अध्यायः 157

युधिष्ठिरेण श्रीकृष्णानुमत्या द्रुपदादीनां सप्तानां पृथगक्षौहिण्याधिपत्येऽभिषेचनपूर्वकं धृष्टद्युम्नस्य सर्वसैन्याधिपत्येऽभिषेचनम् ॥ 1 ॥ बलरामस्य अक्रूरादिभिः सह पाण्डवदिदृक्षया कुरुक्षेत्रागमनम् ॥ 2 ॥ युधिष्ठिरादिपूजितस्य तस्य बन्धुनिधनावलोकनासहिष्णुतया तीर्थनिषेवणार्थं गमनम् ॥ 3 ॥ जनमेजय उवाच । 001
आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् । 001a
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ॥ 001c
बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम् । 002a
समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् ॥ 002c
प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् । 003a
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ॥ 003c
रणयज्ञे प्रवितते सुभीमे लोमहर्षणे । 004a
दीक्षितं चिररात्राय श्रुत्वा तत्र युधिष्ठिरः ॥ 004c
किमब्रवीन्महाबाहुः सर्वशस्त्रभृतां वरः । 005a
भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यभाषत ॥ 005c
वैशम्पायन उवाच । 006
आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः । 006a
सर्वान्भ्रातॄन्समानीय वासुदेवं च शाश्वतम् ॥ 006c
उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः । 007a
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः ॥ 007c
पितामहेन वो युद्धं पूर्वमेव भविष्यति । 008a
तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ॥ 008c
कृष्ण उवाच । 009
यथार्हति भवान्वक्तुमस्मिन्काले ह्युपस्थिते । 009a
तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ॥ 009c
रोचते मे महाबाहो क्रियतां यदनन्तरम् । 010a
नायकास्तव सेनायां क्रियन्तामिह सप्त वै ॥ 010c
वैशम्पायन उवाच । 011
ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् । 011a
धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिव । 011c
शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ॥ 011e
एतान्सप्त महाभागान्वीरान्युद्धाभिकाङ्क्षिणः । 012a
सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः ॥ 012c
सर्वसेनापतिं चात्र धृष्टद्युम्नं चकार ह । 013a
द्रोणान्तहेतोरुत्पन्नो य इद्धाज्जातवेदसः ॥ 013c
सर्वेषामेव तेषां तु समस्तानां महात्मनाम् । 014a
सेनापतिपतिं चक्रे गडाकेशं धनञ्जयम् ॥ 014c
अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् । 015a
सङ्कर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ॥ 015c
तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् । 016a
प्राविशद्भवनं राज्ञः पाण्डवानां हलायुधः ॥ 016c
सहाक्रूरप्रभृतिभिर्ददसाम्बोद्धवादिभिः । 017a
रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ॥ 017c
वृष्णिमुख्यैरधिगतैर्व्याघ्रैरिव बलोत्कटैः । 018a
अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ॥ 018c
नीलकौशेयवसनः कैलासशिखरोपमः । 019a
सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः ॥ 019c
तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः । 020a
उदतिष्ठत्ततः पार्थो भीमकर्मा वृकोदरः ॥ 020c
गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन । 021a
पूजयाञ्चक्रिरे ते वै समायान्तं हलायुधम् ॥ 021c
ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना । 022a
वासुदेवपुरोगास्तं सर्व एवाभ्यवादयन् ॥ 022c
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः । 023a
युधिष्ठिरेण सहित उपाविशदरिन्दमः ॥ 023c
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः । 024a
वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ॥ 024c
भवितायं महारौद्रो दारुणः पुरुषक्षयः । 025a
दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ॥ 025c
तस्माद्युद्धात्समुत्तीर्णानपि वः ससुहृज्जनान् । 026a
अरोगानक्षतैर्देहैर्द्रष्टास्मीति मतिर्मम ॥ 026c
समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् । 027a
विमर्दश्च महान्भावी मांसशोणितकर्दमः ॥ 027c
उक्तो मया वासुदेवः पुनः पुनरुपह्वरे । 028a
सम्बन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ॥ 028c
पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः । 029a
तस्यापि क्रियतां साह्यं स पर्येति पुनःपुनः ॥ 029c
तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः । 030a
निर्विष्टः सर्वभावेन धनञ्जयमवेक्ष्य ह ॥ 030c
ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः । 031a
तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ॥ 031c
न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम् । 032a
ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ॥ 032c
उभौ शिष्यौ हि मे वीरौ गदायद्धविशारदौ । 033a
तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे ॥ 033c
तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् । 034a
न हि शक्ष्यामि कौरव्यान्नश्यमानानवेक्षितुम् ॥ 034c
वैशम्पायन उवाच । 035
एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः । 035a
तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ॥ ॥ 035c

इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः ॥

5-157-13 इद्धात्प्रदीप्तात् ॥ 5-157-16 महात्ययं अत्यन्तं क्षयकरम् ॥ 5-157-24 रौहिणेयो बलरामः ॥ 5-157-28 उपह्वरे एकान्ते ॥