अध्यायः 153

कर्णादीन्प्रति दुर्योधनेन साङ्ग्रामिकसामग्रीसम्पादनचोदनम् ॥ 1 ॥ तच्चोदनया राज्ञां सेनाभिः सह कुरुक्षेत्रप्रस्थानम् ॥ 2 ॥

जनमेजय उवाच । 001
युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया । 001a
सन्निविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ॥ 001c
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् । 002a
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥ 002c
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः । 003a
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥ 003c
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते । 004a
सम्भ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ॥ 004c
व्यथयेयुरिमे देवान्सेन्द्रानपि समागमे । 005a
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ॥ 005c
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः । 006a
युधामन्युश्च विक्रान्तो देवैरपि दुरासदः ॥ 006c
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । 007a
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥ 007c
वैशम्पायन उवाच । 008
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा । 008a
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ॥ 008c
अकृतेनैव कार्येण गतः पार्थानधोक्षजः । 009a
स एनान्मन्युनाविष्टो ध्रुवं धक्ष्यत्यसंशयम् ॥ 009c
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः । 010a
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥ 010c
अजातशत्रुरत्यर्थं भीमसेनवशानुगः । 011a
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ॥ 011c
विराटद्रुपदौ चैव कृतवैरौ मया सह । 012a
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥ 012c
भविता विग्रहः सोयं तुमुलो लोमहर्षणः । 013a
तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः ॥ 013c
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः । 014a
स्वपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ॥ 014c
आसन्नजलकोष्ठानि शतशोथ सहस्रशः । 015a
अच्छेद्याहारमार्गाणि बन्धोच्छ्रयचितानि च ॥ 015c
विविधायुधपूर्णानि पताकाध्वजवन्ति च । 016a
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः ॥ 016c
प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् । 017a
वैशम्पायन उवाच । 017
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा ॥ 017c
हृष्टरूपा महात्मानो निवासाय महीक्षिताम् । 018a
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् ॥ 018c
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः । 019a
बाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः ॥ 019c
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् । 020a
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभै करैः । 020c
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥ 020e
ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः । 021a
सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः ॥ 021c
अथ वर्माणि चित्राणि काञ्चनानि बहूनि च । 022a
विविधानि च शस्त्राणि चक्रुः सर्वाणि सर्वशः ॥ 022c
पदातयश्च पुरुषाः शस्त्राणि विविधानि च । 023a
उपाजह्रुः शरीरेषु हेमचित्राण्यनेकशः ॥ 023c
तदुत्सव इवोदग्रं सम्प्रहृष्टनरावृतम् । 024a
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥ 024c
जनौघसलिलावर्तो रथनागाश्वमीनवान् । 025a
शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् ॥ 025c
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् । 026a
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ॥ 026c
योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः । 027a
व्यदृश्यत तदा राजंश्चन्द्रोदय इवोदधिः ॥ ॥ 027c

इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥

5-153-15 आसन्नजला कोष्ठाः कक्ष्या येषु तानि तथा । अच्छेद्यः शत्रुभिरनिर्वार्य आहार आहरणं वस्तूनां मार्गाश्च येषु तानि अच्छेद्याहारमार्गाणि ॥ 5-153-20 अन्तरीयं परिधानीयम् । उत्तरीयं प्रावरणवस्त्रम् ॥