अध्यायः 162
भीमादिभिर्दुर्योधनम्प्रति उलूकद्वारा प्रतिसन्देशप्रेषणम् ॥ 1 ॥
सञ्जय उवाच । 001
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् । 001a
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया ॥ 001c
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् । 002a
प्रागेव भृशसङ्क्रुद्धाः कैतव्येनापि धर्षिताः ॥ 002c
आसनेषूदतिष्ठन्त बाहूंश्चैव प्रचिक्षिपुः । 003a
आशीविषा इव क्रुद्धा वीक्षाञ्चक्रुः परस्परम् ॥ 003c
अवाक्छिरा भीमसेनः समुदैक्षत कैतवम् । 004a
नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् ॥ 004c
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् । 005a
उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत ॥ 005c
प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम् । 006a
श्रुतं वाक्यं गृहीतोर्थो मतं यत्ते तथास्तु तत् ॥ 006c
एवमुक्त्वा महाबाहुः केशवो राजसत्तम । 007a
पुनरेव महाप्राज्ञं युधिष्ठिरमुदैक्षत ॥ 007c
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः । 008a
द्रुपदस्य सपुत्रस्य विराटस्य च सन्निधौ ॥ 008c
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह । 009a
उलूकोऽप्यर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् ॥ 009c
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया । 010a
कृष्णादींश्चैव तान्सर्वान्यथोक्तं वाक्यमब्रवीत् ॥ 010c
उलूकस्य तु तद्वाक्यं पापं दारुणमीरितम् । 011a
श्रुत्वा विचुक्षुभे पार्थो ललाटं चाप्यमार्जयत् ॥ 011c
तदवस्थं तदा दृष्ट्वा पार्थं सा समितिर्नृप । 012a
नामृष्यत महाराज पाण्डवानां महारथाः ॥ 012c
अधिक्षेपेण कृष्णस्य पार्थस्य च महात्मनः । 013a
श्रुत्वा ते पुरुषव्याघ्राः क्रोधाज्जज्वलुरच्युत ॥ 013c
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः । 014a
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः ॥ 014c
द्रौपदेयाभिमन्युश्च धृष्टकेतुश्च पार्थिवः । 015a
भीमसेनश्च विक्रान्तो यमजौ च महारथौ ॥ 015c
उत्पेतुरासनात्सर्वे क्रोधसंरक्तलोचनाः । 016a
बाहून्प्रगृह्य रुचिरान्रक्तचन्दनरूषितान् । 016c
अङ्गदैः पारिहार्यैश्च केयूरैश्च विभूषितान् ॥ 016e
दन्तान्दन्तेषु निष्पिष्य सृक्किणी परिलेलिहन् । 017a
तेषामाकारभावज्ञः कुन्तीपुत्रो वृकोदरः ॥ 017c
उदतिष्ठत्स वेगेन क्रोधेन प्रज्वलन्निव । 018a
उद्वृत्य सहसा नेत्रे दन्तान्कटकटाय्य च ॥ 018c
हस्तं हस्तेन निष्पिष्य उलूकं वाक्यमब्रवीत् । 019a
अशक्तानामिवास्माकं प्रोत्साहननिमित्तकम् ॥ 019c
श्रुतं ते चवनं मूर्ख यत्त्वां दुर्योधनोऽब्रवीत् । 020a
