अध्यायः 160
दुर्योधनेन पृथक्पृथग्युधिष्ठिरादीन्प्रति वक्तव्यसन्देशकथनपूर्वकमुलूकस्य पाण्डवान्प्रति दूत्येन प्रेषणम् ॥ 1 ॥
सञ्जय उवाच । 001
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु । 001a
न्यविशन्त महाराज कौरवेया यथाविधि ॥ 001c
तत्र दुर्योधनो राजा निवेस्य बलमोजसा । 002a
सम्मानयित्वा नृपतीन्न्यस्य गुल्मांस्तथैव च ॥ 002c
आरक्षस्य विधिं कृत्वा योधानां तत्र भारत । 003a
कर्णं दुःशासनं चैव शकुनिं चापि सौबलम् ॥ 003c
आनाय्य नृपतिस्तत्र मन्त्रयामास भारत । 004a
तत्र दुर्योधनो राजा कर्णेन सह भारत ॥ 004c
सौबलेन च राजेन्द्र मन्त्रयित्वा नरर्षभ । 005a
आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ॥ 005c
उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान् । 006a
गत्वा मम वचो ब्रूहि वासुदेवस्य श्रृण्वतः ॥ 006c
इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् । 007a
पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम् ॥ 007c
यदेतत्कत्थनावाक्यं सञ्जयो महदब्रवीत् । 008a
वासुदेवसहायस्य गर्जतः सानुजस्य ते ॥ 008c
मध्ये करूणां कौन्तेय तस्य कालोयमागतः । 009a
यथावत्सम्प्रतिज्ञातं तत्सर्वं क्रियतामिति ॥ 009c
ज्येष्ठं तथैव कौन्तेयं ब्रूयास्त्यं वचनान्मम ॥ 010ac
भ्रातृभिः सहितः सर्वैः सोमकैश्च सकेकयैः । 011a
कथं वा धार्मिको भूत्वा त्वमधर्मे मनः कृथाः । 011e
य इच्छसि जगत्सर्वं नश्यमानं नृशंसवत् ॥ 011e
अभयं सर्वभूतेभ्यो पाता त्वमिति मे मतिः ॥ 012ac
श्रूयते हि पुरा गीतः श्लोकोऽयं भरतर्षभ । 013a
प्रह्लादेनाथ भद्रं ते हृते राज्ये तु दैवतैः ॥ 013a
यस्य धर्मध्वजो नित्यं सुरा ध्वज इवोच्छ्रितः । 014a
प्रच्छन्नानि च पापानि बैडालं नाम तद्व्रतम् ॥ 014c
अत्र ते वर्तयिष्यामि आख्यानमिदमुत्तमम् । 015a
कथितं नारदेनेह पितुर्मम नराधिप ॥ 015c
मार्जारः किल दुष्टात्मा निश्चेष्टः सर्वकर्मसु । 016a
ऊर्ध्वबाहुः स्थितो राजन् गङ्गातीर कदाचन ॥ 016c
स वै कृत्वा मनःशुद्धिं प्रत्ययार्थं शरीरिणाम् । 017a
करोमि धर्ममित्याह सर्वानेव शरीरिणः ॥ 017c
तस्य कालेन महता विस्रम्भं जग्मुरण्डजाः । 018a
समेत्य च प्रशंसन्ति मार्जारं तं विशाम्पते ॥ 018c
पूज्यमानस्तु तैः सर्वैः पक्षिभिः पक्षिभोजनः । 019a
आत्मकार्यं कृतं मेने चार्यायाश्च कृतं फलम् ॥ 019c
अथ दीर्घस्य कालस्य तं देशं मूषिका ययुः । 020a
ददृशुस्तं च ते तत्र धार्मिकं व्रतचारिणम् ॥ 020c
कार्येण महता युक्तं दम्भयुक्तेन भारत । 021a
तेषां मतिरियं राजन्नासीत्तत्र विनिश्चये ॥ 021c
बहुमित्रा वयं सर्वे तेषां नो मातुलो ह्ययम् । 022a
रक्षां करोतु सततं वृद्धबालस्य सर्वशः ॥ 022c
उपगम्य तु ते सर्वे बिडालमिदमब्रुवन् । 023a
भवत्प्रसादादिच्छामश्चर्तुं चैव यथासुखम् ॥ 023c
भवान्नो गतिरव्यग्रा भवान्नः परमः सुहृत् । 024a
ते वयं सहिताः सर्वे भवन्तं शरणं गताः ॥ 024c
भवान्धर्मपरो नित्यं भवान्धर्मे व्यवस्थितः । 025a
स नो रक्ष महाप्रज्ञ त्रिदशानिव वज्रभृत् ॥ 025c
