अध्यायः 154
गुरुवधभयात् कर्तव्यमौढ्यमुपगतेन युधिष्ठिरेण कर्तव्यनिर्धारणप्रार्थना ॥ 1 ॥ कृष्णेन युद्धकरणनिर्धारणम् ॥ 2 ॥ पुनर्युधिष्ठिरस्य शङ्कायां अर्जुनेन कुन्तीविदुरवचनानुस्मारणेन तत्परिहरणम् ॥ 3 ॥
वैशम्पायन उवाच । 001
वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः । 001a
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽऽब्रवीदिदम् ॥ 001c
अस्मिन्नभ्यागते काले किञ्च नः क्षममच्युत । 002a
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ॥ 002c
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च । 003a
वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च ॥ 003c
विदुरस्यापि तद्वाक्यं श्रुतं भीष्मस्य चोभयोः । 004a
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ॥ 004c
सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः । 005a
क्षमं यन्नो महाबाहो तद्ब्रवीह्यविचारयन् ॥ 005c
श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः । 006a
मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत् ॥ 006c
उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम् । 007a
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ॥ 007c
न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा । 008a
मम वा भाषितं किञ्चित्सर्वमेवातिवर्तते ॥ 008c
नैष कामयते धर्मं नैष कामयते यशः । 009a
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ॥ 009c
बन्धमाज्ञापयामास मम चापि सुयोधनः । 010a
न च तं लब्धवान्कामं दुरात्मा पापनिश्चयः ॥ 010c
न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः । 011a
सर्वे तमनुवर्तन्ते ऋते विदुरमुच्युत ॥ 011c
शकुनिः सौबलश्चैव कर्णदुःशासनावपि । 012a
त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ॥ 012c
किञ्च तेन मयोक्तेन यान्यभाषत कौरवः । 013a
सङ्क्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते ॥ 013c
पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः । 014a
यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् ॥ 014c
न चापि वयमत्यर्थं परित्यागेन कर्हिचित् । 015a
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ॥ 015c
वैशम्पायन उवाच । 016
तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् । 016a
अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ॥ 016c
युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम् । 017a
योगमाज्ञापयामास भीमार्जुनयमैः सह ॥ 017c
ततः किलकिलाभूतमनीकं पाण्डवस्य ह । 018a
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ॥ 018c
अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः । 019a
निश्वसन्भीमसेनं च विजयं चेदमब्रवीत् ॥ 019c
यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया । 020a
सोयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ॥ 020c
यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः । 021a
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ॥ 021c
कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति । 022a
कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति ॥ 022c
वैशम्पायन उवाच । 023
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः । 023a
यदुक्तं वासुदेवेन श्रावयामास तद्वचः ॥ 023c
उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च । 024a
वचनं तत्त्वया राजन्निखिलेनावधारितम् ॥ 024c
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः । 025a
नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः ॥ 025c
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा । 026a
स्मयमानोऽब्रवीद्वाक्यं पार्थमेवमिति ब्रुवन् ॥ 026c
ततस्ते धृतसङ्कल्पा युद्धाय सह सैनिकाः । 027a
पाण्डवेया महाराज तां रात्रिं सुखमावसन् ॥ ॥ 027c
इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि चतुःपञ्चशदधिकशततमोऽध्यायाः ॥
5-154-13 युक्तं सम्यक् ॥ 5-154-14 न कल्याणं अकल्याणं पापं अकल्याणं च त्वदीयेष्वविद्यमानं सर्वं तस्मिन् दुर्योधने प्रतिष्ठितम् ॥ 5-154-15 परित्यागेन राज्यस्योपेक्षया शमं नेच्छामः ॥ 5-154-17 योगं युद्धोद्योगम् ॥ 5-154-20 यदर्थं यन्निवृत्त्यर्थम् । अनर्थः कुलक्षयः । प्रयत्नतो बलात् ॥ 5-154-25 अयुध्यतस्तव निवर्तितुमपि न युक्तम् ॥