अध्यायः 158

श्रीकृष्णश्यालस्य रुक्मिणः पाण्डवानुपेत्य अर्जुनम्प्रति तस्य भयविकल्पपूर्वकं दर्पात्स्त्वेन साहाय्यकरणोक्तिः ॥ 1 ॥ अर्जुनेन तस्य प्रत्याख्यानम् ॥ 2 ॥ दुर्योधनमेत्य तथाभाषिणस्तस्य तेनापि प्रत्याख्यानम् ॥ 3 ॥ वैशम्पायन उवाच । 001
एतस्मिन्नैव काले तु भीष्मकस्य महात्मनः । 001a
हिरण्यरोम्णो नृपतेः साक्षादिन्द्रसखस्य वै ॥ 001c
आकूतीनामधिपतिर्भोजस्यातियशस्विनः । 002a
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥ 002c
यः किम्पुरुषसिंहस्य गन्धमादनवासिनः । 003a
कृत्स्नं शिष्यो धनुर्वेदं चतुष्पादमवाप्तवान् ॥ 003c
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा । 004a
शार्ङ्गेण च महाबाहुः सम्मितं दिव्यलक्षणम् ॥ 004c
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् । 005a
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः । 005c
शार्ङ्ग तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः ॥ 005e
धारयामास तत्कृष्णः परसेनाभयावहम् । 006a
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः ॥ 006c
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत । 007a
सञ्छिद्य मौरवान्पाशान्निहत्य मुरमोजसा ॥ 007c
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले । 008c
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च ॥ 008c
प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् । 009a
रुक्मी तु विजयं लब्ध्वा धनुर्मेघनिभस्वनम् ॥ 009c
विभीषयन्निव जगत्पाण्डवानभ्यवर्तत । 010a
नामृष्यत पुरा योऽसौ स्वबाहुबलगर्वितः ॥ 010c
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता । 011a
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्ये जनार्दनम् ॥ 011c
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरः । 012a
सेनया चतुरङ्गिण्या महत्या दूरपातया ॥ 012c
विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया । 013a
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् ॥ 013c
व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् । 014a
यत्रैव कृष्णेन रणे निर्जितः परवीरहा ॥ 014c
तत्र भोजकटं नाम कृतं नगरमुत्तमम् । 015a
सैन्येन महता तेन प्रभूतगजवाजिना ॥ 015c
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप । 016a
स भोजराजः सैन्येन महता परिवारितः ॥ 016c
अक्षौहिण्या महावीर्यः पाण्डवान्क्षिप्रमागमत् । 017a
ततः स कवची धन्वी तली खड्गी शरासनी ॥ 017c
रथेनादित्यवर्णेन प्रविवेश महाचमूम् । 018c
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया ॥ 018c
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् । 019a
स पूजितः पाण्डुपुत्रैर्यथान्यायं सुसंस्तुतः ॥ 019c
प्रतिगृह्य तु तान्सर्वान्विश्रान्तः सहसैनिकः । 020a
उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् ॥ 020c
सहायोस्मि स्थितो युद्धे यदि भीतोसि पाण्डव । 021a
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥ 021c
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन । 022a
हनिष्यामि रणे भागं यन्मे दास्यसि पाण्डव ॥ 022c
अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः । 023a
अथवा सर्व एवैते तिष्ठन्तु वसुधाधिपाः ॥ 023c
निहत्य समरे शत्रूंस्तव दास्यामि मेदिनीम् । 024a
इत्युक्तो धर्मराजस्य केशवस्य च सन्निधौ ॥ 024c
श्रृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः । 025a
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् । 025c
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ॥ 025e
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः । 026a
सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥ 026c
तथा प्रतिभये तस्मिन्देवदानवसङ्कुले । 027a
खाण्डवे युध्यमानस्य कः सहायस्तदावभवत् ॥ 027c
निवातकवचैर्युद्धे कालकेयैश्च दानवैः । 028a
तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ॥ 028c
तथा विराटनगरे कुरुभिः सह सङ्गरे । 029a
युध्यतो बहुभिस्तत्र कः सहायोऽभवन्मम ॥ 029c
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् । 030a
वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥ 030c
धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् । 031a
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥ 031c
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः । 032a
द्रोणं व्यपदिशञ्छिष्यो वासुदेवसहायवान् ॥ 032c
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीति यशोहरम् । 033a
वचनं नरशार्दूल वज्रायुधसमस्वनम् ॥ 033c
नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे । 034a
यथाकामं यथायोगं गच्छ वात्रैव तिष्ठ वा ॥ 034c
'वैशम्पायन उवाच 035
तच्छ्रुत्वा वचनं तस्य विजयस्य च धीमतः । 035a
'विनिवर्त्य ततो रुक्मी सेनां सागरसन्निभाम् । 035c
दुर्योधनमुपागच्छत्तथैव भरतर्षभ ॥ 035e
तथैव चाभिगम्यैनमुवाच वसुधाधिपः । 036a
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥ 036c
द्वावेव तु महाराज तस्माद्युद्धादपेयतुः । 037a
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिप ॥ 037c
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा । 038a
उपाविशन्पाण्डवेया मन्त्राय पुनरेव च ॥ 038c
समितिर्धर्मराजस्य सा पार्थिवसमाकुला । 039a
शुशुभे तारकैश्चित्रा द्यौश्चन्द्रेणेव भारत ॥ ॥ 039c

इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ॥

5-158-1 साक्षात्पुत्र इति सम्बन्धः ॥ 5-158-2 आकूतीनां सङ्कल्पानाम् । सत्यसङ्कल्प इत्यर्थः ॥ 5-158-7 मौरवान् आन्त्रतन्तिमयान् । यैरिदानी शार्ङ्गे धनुषि ज्या क्रियते ॥ 5-158-30 उपजीव्य आराध्य । रणे युद्धनिमित्तम् ॥ 5-158-32 द्रोणं अयं मम गुरुरिति व्यपदिशन् कथयन् ॥