अध्यायः 161
उलूकेन पाण्डवानुपेत्य युधिष्ठिरार्जुनौप्रति दुर्योधनसन्देशकथनम् ॥ 1 ॥
सञ्जय उवाच । 001
सेनानिवेशं सम्प्राप्तः कैतव्यः पाण्डवस्य ह । 001a
समागतः पाण्डवेयैर्युधिष्ठिरमभाषत ॥ 001c
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम । 002a
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ॥ 002c
युधिष्ठिर उवाच । 003
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः । 003a
यन्मत्तं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ॥ 003c
सञ्जय उवाच । 004
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् । 004a
सृञ्जयानां च मत्स्यानां कृष्णस्य च यशस्विनः ॥ 004c
द्रुपदस्य सपुत्रस्य विराटस्य च सन्निधौ । 005a
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ॥ 005c
उलूक उवाच । 006
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः । 006a
श्रृण्वतां कुरुवीराणां तन्निबोध युधिष्ठिर ॥ 006c
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् । 007a
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥ 007c
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः । 008a
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ॥ 008c
अमर्षं राज्यहरणं वनवासं च पाण्डव । 009a
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ॥ 009c
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव । 010a
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥ 010c
लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् । 011a
समः पन्था भृतास्तेश्वाः श्वो युध्यस्व सकेशवः ॥ 011c
असमागम्य भीष्मेण संयुगे किं विकत्थसे । 012a
आरुरुक्षुर्यथा पङ्गुः पर्वतं गन्धमादनम् ॥ 012c
एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव । 013a
सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् ॥ 013c
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि । 014a
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥ 014c
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः । 015a
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ॥ 015c
द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा । 016a
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥ 016c
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् । 017a
युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥ 017c
को ह्यस्ति जीविताकाङ्क्षी प्राप्येममरिमर्दनम् । 018a
गजो वाजी रथो वापि पुनः स्वस्ति गृहान्व्रजेत् ॥ 018c
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा । 019a
रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ॥ 019c
किं दुर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम् । 020a
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥ 020c
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यैरुदीच्यकाम्भोजशकैः खशैश्च । 021a
साल्वैः समत्स्यैः कुरुमुख्यदेश्यैर्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥ 021c
नानाजनौघं युधि सम्प्रवृद्धं गाङ्गं यथा वेगमपारणीयम् । 022a
मां च स्थितं नागबलस्य मध्ये युयुत्समे मन्द किमल्पबुद्धे ॥ 022c
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् । 023a
अभ्यवृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ॥ 023c
अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु । 024a
पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् ॥ 024c
यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय । 025a
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ॥ 025c
जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम् । 026a
जानाम्येतत्त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि ॥ 026c
न तु पर्यायधर्मेण राज्यं प्राप्नोति मानुषः । 027a
मनसैवानुकूलानि विधाता कुरुते वशे ॥ 027c
त्रयोदश समा भुक्तं राज्यं विलपतस्तव । 028a
भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ॥ 028c
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः । 029a
क्व तदा भीमसेनस्य बलमासीच्च फाल्गुन ॥ 029c
सगदाद्भीमसेनाद्वा पार्थाद्वापि सगाण्डिवात् । 030a
न वै मोक्षस्तदा वोभूद्विना कृष्णामनिन्दिताम् ॥ 030c
सा वो दास्ये समापन्नान्मोचयामास पार्षती । 031a
अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान् ॥ 031c
अवोचं यत्षण्डतिलानहं वस्तथ्यमेव तत् । 032a
धृता हि वेणी पार्थेन विराटनगरे तदा ॥ 032c
सूदकर्मणि च श्रान्तं विराटस्य महानसे । 033a
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ॥ 033c
एवमेतत्सदा दण्डं क्षत्रियाः क्षत्रिये दधुः । 034a
वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि ॥ 034c
न भयाद्वासुदेवस्य न चापि तव फाल्गुन । 035a
राज्यं प्रतिप्रदास्यामि युद्ध्यस्व सहकेशवः ॥ 035c
न माया हीन्द्रजालं वा कुहका वापि भीषणा । 036a
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ॥ 036c
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा । 037a
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दशः ॥ 037c
संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम् । 038a
तरेमं वा महागाधं बाहुभ्यां पुरुषोदधिम् 038c
शारद्वतमहामीनं विविंशतिमहोरगम् । 039a
बृहद्बलमहोद्वेलं सौमदत्तिकतिमिङ्गितम् ॥ 039c
भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम् । 040a
कर्णशल्यझषावर्तं काम्भोजबडबामुखम् ॥ 040c
दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम् । 041a
जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥ 041c
शस्त्रौघमक्षय्यमतिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः । 042a
भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति ॥ 042c
तदा मनस्ते त्रिदिवादिवाशुचेर्निवर्तिता पार्थ महीप्रशासनात् । 043a
प्रशाम्य राज्यं हि सुदुर्लभं त्वया बुभूषितः स्वर्ग इवातपस्विना ॥ ॥ 043c
इति श्रीमन्महाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