तन्मे कथयतो मन्द श्रृणु वाक्यं दुरासदम् ॥ 020c
सर्वक्षत्रस्य मध्ये तं यद्वक्ष्यसि सुयोधनम् । 021a
श्रृण्वतः सूतपुत्रस्य पितुश्च त्वं दुरात्मनः ॥ 021c
अस्माभिः प्रीतिकामैस्तु भ्रातुर्ज्येष्ठस्य नित्यशः । 022a
मर्षितं ते दुराचार तत्त्वं न बहु मन्यसे ॥ 022c
प्रेषितश्च हृषीकेशः शमाकाङ्क्षी कुरून्प्रति । 023a
कुलस्य हितकामेन धर्मराजेन धीमता ॥ 023c
त्वं कालचोदितो नूनं गन्तुकामो यमक्षयम् । 024a
गच्छस्वाहवमस्माभिस्तच्च श्वो भविता ध्रुवम् ॥ 024c
मयापि च प्रतिज्ञातो वधः सभ्रातृकस्य ते । 025a
स तथा भविता पाप नात्र कार्या विचारणा ॥ 025c
वेलामतिक्रमेत्सद्यः सागरो वरुणालयः । 026a
पर्वताश्च विशीर्येयुर्मयोक्तं न मृषा भवेत् ॥ 026c
सहायस्ते यदि यमः कुबेरो रुद्र एव वा । 027a
यथाप्रतिज्ञं दुर्बुद्धे प्रकरिष्यन्ति पाण्डवाः । 027c
दुःशासनस्य रुधिरं पाता चास्मि यथेप्सितम् ॥ 027e
यश्चेह प्रतिसंरब्धः क्षत्रियो माभियास्यति । 028a
अपि भीष्मं पुरस्कृत्य तं नेष्यामि यमक्षयम् ॥ 028c
यच्चैतदुक्तं वचनं मया क्षत्रस्य संसदि । 029a
यथैतद्भविता सत्यं तथैवात्मानमालभे ॥ 029c
भीमसेनवचः श्रुत्वा सहदेवोऽप्यमर्षणः । 030a
क्रोधसंरक्तनयनस्ततो वाक्यमुवाच ह ॥ 030c
शौटीरशूरसदृशमनीकजनसंसदि । 031a
श्रृणु पाप वचो मह्यं यद्वाच्यो हि पितात्वया ॥ 031c
नास्माकं भविता भेदः कदाचित्कुरुभिः सह । 032a
धृतराष्ट्रस्य सम्बन्धो यदि न स्यात्त्वया सह ॥ 032c
त्वं तु लोकविनाशाय धृतराष्ट्रकुलस्य च । 033a
उत्पन्नो वैरपुरुषः स्वकुलघ्नश्च पापकृत् ॥ 033c
जन्मप्रभृति चास्माकं पिता ते पापपूरुषः । 034a
अहितानि नृशंसानि नित्यशः कर्तुमिच्छति ॥ 034c
तस्य वैरानुषङ्गस्य गन्तास्म्यन्तं सुदुर्गमम् । 035a
अहमादौ निहत्य त्वां शकुनेः सम्प्रपश्यतः ॥ 035c
ततोऽस्मि शकुनिं हन्ता मिषतां सर्वधन्विनाम् । 036a
भीमस्य वचनं श्रुत्वा सहदेवस्य चोभयोः ॥ 036c
उवाच फाल्गुनो वाक्यं भीमसेनं स्मयन्निव । 037a
भीमसेन न ते सन्ति येषां वैरं त्वया सह ॥ 037c
मन्दा गृहेषु सुखिनो मृत्युपाशवशं गताः । 038a
उलूकश्च न ते वाच्यः परुषं पुरुषोत्तम ॥ 038c
दूताः किमपराध्यन्ते यथोक्तस्यानुभाषिणः । 039a
एवमुक्त्वा महाबाहुर्भीमं भीमपराक्रमम् ॥ 039c
धृष्टद्युम्नसुखान्वीरान्सुहृदः समभाषत । 040a
श्रुतं वस्तस्य पापस्य धार्तराष्ट्रस्य भाषितम् ॥ 040c
कुत्सनं वासुदेवस्य मम चैव विशेषतः । 041a
श्रुत्वा भवन्तः संरब्धा अस्माकं हितकाम्यया ॥ 041c
प्रभावाद्वासुदेवस्य भवतां च प्रयत्नतः । 042a
समग्रं पार्थिवं क्षत्रं सर्वं न गणयाम्यहम् ॥ 042c
भवद्भिः समनुज्ञातो वाक्यमस्य यदुत्तरम् । 043a
उलूके प्रापयिष्यामि यद्वक्ष्यति सुयोधनम् ॥ 043c
