अध्यायः 152
युधिष्ठिरेण कुरुक्षेत्रे समुचितदेशे सेनानां निवेशनम् ॥ 1 ॥ धृष्टद्युम्नादिभिः सर्वेषां पृथक्पृथक्शिबिरनिर्मापणम् ॥ 2 ॥
वैशम्पायन उवाच । 001
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने । 001a
निवेशयामास तदा सेनां राजा युधिष्ठिरः ॥ 001c
परिहृत्य श्मशानानि देवतायतनानि च । 002a
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ॥ 002c
मधुरानूषरे देशे शुचौ पुण्ये महामतिः । 003a
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ॥ 003c
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः । 004a
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ॥ 004c
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् । 005a
पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ॥ 005c
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः । 006a
सात्यकिश्च रथोदारो युयुधानश्च वीर्यवान् ॥ 006c
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् । 007a
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ॥ 007c
खानयामास परिखां केशवस्त्रत्र भारत । 008a
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ॥ 008c
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् । 009a
तद्विधानि नरेन्द्राणां कारयामास केशवः ॥ 009c
प्रभूततरकाष्ठानि दुराधर्षतराणि च । 010a
भक्ष्यभोज्यान्नपानानि शतशोऽथ सहस्रशः ॥ 010c
शिविराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् । 011a
विमानानीव राजेन्द्र निविष्टानि महीतले ॥ 011c
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः । 012a
सर्वोपकरणैर्युक्ता वैद्याः शास्त्रविशारदाः ॥ 012c
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः । 013a
ससर्जरससपांसूनां राशयः पर्वतोपमाः ॥ 013c
बहूदकं सुयवसं तुषाङ्गारसमन्वितम् । 014a
शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ॥ 014c
महायन्त्राणि नाराचास्तोमराणि परश्वधाः । 015a
धनूंषि कवचादीनि ऋष्टयस्तूणसंयुताः ॥ 015c
गजाः कण्टकसन्नाहा लोहवर्मोत्तरच्छदाः । 016a
दृश्यन्ते तत्र गिर्याभाः सहस्रशतयोधिनः ॥ 016c
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत । 017a
अभिसस्रुर्यथादेशं सबलाः सहवाहनाः ॥ 017c
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः । 018a
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ॥ ॥ 018c
इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि द्विपञ्चशदधिकशततमोऽध्यायः ॥
5-152-5 गुल्मान् सैनिकसङ्घान् ॥ 5-152-7 सूपतीर्थां शोभनोपकण्ठाम् ॥ 5-152-9 तद्विधानि शिबिराणि ॥ 5-152-16 कण्टकसन्नाहाः येषां स्पर्शमात्रादपि गजान्तराणां कण्टकवेधो भवति तादृशाः सन्नाहाः कवचानि । कण्टकैः कवचैः सन्नहनं येषामिति प्राञ्चः ॥ 5-152-19 अभिसस्रुरभ्याजग्मुः ॥