एवमुक्तस्तु तैः सर्वैर्मूषिकैः स विशाम्पते । 026a
प्रत्युवाच ततः सर्वान्मूषिकान्मूषिकान्तकृत् ॥ 026c
द्वयोर्योगं न पश्यामि तपसो रक्षणस्य च । 027a
अवश्यं तु मया कार्यं वचनं भवतां हितम् ॥ 027c
युष्माभिरपि कर्तव्यं वचनं मम नित्यशः । 028a
तपसास्मि परिश्रान्तो दृढं नियमामास्थितः ॥ 028c
न चापि गमने शक्तिं काञ्चित्पश्यामि चिन्तयन् । 029a
सोस्मि नेयः सदा ताता नदीकूलमितःपरम् ॥ 029c
तथेति तं प्रतिज्ञाय मूषिका भरतर्षभ । 030a
वृद्धबालमथो सर्वं मार्जाराय न्यवेदयन् ॥ 030c
ततः स पापो दुष्टात्मा मूषिकानथ भक्षयन् । 031a
पीवरश्च सुवर्णश्च दृढबन्धश्च जायते ॥ 031c
मूषिकाणां गणश्चात्र भृशं सङ्क्षीयतेऽथ सः । 032a
मार्जारो वर्धते चापि तेजोबलसमन्वितः ॥ 032c
ततस्ते मूषिकाः सर्वे समेत्यान्योन्यमब्रुवन् । 033a
मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम् ॥ 033c
ततः प्राज्ञतमः कश्चिड्डिण्डिको नाम मूषिकः । 034a
अब्रवीद्वचनं राजन्मूषिकाणां महागणम् ॥ 034c
गच्छतां वो नदीतीरं सहितानां विशेषतः । 035a
पृष्ठतोऽहं गमिष्यामि सहैव मातुलेन तु ॥ 035c
साधु साध्विति ते सर्वे पूजयाञ्चक्रिरे तदा । 036a
चक्रुश्चैव यथान्यायं डिण्डिकस्य वचोऽर्थवत् ॥ 036c
अविज्ञानात्ततः सोऽथ डिण्डिकं ह्युपभुक्तवान् । 037a
ततस्ते सहिताः सर्वे मन्त्रयामासुरञ्जसा ॥ 037c
तत्र वृद्धतमः कश्चित्कोलिको नाम मूषिकः । 038a
अब्रवीद्वचनं राजञ्ज्ञातिमध्ये यथातथम् ॥ 038c
न मातुलो धर्मकामश्छद्ममात्रं कृता शिखा । 039a
न मूलफलभक्षस्य विष्ठा भवति लोमशा ॥ 039c
अस्य गात्राणि वर्धन्ते गणश्च परिहीयते । 040a
अद्य सप्ताष्टदिवसान्डिण्डिकोपि न दृश्यते ॥ 040c
एतच्छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः । 041a
बिडालोपि स दुष्टात्मा जगामैव यथागतम् ॥ 041c
तथा त्वमपि दुष्टात्मन्बैडालं व्रतमास्थितः । 042a
चरसि ज्ञातिषु सदा बिडालोमूषिकेष्विव ॥ 042c
अन्यथा किल ते वाक्यमन्यथा कर्म दृश्यते । 043a
दम्भनार्थाय लोकस्य वेदाश्चोपशमश्च ते ॥ 043c
त्यक्त्वा छद्म त्विदं राजन्क्षत्रधर्मं समाश्रितः । 044a
कुरु कार्याणि सर्वाणि धर्मिष्ठोऽसि नरर्षभ ॥ 044c
बाहुवीर्येण पृथिवीं लब्ध्वा भरतसत्तम । 045a
देहि दानं द्विजातिभ्यः पितृभ्यश्चयथोचितम् ॥ 045c
क्लिष्टाया वर्षपूगांश्च मातुर्मातृहिते स्थितः । 046a
प्रमार्जाश्रु रणे जित्वा सम्मानं परमावह ॥ 046c
पञ्चग्रामा वृता यत्नान्नास्माभिरपवर्जिताः । 047a
युध्यामहे कथं सङ्ख्ये कोपयेम च पाण्डवान् ॥ 047c
त्वत्कृते दुष्टभावस्य सन्त्यागो विदुरस्य च । 048a
जातुषे च गृहे दाहं स्मर तं पुरुषो भव ॥ 048c
यच्च कृष्णमवोचस्त्वमायान्तं कुरुसंसदि । 049a
अयमस्मि स्थितो राजञ्शमायसमराय च ॥ 049c
तस्यायमागतः कालः समरस्य नराधिप । 050a
एतदर्थं मया सर्वं कृतमेतद्युधिष्ठिर ॥ 050c
किं नु युद्धात्परं लाभं क्षत्रियो बहु मन्यते । 051a
किञ्च त्वं क्षत्रियकुले जातः सम्प्रथितो भुवि ॥ 051c
द्रोणादस्त्राणि सम्प्राप्य कृपाच्च भरतर्षभ । 052a