श्वो भूते कत्थितस्यास्य प्रतिवाक्यं चमूमुखे । 044a
गाण्डीवेनाभिधास्यामि क्लीबा हि वचनोत्तराः ॥ 044c
ततस्ते पार्थिवाः सर्वे प्रशशंसुर्धनञ्जयम् । 045a
तेन वाक्योपचारेण विस्मिता राजसत्तमाः ॥ 045c
अनुनीय च तान्सर्वान्यथामान्यं यथावयः । 046a
धर्मराजं तदा वाक्यं तत्प्राप्यं प्रत्यभाषत ॥ 046c
आत्मानमवमन्वानो न हि स्यात्पार्थिवोत्तमः । 047a
तत्रोत्तरं प्रवक्ष्यामि तव शुश्रूषणे रतः ॥ 047c
उलूकं भरतश्रेष्ठ सामपूर्वमथोर्जितम् । 048a
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः ॥ 048c
अतिलोहितनेत्राभ्यामाशीविष इव श्वसन् । 049a
स्मयमान इव क्रोधात्सृक्किणी परिसंलिहन् ॥ 049c
जनार्दनमभिप्रेक्ष्य भ्रातॄंश्चैवेदमब्रवीत् । 050a
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥ 050c
उलूक गच्छ कैतव्य ब्रूहि तात सुयोधनम् । 051a
कृतघ्नं वैरपुरुषं दुर्मतिं कुलपांसनम् ॥ 051c
पाण्डवेषु सदा पाप नित्यं जिह्मं प्रवर्तते । 052a
स्ववीर्याद्यः पराक्रम्य पाप आह्वयते परान् । 0521c
अभीतः पूरयन्वाक्यमेष वैः क्षत्रियः पुमान् ॥ 052e
स पापः क्षत्रियो भूत्वा अस्मानाहूय संयुगे । 053a
मान्यामान्यान्पुरस्कृत्य युद्धं मा गाः कुलाधम ॥ 053c
आत्मवीर्यं समाश्रिकत्य भृत्यवीर्यं च कौरव । 054a
आह्वयस्व रणे पार्थान्सर्वथा क्षत्रियो भव ॥ 054c
परवीर्यं समाश्रित्य यः समाह्वयते परान् । 055a
अशक्तः स्वयमादातुमेतदेव नपुंसकम् ॥ 055c
स त्वं परेषां वीर्येण आत्मानं बहुमन्यसे । 056a
कथमेवमशक्तस्त्वमस्मान्समभिगर्जसि ॥ 056c
कृष्ण उवाच । 057
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः । 057a
श्व इदानीं प्रपद्येथाः पुरुषो भव दुर्मते ॥ 057c
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः । 058a
सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च ॥ 058c
जघन्यकालमप्येतन्न भवेत्सर्वपार्थिवान् । 059a
निर्दहेयमहं क्रोधात्तृणानीव हुताशनः ॥ 059c
युधिष्ठिरनियोगात्तु फाल्गुनस्य महात्मनः । 060a
करिष्ये युध्यमानस्य सारथ्यं विजितात्मनः ॥ 060c
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् । 061a
तत्रतत्रार्जुनरथं प्रभाते द्रक्ष्यसे पुनः ॥ 061c
यच्चापि भीमसेनस्य मन्यसे मोघभाषितम् । 062a
दुःशासनस्य रुधिरं पीतमद्यावधारय ॥ 062c
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः । 063a
न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ॥ ॥ 063c
इति श्रीमन्महाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥
5-162-12 समितिः सभा ॥ 5-162-31 शौटीरः सगर्वः । शूरो विक्रान्तः । मह्यं मम ॥ 5-162-55 नपुंसकं नपुंसकत्वं तव ॥ 5-162-63 समीक्षते गणयति ॥