अध्यायः 164

युधिष्ठिरेण युद्धाय सेनानिर्यातनम् ॥ 1 ॥ धृष्टद्युम्नेन भीमादीनां दुर्योधनादिभिः सह द्वन्द्वयुद्धाय समादेशः ॥ 2 ॥ सञ्जय उवाच । 001a उलूकस्य वृत्तः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः । 001a सेनां नियापयामास धृष्टद्युम्नपुरोगमाम् ॥ 001a पदातिनीं नागवतीं रथिनीमश्वबृन्दिनीम् । 001a चतुर्विधबलां भीमामकम्पां पृथिवीमिव ॥ 001a भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः । 001a धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ॥ 001a तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः । 001a द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नो व्यकर्षत ॥ 001a यथाबलं यथोत्साहं रथिनः समुपादिशत् । 001a अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ॥ 001a धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् । 001a अश्वात्थाम्ने च नकुलं शैब्यं च कृतवर्मणे ॥ 001a सैन्धवाय च वार्ष्णेयं युयुधानं समादिशत् । 001a शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् ॥ 001a सहदेवं शकुनये चेकितानं शलाय वै । 001a द्रौपदेयांस्तथा पञ्च त्रिगर्तेभ्यः समादिशत् ॥ 001a वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् । 009c स समर्थं हि तं मेने पार्थादभ्यधिकं रणे ॥ 010a एवं विभज्य योधांस्तान्पृथक्व सह चैव ह । 010c ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ॥ 011a धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः । 011c विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ॥ 012a यथोद्दिष्टानि सैन्यानि पाण्डवानामयोजयत् । 012c जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥

5-164-10 अंशं स्वकीयमिति शेषः ॥