तुल्ययोनौ समबले वासुदेवं समाश्रितः ॥ 052c
ब्रूयास्त्वं वासुदेवं च पाण्डवानां समीपतः । 053a
आत्मार्थं पाण्डवार्थं च यत्तो मां प्रतियोधय ॥ 053c
सभामध्ये च यद्रूपं मायया कृतवानसि । 054a
तत्तथैव पुनः कृत्वा सार्जुनो मामभिद्रव ॥ 054c
इन्द्रजालं च मायां वै कुहका वापि भीषणा । 055a
आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः ॥ 055c
वयमप्युत्सहेम द्यां खं च गच्छेम मायया । 056a
रसातलं विशामोपि ऐन्द्रं वा पुरमेव तु ॥ 056c
दर्शयेम च रूपाणि स्वशरीरे बहून्यपि । 057a
न तु पर्यायतः सिद्धिर्बुद्धिमाप्नोति मानुषीम् ॥ 057c
मनसैव हि भूतानि धातैव कुरुते वशे । 058a
यद्ब्रवीषि च वार्ष्णेय धार्तराष्ट्रानहं रणे ॥ 058c
घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यमुत्तमम् । 059a
आचचक्षे च मे सर्वं सञ्जयस्तव भाषितम् । 059c
मद्द्वितीयेन पार्थेन वैरं वः सव्यसाचिना ॥ 059e
स सत्यसङ्गरो भूत्वा पाण्डवार्थे पराक्रमी । 060a
युद्ध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव ॥ 060c
यस्तु शत्रुमभिज्ञाय शुद्धं पौरुषमास्थितः । 061a
करोति द्विषतां शोकं स जीवति सुजीवितम् ॥ 061c
अकस्माच्चैव ते कृष्ण ख्यातं लोके महद्यशः । 062a
अद्येदानीं विजानीमः सन्ति षण्डाः शश्रृङ्गकाः ॥ 062c
मद्विधो नापि नृपतिस्त्वयि युक्तः कथञ्चन । 063a
सन्नाहं संयुगे कर्तुं कंसभृत्ये विशेषतः ॥ 063c
तं च तूबरकं बालं बह्वाशिनमविद्यकम् । 064a
उलूक मद्वचो ब्रूहि असकृद्भीमसेनकम् ॥ 064c
विराटनगरे पार्थ यस्त्वं सूदो ह्यभूः पुरा । 065a
बल्लवो नाम विख्यातस्तन्ममैव हि पौरुषम् ॥ 065c
प्रतिज्ञातं सभामध्ये न तन्मिथ्या त्वया पुरा । 066a
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥ 066c
यद्ब्रवीषि च कौन्तेय धार्तराष्ट्रानहं रणे । 067a
निहनिष्यामि तरसा तस्य कालोऽयमागतः ॥ 067c
त्वं हि भोज्ये पुरस्कार्यो भक्ष्ये पेये च भारत । 068a
क्व युद्धं क्व च भोक्तव्यं युध्यस्व पुरुषो भव ॥ 068c
शयिष्यसे हतो भूमौ गदामालिङ्ग्य भारत । 069a
तद्वृथा च सभामध्ये वल्गितं ते वृकोदर ॥ 069c
उलूक नकुलं ब्रूहि वचनान्मम भारत । 070a
युध्द्यस्वाद्य स्थिरो भूत्वा पश्यामस्तव पौरुषम् ॥ 070c
युधिष्ठिरानुरागं च द्वेषं च मयि भारत । 071a
कृष्णायाश्च परिक्लेशं स्मरेदानीं यथातथम् ॥ 071c
ब्रूयास्त्वं सहदेवं च राजमध्ये वचो मम । 072a
युद्ध्येदानीं रणे यत्तः क्लेशान्स्मर च पाण्डव ॥ 072c
विराटद्रुपदौ चोभौ ब्रूयास्त्वं वचनान्मम । 073a
न दृष्टपूर्वा भर्तारो भृत्यैरपि महागुणैः । 073c
तथार्थपतिभिर्भृत्या यतः सृष्टाः प्रजास्ततः ॥ 073e
अश्लाघ्योऽयं नरपतिर्युवयोरिति चागतम् ॥ 074ac
ते यूयं संहता भूत्वा तद्वधार्थं ममापि च । 075a
आत्मार्थं पाण्डवार्थं च प्रयुद्ध्यध्वं मया सह ॥ 075c
धृष्टद्युम्नं च पाञ्चाल्यं ब्रूयास्त्वं वचनान्मम । 076a
एष ते समयः प्राप्तो लब्धव्यश्च त्वयापि सः ॥ 076c
द्रोणमासाद्य समरे ज्ञास्यसे हितमुत्तमम् । 077a
