अध्यायः 159
धृतराष्ट्रेण सञ्जयम्प्रति कुरुपाण्डवसेनयोर्वृत्तवृत्तान्तकथनचोदना ॥ 1 ॥ सञ्जयेन धृतराष्ट्रम्प्रति पुरुषस्याकर्तृत्वकथनपूर्वकं स्वेन वक्ष्यमाणबन्धुनिधनश्रवणेन शोकानधिगमोपदेशः ॥ 2 ॥
जनमेजय उवाच । 001
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ । 001a
किमर्कुर्वंश्च कुरवः कालेनाभिप्रचोदिताः ॥ 001c
वैशम्पायन उवाच । 002
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ । 002a
धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् ॥ 002c
एहि सञ्जय सर्व मे आचक्ष्वानवशेषतः । 003a
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ॥ 003c
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् । 004a
यदहं बुद्ध्यमानोऽपि युद्धदोषान्क्षयोदयान् ॥ 004c
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् । 005a
न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः ॥ 005c
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी । 006a
दुर्योधनं समासाद्य पुनः सा परिवर्तते ॥ 006c
एवं गते वै यद्भावि तद्भविष्यति सञ्जय । 007a
क्षत्रधर्मः किल रणे तनुत्यागे हि पूजितः ॥ 007c
सञ्जय उवाच । 008
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथेच्छसि । 008a
न तु दुर्योधने दोषमिममाधातुमर्हसि ॥ 008c
शृणुष्वानवशेषेण वदतो मम पार्थिव । 009a
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः । 009c
न स कालं न वा देवानेनसा गन्तुमर्हति ॥ 009e
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् । 010a
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ 010c
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया । 011a
अनुभूताः सहामात्यैर्निकृतैरधिदेवने ॥ 011c
हयानां च गजानां च राज्ञां चामिततेजसाम् । 012a
वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ॥ 012c
स्थिरो भूत्वा महाप्राज्ञ सर्वलोकक्षयोदयम् । 013a
यथाभूतं महायुद्धे श्रुत्वा मा विमना भव ॥ 013c
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः । 014a
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ॥ 014c
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया । 015a
पूर्वकर्मभिरप्यन्ये त्रैधमेतत्प्रदृश्यते । 015c
तस्मादनर्थमापन्नः स्थिरो भूत्वा निशामय ॥ ॥ 015e
इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः ॥ ॥ समाप्तं च सैन्यनिर्याणपर्व ॥
5-159-4 क्षयस्यैव उदयो येभ्यस्तान् क्षयोदयान् ॥ 5-159-5 निकृतिप्रज्ञं कपटविषयैव प्रज्ञा न धर्मविषया यस्य तम् ॥ 5-159-9 एनसा दोषेण देवान्कालं वा गुन्तुं उपलब्धुं नार्हति । न स कालं न वा देयं वक्तुमेतदिहार्हतीति पाठेप्ययमेवार्थः ॥ 5-159-11 निकाराः तिरस्काराः ॥