017c
तबहूनीह सहस्राणि प्रयुतान्यर्बुदानि च । 018a
तरथानां तव सेनायां यथामुख्यं तु मे श्रुणु ॥ 018c
तभवानग्रे रथोदारः सह सर्वैः सहोदरैः । 019a
तदुःशासनप्रभृतिभिर्भ्रातृभिः शतसम्मितैः ॥ 019c
तसर्वे कृतप्रहरणाश्छेदभेदविशारदाः । 020a
तरथोपस्थे गजस्कन्धे गदाप्रासासिचर्मणि ॥ 020c
तसंयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः । 021a
तइष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥ 021c
तएते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् । 022a
तकृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः ॥ 022c
ततथाऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव । 023a
तशत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ॥ 023c
तन त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते । 024a
तकृतवर्मा त्वयिरथो भोजः शस्त्रभृतां वरः ॥ 024c
तअर्थसिद्धिं तव रणे करिष्यति न संशयः । 025a
शस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः ॥ 025c
हनिष्यति चमूं तेषां महेन्द्रो दानवानिव । 026a
मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः ॥ 026c
स्पर्धते वासुदेवेन नित्यं यो वै रणेरणे । 027a
भागिनेयान्निजांस्त्यक्त्वा शल्यस्तेऽतिरथो मतः । 027c
एष योत्स्यति सङ्ग्रामे पाण्डवांश्च महारथान् ॥ 027e
सागरोर्मिसमैर्बाणैः प्लावयन्निव शातवान् । 028a
भूरिश्रवाः कृतास्रश्च तव चापि हितः सुहृत् ॥ 028c
सौमदत्तिर्महेष्वासो रथयूथपयूथपः । 029a
वलक्षयममित्राणां सुमहान्तं करिष्यति ॥ 029c
सिन्धुराजो महाराज मतो मे द्विगुणो रथः । 030a
योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः ॥ 030c
द्रौपदीहरणे राजन्परिक्लिष्टश्च पाण्डवैः । 031a
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा ॥ 031c
एतेन हि तदा राजंस्तप आस्थाय दारुणम् । 032a
सुदुर्लभो वरो लब्धः पाण्डवान्योद्ध्रुमाहवे ॥ 032c
स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे । 033a
योत्स्यते पाण्डवैस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥ ॥ 033c

इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसङ्ख्यानपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥

5-165-8 भृतान् वेतनभक्षकान् । अभृतान्मैत्र्या समागतान् ॥ 5-165-9 यात्रार्थं याने प्रयाणे प्रशमनेष्ठ परास्त्राष्णं प्रतीकारेषु विषयेषु वेद वेञ्चि ॥