युद्ध्यस्व ससुहृत्पापं कुरु कर्म सुदुष्करम् ॥ 077c
शिखण्डिनमथो ब्रूहि उलूक वचनान्मम । 078a
स्त्रीति मत्वा महाबाहुर्न हनिष्यति कौरवः ॥ 078c
गाङ्गेयो धन्विनां श्रेष्ठो युद्ध्येदानीं सुनिर्भयः । 079a
कुरु कर्म रणे यत्तः पश्यामः पौरुषं तव ॥ 079c
एवमुक्त्वा ततो राजा प्रहस्योलूकमब्रवीत् । 080a
धनञ्जयं पुनर्ब्रूहि वासुदेवस्य श्रृण्वतः ॥ 080c
अस्मान्वा त्वं पराजित्य प्रसाधि पृतिवीमिमाम् । 081a
अथवा निर्जितोस्माभी रणे वीर शयिष्यसि ॥ 081c
राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव । 082a
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ॥ 082c
यदर्थं क्षत्रिया सूते सर्वं तदिदमागतम् । 083a
बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् ॥ 083c
पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् । 084a
परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च । 084c
हृदयं कस्य न स्फोटेदैश्वर्याद्भ्रंशितस्य च ॥ 084e
कुले जातस्य शूरस्य परिवित्तेष्वगृध्यतः । 085a
आस्थितं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ॥ 085c
यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् । 086a
अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ॥ 086c
अमित्राणां वशे स्थानं राज्यं च पुनरुद्धर । 087a
द्वावर्थौ युद्धकामस्य तस्मात्तत्कुरु पौरुषम् ॥ 087c
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् । 088a
शक्योऽमर्षो मनुष्येण कर्तु पुरुषमानिना ॥ 088c
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः । 089a
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ॥ 089c
राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव । 090a
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ॥ 090c
अप्रियाणां च वचनं प्रब्रुवत्सु पुनः पुनः । 091a
अमर्षं दर्शयस्व त्वममर्षो ह्येव पौरुषम् ॥ 091c
क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम् । 092a
इह ते दृश्यतां पार्थ युद्ध्यस्व पुरुषो भव ॥ 092c
लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् । 093a
पुष्टास्तेऽश्वा भृता योधाः श्वो युद्ध्यस्व सकेशवः ॥ 093a
असमागम्य भीष्मेण संयुगे किं विकत्थसे । 094a
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥ 094c
एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव । 095a
सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् ॥ 095c
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि । 096a
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥ 096c
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः । 097a
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ॥ 097c
द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा । 098a
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥ 098c
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् । 099a
