अध्यायः 156
दुर्योधनेन भीष्मम्प्रति सैनापत्यस्वीकारप्रार्थना ॥ 1 ॥ भीष्मेण समयप्रतिज्ञाकरणपूर्वकं सैनापत्याङ्गीकारः ॥ 2 ॥ दुर्योधनेन भीष्मस्य सैनापत्येऽभिषेचनपूर्वकं सेनाभिः सह कुरुक्षेत्रगमनम् ॥ 3 ॥
वैशम्पायन उवाच । 001
ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः । 001a
सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ॥ 001c
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि । 002a
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥ 002c
नहि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् । 003a
शौर्यं च बलनेतॄणां स्पर्धते च परस्परम् ॥ 003c
श्रूयते च महाप्राज्ञ हैहयानमितौजसः । 004a
अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥ 004c
तानभ्ययुस्तदा वैश्याः शूद्राश्चैव पितामह । 005a
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः ॥ 005c
ते स्म युद्धे प्रभज्यन्ते त्रयो वर्णाः पुनः पुनः । 006a
क्षत्रियाश्च जयन्त्येव बहुलं चैकतो बलम् ॥ 006c
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विचसत्तमाः । 007a
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ॥ 007c
वयमेकस्य श्रृणुमो महाबुद्धिमतो रणे । 008a
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ॥ 008c
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् । 009a
नये सुकुशलं शूरमजयन्क्षत्रियांस्ततः ॥ 009c
एवं ये कुशलं शूरं हितेप्सितमकल्पषम् । 010a
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ॥ 010c
भवानुशनसा तुल्यो हितैषी च सदा मम । 011a
असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव ॥ 011c
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः । 012a
कुबेर इव यक्षाणां देवानामिव वासवः ॥ 012c
पर्वतानां यथा मेरुः सुपर्णः पक्षिणां यथा । 013a
कुमार इव देवानां वसूनामिव हव्यवाट् ॥ 013c
भवता हि वयं गुप्ताः शत्रेणेव दिवौकसः । 014c
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ॥ 014c
प्रयातु नो भवानग्रे देवानामिव पावकिः । 015a
वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ॥ 015c
भीष्म उवाच । 016
एवमेतन्महाबाहो यथा वदसि भारत । 016a
यथैव हि भवन्तो मे तथैव मम पाण्डवाः ॥ 016c
अपि चैव मया श्रेयो वाच्यं तेषां नराधिप । 017a
संयोद्धव्यं तवार्थाय यथा मे समयः कृतः ॥ 017c
न तु पश्यामि योद्धारमात्मनः सदृशं भुवि । 018a
ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनञ्जयात् ॥ 018c
स हि वेद महाबुद्धिर्दिव्यान्यस्त्राण्यनेकशः । 019a
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ॥ 019c
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् । 020a
कुर्यावास्त्रबलेनैव ससुरासुरराक्षसम् ॥ 020c
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा जनाधिप । 021a
तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा ॥ 021c
एवमेषां फरिष्यामि निधनं कुरुनन्दन । 022a
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ॥ 022c
सेनापतिस्त्वहं राजन्समयेनापरेण ते । 023a
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ॥ 023c
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते । 024a
स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे ॥ 024c
कर्ण उवाच । 025
नाहं जीवति गाङ्गेये राजन्योत्स्ये कथञ्चन । 025a
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ॥ 025c
वैशम्पायन उवाच । 026
ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् । 026a
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ॥ 026a
ततो भेरीश्च शङ्खांश्च शतशोऽथ सहस्रशः । 027a
वादयामासुव्यग्रा वादका राजशासनात् ॥ 027c
सिंहनादाश्च विविधा वाहनानां च निःस्वनाः ॥ 028ac
निर्घार्ताः पृथिवीकम्पा गजबृंहितनिःस्वनाः । 029a
आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ॥ 029c
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे । 030a
प्रादुरासीदनभ्रे च वर्षं रुधिरकर्दमम् 030c
शिवाश्च भयवेदिन्यो नेदुर्दीप्ततरा भृशम् ॥ 030e
सैनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् । 031a
तदैतान्युग्ररूपाणि बभूवुः शतशो नृप ॥ 031c
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् । 032a
वाचयित्वा द्विजश्रेष्ठान्गोभिर्निष्कैश्च भूरिशः ॥ 032c
वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः । 033a
आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ॥ 033c
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ॥ 034ac
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः । 035a
शिबिरं मापयामास समे देशे जनाधिप ॥ 035c
मधुरानूषरे देशे प्रभूतयवसेन्धने । 036a
यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ॥ ॥ 036c
इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः ॥
5-156-15 पावकिः कार्तिकेयः ॥ 5-156-19 विवृतो विस्पष्टो भूत्वेत्यर्थः ॥ 5-156-20 निर्मनुष्यं निर्जनम् ॥ 5-156-21 सदा प्रत्यहम् ॥ 5-156-29 पातयन्तः मूर्च्छितानि कुर्वन्तः ॥