युगं वा रिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥ 099c
को ह्यस्ति जीविताकाङ्क्षी प्राप्येममरिमर्दनम् । 100a
पार्थो वा इतरो वापि कोन्यः स्वस्ति गृहान्व्रजेत् ॥ 100c
कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा । 101a
रणे जीवन्प्रमुच्येत पदा भूमिपुमस्पृशन् ॥ 101c
किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम् । 102a
दुराधर्षां देवचमूप्रकाशाङ्गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥ 102c
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यैरुदीच्यकाम्भोजशकैः खशैश्च । 103a
साल्वैः समत्स्यैः कुरुमध्यदेश्यैर्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥ 103c
नानाजनौघं युधि सम्प्रवृद्धङ्गाङ्गं यथा वेगमपारणीयम् । 104a
मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे ॥ 104c
अक्षय्याविषुधी चैव अग्निदत्तं च ते रथम् । 105a
जानीमो हि रणे पार्थ केतुं दिव्यं च भारत ॥ 105c
अकत्थमानो युद्ध्यस्व कत्थसेऽर्जुन किं बहु । 106a
पर्यायात्सिद्धिरेतस्य नैतत्सिध्याति कत्थनात् ॥ 106c
यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय । 107a
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ॥ 107c
जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम् । 108a
जानाम्यहं त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि ॥ 108c
न तु पर्यायधर्मेम सिद्धिं प्राप्नोति मानवः । 109a
मनसैवानुकूलानि धातैव कुरुते वशे ॥ 109c
त्रयोदशसमा भुक्तं राज्यं विलपतस्तव । 110a
भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम् ॥ 110c
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः । 111a
क्व तदा भीमसेनस्य बलमासीच्च फाल्गुन ॥ 111c
सगदाद्भीमसेनाद्वा फाल्गुनाद्वा सगाण्डिवात् । 112a
न वै मोक्षस्तदा यो भूद्विना कृष्णमनिन्दितां ॥ 112c
सा वो दास्ये समापन्नान्मोचयामास पार्षती । 113a
अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान् ॥ 113c
अवोचं यत्षण्डतिलानहं वस्तथ्यमेव तत् । 114a
धृता हि वेणी पार्थेन विराटनगरे तदा ॥ 114c
सूदकर्मणि च श्रान्तं विराटस्य महानसे । 115a
भीमसेनेन कौन्तेय यत्तु तन्मम पौरुषम् ॥ 115c
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः । 116a
वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि ॥ 116c
न भयाद्वासुदेवस्य न चापि तव फल्गुन । 117a
राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ॥ 117c
न माया हीन्द्रजालं वा कुहका वापि भीषणा । 118a
आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः ॥ 118c
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा । 119a
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥ 119c
संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम् । 120a
तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम् ॥ 120c
शारद्वतमहामीनं विविंशतिमहोरगम् । 121a
बृहद्बलमहोद्वेलं सौमदत्तितिमिङ्गिलम् ॥ 121a
भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम् । 122a
कर्णशल्यझषावर्तं काम्भोजबडबामुखम् ॥ 122c
दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम् । 123a
जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥ 123c
शश्त्रौघमक्षय्यमभिप्रवृद्धंयदावगाह्य श्रमनष्टचेताः । 124a
भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति ॥ 124c
तदा मनस्ते त्रिदिवादिवाशुचेर्निवर्तिता पार्थ महीप्रशासनात् । 125a
प्रशाम्य राज्यं हि सुदुर्लभं त्वयाबुभूषितः स्वर्ग इवातपस्विना ॥ ॥ 125c
इति श्रीमन्महाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि षष्ट्यधिकशततमोऽध्यायः ॥
5-160-3 आरक्षस्य रक्षणीयस्य द्रव्यादेः विधिं रक्षाविधानम् ॥ 5-160-11 भ्रातृभिः सहितः कथमधर्मे मनः कृथा इति सम्बन्धः ॥ 5-160-14 भो सुरा इति देवान् प्रह्लादः सम्बोधयति । यस्य व्रतस्य धर्मध्वजो धर्मचिह्नं दर्भपवित्रपाणित्वादि । उच्छ्रितः सर्वलोकविदितः ॥ 5-160-17 मनःशुद्धिं हिंसातो निवृत्तिम् ॥ 5-160-18 विस्रम्भं विश्वासम् ॥ 5-160-39 शिखा जटाधारणमितियत् तच्छद्ममात्रम् ॥ 5-160-44 धर्मिष्ठोऽसीत्युपाहसः ॥ 5-160-55 कुहका कृत्या प्रतिगर्जनाः विपरीतान्कोपान् वहन्ति प्रापयन्ति नतु भयं जनयन्तीत्यर्थः। गर्जनं निनदे कोपे इति मेदिनी ॥ 5-160-57 पर्यायतः पर्यायो भयप्रदर्शनादिरूपः प्रकारस्तेन सिद्धिः स्वस्य नतु भवति । तथा परोपि तेन बुद्धिं मानुषीं भयात्मिकां न प्राप्नोति ॥ 5-160-62 सश्रृङ्गका शृङ्गं पुंस्त्वचिह्नं श्मश्रुलत्वलिङ्गवत्त्वादिकं तत्सहिताः षण्डाः निर्वीर्याः सन्ति । येषु तव शौर्यं प्रख्यातमिति भावः ॥ 5-160-64 तूबरकं अश्मश्रुपुरुषम् । अविद्यकं मूढम् ॥ 5-160-73 अर्थपतिभी राजभिः । यतः कालात् तत आरम्भेत्यर्थः ॥ 5-160-74 मूढा यूयं मयि गुणवति स्वामिनि न सन्तुष्टाः स्थेति भावः ॥ 5-160-75 तत्तस्माद्धेतोर्मम वधार्थं च प्रयुध्द्यध्वमिति सम्बन्धः ॥ 5-160-77 पापं कर्म कुरु गुरुवधाख्याम् । 5-160-85 राज्यमाक्रम्य मादृश इति शेषः । 5-160-87 स्थानं स्थितिम् । तत् स्थानराज्ययोरुद्धरणम् । पौरुषं पुरुषकर्म कुरु ॥ 5-160-89 धिष्ण्यात् गृहात् ॥ 5-160-93 लोहाभिसारः शस्त्राणां नीराजनादिकं तेषु मन्त्रेण देवतावाहनादिकं च ॥ 5-160-97 वेदयोः श्रुतिधनुर्वेदयोः । अन्तगं पारगम् ॥ 5-160-99 युगं कालचक्रम् ॥ 5-160-101 आभ्यां द्रोणभीष्माभ्यां अभिध्यातो हन्तव्यत्वेन निश्चितः ॥ 5-160-102 दर्दुरो मण्डूकः ॥ 5-160-106 पर्यायात् युद्धप्रकारात् ॥ 5-160-109 पर्यायधर्मेण उपधर्मेण मायादिना । अथवा राजपुत्रोऽयं राज्यार्ह इति क्रमधर्मस्तेन न किन्तु शौर्येणैव सिद्धिमाप्नोतीत्यर्थः । मनसा सङ्कल्पेन धातैव कुरुते नतु मनुष्यः ॥ 5-160-113 अमानुष्यं नीचमनुष्यत्वम् । अल्पार्थोऽत्र नञ् ॥ 5-160-121 उद्वेलो वृद्धिः ॥ 5-160-125 निवर्तिता निवर्तिष्यति । बुभूषितः प्राप्तुमिष्टः ॥